________________
ध्य
पारस्करगृह्यसूत्रम् ।
[ चतुर्थी
दिसुदीधरत्स्वाहेत्यन्तेन मन्त्रेण द्वितीयामाहुति हुत्वा वास्तोष्पत इति चतसृभिर्ऋग्भिरपराश्चतस्त्र आन्याहुतीर्जुहोति । तत आघारावाज्यभागौ हुत्वा । 'स्थाली "त्यादि' ततः स्थालीपाकस्य चरोरग्निमिन्द्रमित्यादिभिः षड्भिर्मन्त्रैः षडाहुतीः प्रतिमन्त्रमेकैकां जुहोति । 'प्राश' ''प्रोक्षेत्' ततः स्विष्टकृदादिसंस्रवप्राशनान्ते कांस्ये कांस्यमये पात्रे संभारान् वक्ष्यमाणानोप्य कृत्वा औदुम्बरपत्राणि ससुराणि सक्षीराणि शाङ्खलं दुर्वागोमयमरोगिण्यादिगोः शकृत् दधि मधु घृतं यवान् निगदव्याख्यातान् आसनानिच उपस्थानानि च आसनोपस्थानानि वास्तुशास्त्रोपदिष्टानि तेषु प्रोक्षेत् उदुम्बर पलाशादिसंभारैस्तान्यभिषिञ्चेदित्यर्थः । तत्रासनानि नागदन्तादिमयस्थानानि उपस्थानानि देवतास्थानानि ।' पूर्वे संधावभिमृशति ' श्रीश्च त्वेति । ततः शालायाः पूर्वे संधौ अभिमृशति पुर्वसंधिप्रदेशमालभते श्रीच त्वेति मन्त्रेण । एवं दक्षिणे सन्धौ यज्ञस्य त्वेति मन्त्रेण । तथैव पश्चिमे संन्धौ अन्नं च त्वेति । तद्वदुत्तरे सन्धौ ऊर्कुचत्वेति । 'निष्क' ' 'ठते' एवं शालायाः पूर्वादिसंधीनभिमृश्य वहिर्निष्क्रम्य दिशः प्राचीप्रमुखाश्चतस्रः केता च मा सुकेता चेत्यादिभिश्चतुर्भिर्मन्त्रैः प्रदक्षिणक्रमेण प्रतिमन्त्रमुपतिष्ठते स्तौति । 'निष्ठितां प्रपद्यते धर्मस्थूणेति' निष्ठितां निर्मितां संपूर्णामिति यावत् । प्रपद्यते प्रविशति धर्मस्थूणेत्यादिसन्तु सर्वतइत्यन्तेन मन्त्रेण । ' ततो ब्राह्मणभोजनम्' इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । अथ शालाकर्मोच्यते । तत्र पुण्याहे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा पूर्णाहुतिवदाज्यं संस्कृत्य स्तम्भस्थानावटेषु चतुर्षु प्रत्यवटमाग्नेयकोणादारभ्य अच्युताय भौमाय स्वाहेत्यनेन मन्त्रेणैकैकामाज्याहुतिं जुहुयात् । इदमच्युताय भौमायेति प्रत्याहुति त्यागः । अथ होमक्रमेणावटेषु तूष्णीं शिला: स्थापयित्वा तदुपरि ' इमामुच्छ्रयामि भुवनस्य नाभिं वसोर्द्धारां प्रतरणीं वसूनाम् । इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा । अश्वावती गोमती सूनृतावत्युच्छ्रयस्व महते सौभगाय । आत्वा शिशुराक्रन्दत्वा गावो धेनवो वाश्यमानाः । आत्वा कुमारतस्तरुण आवत्सो जगदैः सह । आत्वा परिस्रुतः कुम्भ आदनः कलशैरुप | क्षेमस्य पत्नी बृहती सुवासा रयिं नो घेहि सुभगे सुवी - र्यम् । अश्वावद्गोमदूर्जस्वत्पर्ण वनस्पतेरिव । अभिनः पूर्यतारयिरिदमनुश्रेयो वसान ' । इत्यनेन मन्त्रेण होमक्रमेणैव चतुर्षु अवटेषु चतुरः स्तम्भानुच्छ्रयति मिनोति । स्तम्भाभावेऽनेनैव मन्त्रेण प्रत्यवटं शिलां स्थापयेत् । अर्द्धनिष्पन्नायां शालायां तन्मध्यप्रदेशे पश्चभूसंस्कारपूर्वकमावसथ्यानिं स्थापयित्वा ब्रह्माणमुपवेश्याग्नेरुत्तरत्त उदपात्रं प्रतिष्ठाप्य प्रणीताप्रणयनं विधाय कुशकण्डिकापूर्वकं चरुं श्रययित्वा प्रोक्षण्युत्पवनान्ते वहिर्निष्क्रम्य द्वारसमीपे गृहाभिमुखं स्थित्वा ब्रह्मन्प्रविशामीति ब्रह्माणमामन्त्र्य प्रविशस्वेति ब्रह्मणानुज्ञात ऋतं प्रपद्ये शिवं प्रपद्य इति मन्त्रेण शालां प्रविशेत् । अथ स्वासने उपविश्य उपयमन कुशादानसमिदाधानपर्युक्षणानि कृत्वा इह रतिरिह रमध्वमिह धृतिरिह स्वधृतिः स्वाहेत्ये कामाज्याहुतिं जुहुयात्, इदमग्नय इति त्यागं विधाय, उपसृजं धरुणं मात्रे धरुणो मातरं धयन् | रायस्पोपमस्मासु दीधरत्स्वाहेति मन्त्रेण द्वितीयामाज्याहुतिं जुहोति । इदमग्नय इति त्यक्त्वा अपराश्चतस्त्र आज्याहुतीर्जुहोति । वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवानः यत्वेमहे प्रतितन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे स्वाहेत्येकाम् इदं वास्तोष्पतये० । वास्तोष्पते प्रतरणो न एवि गयरफानो गोभिरश्वेभिरिन्दो | अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति तन्नो जुपस्व स्वाहेति द्वितीयाम् इदं वास्तोष्पतये ० । वास्तोष्पते शग्मया सह सदा ते सक्षीमहि रण्या गातुमत्या | पाहि क्षेम उत योगे वरन्नो यूयं पात स्वस्तिभिः सदा नः स्वाहेति तृतीयाम् इदं वास्तोष्पतये ० अमीवहा वास्तोष्पते विश्वारूपाण्याविशन् । सखा सुगेव एधि नः स्वाहेत्यनेन चतुर्थी जुहुयात् इदं वास्तोष्पत्य इति चतुसृषु त्यागः । तत आधारावाज्यभागौ हुत्वा चरुणा अग्निमिन्द्रमित्यादिभिः पभिर्मन्त्रैः पडाहुतीर्जुहुयात् । तद्यथा । अग्निमिन्द्रं वृहस्पतिं विश्वान्देवानुपह्वये । सरस्वतीं च वाजी
I
३४०