________________
कण्डिका
तृतीयकाण्डम् । धवलगृहे तु चतुर्पु कोणशिलास्थानेषु होमः । स्तम्भस्थानीयत्वाच्छिलानाम् । तत्र होममन्त्रः अच्युतायेति । अस्यार्थः । तत्र प्रजापतिरनुष्टुप् इन्द्रोऽवटहोमे० । अच्युताय अप्रच्युतस्वरूपाय । भौमाय भूनागायेति । इमामुच्छ्रयामीत्येवमादिमन्त्राणां विश्वामित्रः क्रमेण त्रिष्टुप्पतिजगत्यनुष्टुभः स्तम्भोच्छ्रयणे० । इमां स्थूणां शालाधाररूपामुच्छ्रयामि उत्थापयामि । किंभूताम् । भुवनस्य भूर्लोकस्य भुवनैकदेशवर्तिनो गृहस्य वा नामिमाधारं वसोर्द्धारां वसुनो धनस्य धारां मृति धरित्री वा । वसूनां गोमहिघ्यश्वस्वर्णरत्नादिविविधधनानां प्रतरणी प्लावनीं प्रसारिणीमिति यावत् । इहैव अत्रैव स्थूणायां शालां गृहं निमिनोमि स्थापयामि । कीदृशीं शालां ध्रुवां स्थिराम् । इयं च शाला क्षेमे निरुपद्रवे प्रदेशे घृतं सुखमुक्षमाणा सिञ्चन्ती अस्मान्प्रापयन्ती तिष्ठतु स्थित भवतु । हे शाले त्वमन्वावती अश्वयुक्ता गोमती गोयुक्ता सूनृतावती प्रियसत्यवाक्यवती उच्छ्रयस्व उत्थिता भव । किमर्थ ? महते सौभगाय भाग्योदयाय । हे शाले त्वा त्वामधिष्ठाय शिशुराक्रन्दतु वालकः क्रीडोत्थहासशब्दं करोतु । जातावेकवचनम् । अथवा वालाः क्रीडार्थम्परस्परमाह्वयन्तु । तथा धेनवः प्रसूताः गावोऽप्रसूताश्च वाश्यमानाः आक्रन्दन्तु इति क्रियां विपरिणमय्य संवन्धः । आ त्वा त्वामाश्रित्य तरुणः समर्थः कुमारो वटुः आक्रन्दतु वेदघोषं करोतु । एवं वत्सः स्तनन्धयः स्तनपानार्थमाक्रन्दतु मातरमाह्वयतु जगदैरनुगै रक्षकैः सह । तथा परिसुतः उत्सिञ्चन् कुम्मो दनः कलशोऽन्यैर्ऋध्यादिकलशैः सह उप मत्समीपे पूर्णशब्दं करोतु । एतैर्युक्ता भवेत्यर्थः । पुनरपि तां स्तुत्वा प्रार्थयते क्षेमस्येति । हे शाले सुभगे सुन्दरि सुसमृद्धे वा त्वं नोऽस्मभ्यं रयिं धनं देहि । अस्मासु धारयेति वा । किंविशिष्टा त्वं ? क्षेमस्य रक्षणस्य पत्नी स्वामिनी । वृहती स्वरूपेण गुणैश्च महती । सुवासाः शोभनवस्त्रादिसमृद्धा शोभनवसतिर्वा । किंच नोऽस्मभ्यं सुवीर्य शोभनां शक्तिं पुष्कलप्रजाहेतुं वा धेहि । रयिविशेषणं वा । दानादिसुशक्तियुक्तं धनं देहीत्यर्थः । किंच भो शाले नोऽस्मान् अभि अभितः अस्मासु सर्वभावेन रयि धनं पूर्यताम् पूर्ण क्रियताम् धनेनास्मान्पूरयेत्यर्थः । किंविशिष्टा रयिः । अश्वावत् अश्ववती । गोमत् गोमती। ऊर्जवत् रसवती विस्तृता वा । वनस्पतेः पर्णमिव । यथा वनस्पतेः पर्णानि वसन्तादौ पूर्यते तथा । एकत्वमत्र जात्या । यद्वा अश्वावदित्यादीनि पर्णविशेषणानि | अनावन अश्वव्यवहारयोग्यमित्यादि । इदं स्थानं वसानः अधिवसन् अहं पूर्यताम् पूर्षे पूर्णो भवानीत्यर्थः । अधिवसाने मयि रयि पूर्यतामिति वा ॥ १॥ इति शब्द उभयत्र संवव्यते तन्त्रत्वात् । इति चतुरः एवं चतुरः स्तम्भानुच्छ्रयति । इतरगृहे तु शिलान्यास एवैतेन मन्त्रेण | ब्रह्मोपवेशनग्रहणं तूदपात्रावसरज्ञापनार्थम् । प्रणीताभ्योऽधिकमेतत् । प्रविशेति ब्रह्मानुज्ञातः प्रविशति ऋतमितिमन्त्रेण । तदर्थः सुगमः । तत्र परमेष्ठी यजुः शाला तत्प्रवेशे० ऋतं सत्यभूतं त्वां प्रपद्ये प्राप्नोमि । एवं शिवं कल्याणरूपं त्वां प्रपद्ये । आज्य संस्कृत्येत्यवसरविधानार्थमाज्याहुतीनाम् । तत आधारादि । अपराश्चतस्रो वास्तोष्पते इत्यादिचतुर्भिर्मन्त्रैः। तदर्थः । तत्र वास्तोष्पते इत्यादिचतसृणां वशिष्ठस्त्रिष्टुपू इन्द्रो नवशालायामाज्यहोमे० । वसतेर्निवासकर्म इतिनिरुताद्वास्तुर्गृहम् । तस्य वास्तोः पते स्वामिन इन्द्र । वास्तोष्पति!ष्पतिरितीन्द्रपर्यायः । अस्मान् रक्षितुं प्रतिजानीहि प्रतिज्ञा कुरु । अरीकुर्वित्यर्थ. । कथं स्वावेशः सुष्टुप्रवेशो नोऽस्माकं भवा भव । दीर्घश्छान्दसः । अस्मानुत्तमान्विधाय प्रवेशयेत्यर्थः । किंच अनमीवः अमीवं पापं रोगो वा तद्विरोधी। किंच । यत्किचिद्वयं त्वा त्वाम् ईमहे प्रार्थयामहे । तद्वस्तुजातं प्रापय्य नोऽस्मान् जुपस्व प्रीणयस्व प्रीयस्खेति वा । प्रार्थयानानस्मान्प्रीणयित्वा त्वमपि प्रीतो भवेत्यर्थः । किंच । नोऽस्माकं द्विपदे मनुष्यवर्गाय शं सुमडलस्वरूपो भव । चतुष्पदे पशुवर्गाय शं सुखस्वरूपो भव । स्वाहाकारो मन्त्रावसानज्ञापनार्थः प्रदर्शितः सर्वत्र । हे वास्तोष्पते त्वं नोऽस्माकं प्रतरणः आपन्निस्तारकः एधि भव । किभूतानाम् । गोभिर्गवादिमिशिफैः