________________
३३८ पारस्करगृह्यसूत्रम्।
[चतुर्थी अश्वेभिरश्वादिभिरेकशफैर्युक्तानाम् । किच हे इन्द्र परमेश्वर गयस्फानः प्राणवर्द्धकश्चैधि । प्राणा वै गया इति श्रुतेः । किच ते तव सख्ये मैत्र्यां सति वयमजरासः अक्षीणसंपदः स्याम भूयास्म । पुत्रान्प्रति पितेव वर्तमानस्त्वं नोऽस्मान्प्रति जुपस्व प्रीतोभव । हे वास्तोष्पते तव शग्मया सुखरूपया । शिवं शग्ममिति सुखनामनी । संसदा सभया सक्षीमहि संवध्येमहि वयम् । पच समवाये । किंभूतया रण्वया शास्त्रीय रणनमुपन्यासं कुर्वाणा रण्वा तया । गातुमत्या यज्ञवत्या त्रयीप्रधानया वा । त्वं च नोऽस्मान् योगे अलब्धलामे उत अपि क्षेमे लन्धरक्षणे निमित्ते वरं यथा स्यात्तथा पाहि रक्ष । हे इन्द्रानुचराः यूयं नोऽस्मान्स्वस्तिभिः अभीष्टफलैः सदा पात आप्याय्य रक्षत ।। ३ ॥ हे वास्तोपते इन्द्र त्वम् अमीवहा पापरोगपीडादिनाशको यतः अतो नो ऽस्माकं सखा इहामुत्र चन्धुरेधि भव । किं कुर्वन् । विश्वा विश्वानि ब्रह्मादिस्तम्बपर्यन्तानि रूपाणि शरीराण्याविशन् प्रविशन् सर्वशरीरिरूपेणास्मासु अनुकूलो भवेत्यर्थः । किंभूतः सुशेवः शोभनसुखहेतुः । अग्निमिन्द्रमित्यादिपण्णां विश्वामित्रोऽनुष्टुप् लिङ्गोक्ता होमे० अमग्न्यादीन्देवान हविर्ग्रहणाय उपह्वये मत्समीपमाहयामि । न केवलमेतान् । सरस्वती वाचं वाजीमन्नमयी सीता च । हे अग्न्यादयो देवा यूयमागत्य मे मह्यं वास्तु गृहं दत्त दर्दू मदायत्तं कुरुतेत्यर्थः । किंभूताः वाजिनः अन्नवन्तः वेगवन्तो वा । अनेनोत्तरमन्त्रा अपि व्याकृताः । विशेषास्तूच्यन्ते । एतान्सादीनुपह्वये इत्यनुपङ्गः । उपहय च तान्प्रपद्ये शरणं व्रजेऽहम् । जगदैरनुचरैः सह वर्तमानान् । तत्र व्युष्टामुपसं देवीं द्योतनात्मिकां महापथामनेकमागी वहुमुखामित्यर्थः । इदं वास्तु स्योनं सुखसेन्यं सुखरूपत्वात् शिवं कल्याणरूपं शान्तं वा वास्तु गृहं मह्यं हे ब्रह्मप्रजापती वेदब्रह्माणौ युवां दत्तं प्रयच्छतम् । हे सर्वा देवताः यूयमपि चकारादत्तेति क्रियाविपरिणामः । स्वाहेति प्रागुक्तम् । कांस्ये कास्यपात्रे संभारान् उदुम्बरस्येत्यौदुम्बरपलाशादीन ओप्य संस्थाप्य । तत्रौदुम्वरपत्राणि ससुराणि क्षीरेण सुरया वा पृक्तानि । तैरुपहारैश्वासनानि गजदन्तादिनिर्मितानि उपस्थानानि देवतायतनादीनि च प्रोक्षेत् । आसनान्युपस्थानानि च वास्तुशास्त्रप्रसिद्धानि शालाभवान्येव । पूर्वसंधौ कुड्यादौ अभिमृशति स्पृशति श्रीश्वत्वेति मन्त्रेण । तस्यार्थः । तदादिचतुर्णा प्रजापतिर्यजुलियोक्ताः स्पर्शने । हे शाले त्वा त्वां पूर्व संधौ श्रीलक्ष्मीः यशः कीर्तिश्च गोपायेतां रक्षेताम् । एवमुत्तरत्रापि व्याख्येयम् । ऊर्छ तेजः प्राणनम् । सूनृता शोभनवान् । निष्क्रम्य गृहाद्वहिनिर्गत्य दिश उपतिष्ठते स्तौति केताचमेत्यादिभिर्मन्त्रैः प्रतिमन्त्रम् । तदर्थः सुगमः । तत्र चतुर्णा प्रजापतिस्त्रिष्टुप् लिड्डोक्ता उपस्थाने० । गोपायेतामित्येतत्पदावृत्तिर्गोपनस्याभीष्टत्वेनात्यादरसूचनार्था । निष्ठिता निष्पन्नां प्रपद्यते प्रविशति धर्मस्थूणाराजमितिमन्त्राभ्याम् । तदर्थः । तत्र द्वयोब्रह्मा जगतीवृहत्यौ लिङ्गोक्ता प्रवेशने० । धर्मस्थूणाराजं धर्मयुक्तं स्थूणाराज महती स्थूणां श्रीस्तूपं लक्ष्मीस्वरूपम् । चलदण्डिकारूपस्त्रीयुक्तम् । अगारे हि स्तूपो वध्यते । स्तूप इत्यरुषाभिधानम् । अहोराने तहेवते द्वारफलके द्वारकपाटे लोकालोकरूपत्वात् इन्द्रस्य इमे गृहाः इन्द्रदेवतात्वात् वसुमन्तः धनिनः वरूथिनः रक्षकाः बहुप्रजासो वा तानेतानहं प्रपद्ये अधिवसामि । प्रजया पुत्रादिरूपया सह पशुभिर्गोमहिष्यादिभिश्च सह । यत्किंचिन्मे मम वस्त्वस्ति तेन सह वास्तोष्पतिनोपहूतः सन् हे शाले त्वा त्वां याचे। किम् । नोऽस्मान् गृहान् गृहस्थान्प्राप्य सर्वे देवा इमे गृहा वा अरिष्टवीराः अरिष्टा निराधिव्याधयो वीराः पुत्रादयो येभ्यस्तथा सन्तु सर्वतः सर्वभावेन । किंभूतोऽहम् । सर्वगणसखायसाधुसंवृतः सर्वैर्गणैः परिवारैः सखायैर्मित्रसमूहैः साधुतया अन्यैः साधुभिवों संवृत आश्रितः । तत इत्युक्ताथम् ॥ ४ ॥
(हरिहरः)- अथा'""कर्म । अथान्वष्टकाकर्मानन्तरं यत आवसथ्याधानादीनि कर्माणि