________________
फण्डिका]
तृतीयकाण्डम् । शालाग्निसाध्यान्यनुविहितानि शालाकरणं च नोक्तम् अतो हेतोः शालाकर्म शालाया गृहस्य क्रिया व्याख्यास्यत इति सूत्रशेषः । तद्यथा । ' पुण्यायेत् ' पुण्यं शुभं मलमासवालवृद्धास्तमितगुरुशुऋगुर्वादित्यसिंहस्थगुरुक्षयमासदिनव्यहक्रूरग्रहाक्रान्तमुक्तभोग्यनक्षत्रादिदोषरहितं ज्योतिःशास्रादिनोक्तगृहारम्भविहितमासपक्षतिथिवारनक्षत्रयोगकरणमुहूर्तचन्द्रतारावललग्नादिगुणान्वितमहः पुण्याहं तस्मिन्पुण्याहे शालां गृहं कारयेत् निर्मापयेत् । पुनः पुण्याहग्रहणं तूदगयनशुक्लपक्षयोरनियमार्थम् । शालां कारयेदित्युक्तम् । तच्च शालाकरणं देशमन्तरेण न संभवति इति सामान्यतो देशे प्राप्तेयन्नाम्नातं स्वशाखायां पारक्यमविरोधि यत् । विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् । इतिवचनात् पारस्कराचार्येणानुक्तमपि गोभिलगृह्यसूत्रोक्तदेशविशेषमविरोधादपेक्षितत्वाचात्र लिखामः । तद्यथा । कीदृशे देशे शालां कारयेत् । समे लोमशे अविभ्रंशिनि प्राचीनप्रवणे उदपवणे वा अक्षीराकण्टकाकटुकौषधिवितते विप्रस्य गौरपांसौ क्षत्रियस्य लोहितपांसौ वैश्यस्य कृष्णपांसौ, वास्तुशास्त्रमते वैश्यस्य पीतपांसौ शूद्रस्य कृष्णपांसौ, स्थिराघाते एकवणे अशुष्क अनूपरेऽमरौ मैरुनिर्जलो देशः । अकिलिने ब्रह्मवर्चसकामस्य दर्भयुक्ते वलकामस्य वृहत्तृणयुते पशुकामस्य मृदुतृणयुते शादासम्मिते मण्डलद्वीपसंमिते वा । स्वयंखातश्च भवति वा । यशस्कामस्य बलकामस्य च प्रागद्वारा पुत्रपशुकामस्योदगद्वारा सर्वकामस्य दक्षिणद्वारां न प्रत्यगद्वारा मुख्याद्वारसंमुखान् द्वाररहितां पूर्वादितः प्रदक्षिणक्रमेणाश्वत्थप्लक्षवटौटुम्बरवृक्षवर्जितां कारयेत् ॥ भवनस्य पूर्वादौ वटौदुम्बराश्वत्थप्पक्षाः सार्वकामिकाः । विपरीतास्त्वसिद्धिदा इति मत्स्यपुराणे । तथा कण्टकी क्षीरवृक्षश्च आसन्नः सफलो द्रुमः । भार्याहानि प्रजाहानि फुर्वन्ति क्रमशस्तथा । नछिन्द्याद्यदि तानन्यानन्तरे स्थापयेच्छुभान् । पुन्नागाशोकबकुलशमीतिलकचम्पकान् । दाडिमी पिप्पली द्राक्षा तथा कुसुममण्डपम् । जम्बीरपूगपनसद्रुममचरीमिर्जातीसरोजशतपत्रिकमल्लिकाभिः । पुनारिकेलकदलीदलपाटलाभिर्युक्तं तदन्न भवनं श्रियमातनोति । 'तस्या' ''स्वाहेति तस्याः शालाया अवटं स्तम्भारोपणार्थ खातमभिमुखेन जुहोति, अच्युताय भौमाय स्वाहेति मन्त्रेण । अत्रावटमित्येकवचनमन्येषां त्रयाणामुपलक्षणार्थ संस्कार्यत्वाविशेषात् ग्रहं संमार्टीतिवदेकवचनम् । अक्टाश्चत्वारः कुत इति चेत् धवलगृहस्य स्तम्भशालारूपस्य च चतुषु कोणेषु चत्वारो मूलस्तम्भा भवन्ति, ते च शिलामुच्छ्रीयन्ते शिलाश्वावटेष्विति चत्वारः। अतश्चतुर्षु कोणेषु आग्नेयादिषु चत्वारोऽवटा भवन्ति तेष्वेवाज्येन होमः । ' स्तम्भ ''मीति' स्तम्भमुछ्यति उत्थापयति अवटे मिनोतीत्यर्थः । केन मन्त्रेण । इमामुच्छ्रयामीत्यादिश्रेयोवसान इत्यन्तेन मन्त्रेण चतुरः । ततोऽनेनैव मन्त्रेण नैरत्याद्यवटेपु चतुरः स्तम्भानुच्छ्रयति । इतरगृहे तु चतुर्यु कोणेपु शिलान्यास एव भवति अनेनैव मन्त्रैण । 'प्रपद्यते । ततः शालां प्रपद्यते प्रविशति । 'अभ्यन्त''शामीति'। अभ्यन्तरतः अर्द्धनिष्पन्नायाः शालाया मध्ये अग्निमावसथ्यमुपसमाधाय पञ्चभूसंस्कारपूर्वकं स्थापयित्वा दक्षिणतः अग्नेर्दक्षिणपार्श्वे ब्रह्माणमुपवेश्य उत्तरतः अग्नरुत्तरप्रदेशे उदपात्रं जलपूर्ण ताम्रादिभाजनं प्रतिष्ठाप्य निधाय । अत्र पुनर्ब्रह्मोपवेशनमुदपात्रप्रतिष्ठापनावसरविज्ञापनार्थम् । स्थालीपाकं चरु अपयित्या यथाविधि पक्त्वा ब्रह्माणं प्रथममृत्विजमामन्त्रयते संबोधयति । कथं, ब्रह्मन्प्रविशामीति । 'ब्रह्मा"'पद्य इति' तत आमन्त्रितेन ब्रह्मणा प्रविशस्वेत्यनुज्ञातः प्रसूतः प्रविशति, ऋचं प्रपद्ये शिवं प्रपद्य इति मन्त्रेण शालां प्रपद्यते । 'आज्यठी 'होति' वास्तोष्पत इत्यादि। अत्र प्राप्तमप्याज्यसंस्कारविधानमाधारादाक् इहरतिरिति आज्यस्य होमप्राप्त्यर्थम् । आज्यसंस्कारानन्तरं पर्युक्षणान्ते इहरतिरित्यादि इह स्वधृतिः स्वाहेत्यन्तेन मन्त्रेणैकाम् । उपसृजमित्या
१ सतृणे इत्यर्थः । २ द्वीपमुन्नतमाख्यातं शादा चैवेष्टकाः स्मृताः । किलिन सज्जलं प्रोक्तं दूरखातोदको मरू।