________________
पारस्करगृह्यसूत्रम्।
[चतुर्थी अथ पश्चात् दीदिविश्व मा जागृविश्व पश्चाद्गोपायेतामित्यन्नं वै दीदिविः प्राणो जागृविस्ती प्रपद्ये ताभ्यां नमोऽस्तु तौ मा पश्चाद्रोपायेतामिति॥१६॥ अथोत्तरतोऽस्वप्नश्च मानवद्राणश्वोत्तरतो गोपायेतामिति चन्द्रमा वा अ. खप्नो वायुरनवद्राणस्तौ प्रपद्ये ताभ्यां नमोस्तु तो मोत्तरतो गोपायेतामिति ॥ १७ ॥ निष्ठितां प्रपद्यते धर्मस्थूणा राज श्रीस्तूपमहोरात्रे द्वारफलके । इन्द्रस्य गृहा वसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह । यन्मे किंचिदस्त्युपहूतः सर्वगणसखायसाधुसंवृतः । तां त्वा शालेऽरिष्टवीरा गृहान्नः सन्तु सर्वत इति ॥ १८ ॥ ततो ब्राह्मणभोजनम् ॥ १९ ॥४॥७॥
(कर्कः)- अथाकर्म ' व्याख्यास्यते इति सूत्रशेपः । शालाशब्देन गृहमभिधीयते । ' पुण्यायेत् । पुण्याहग्रहणमुद्गयनापूर्यमाणपक्षयोरनादरार्थम् ।' तस्या "स्वाहेति । तस्याः शालायाः यो योऽवटस्तं तमभिजुहोति । अवटसंस्कारत्वात्प्रत्यवर्ट होमः । चत्वारो ह्यवटा मूलस्तम्भानां प्रसिद्धा इति स्तम्भशालायाम् । धवलगृहे चतुर्पु कोणशिलास्थानेषु होमः स्तम्भस्थानीयस्वाच्छिलानाम् । 'स्तम्भ' ''मुच्छ्रयति' इमामुच्छ्रयामीत्येभिर्मन्त्रैः 'पूर्यतारयिरिदमनुश्रेयो वसानः' इत्येवमन्तैः । इति चतुरः' एवं चतुरः स्तम्भानुच्छ्रयति । इतरगृहे तु शिलान्यास एतैर्मन्त्रैः । अभ्यनिकम्य' बहिनिष्क्रमणं तु प्रोक्षण्युत्पवनीयोपयमनकुशादानात्पूर्व भवति । द्वार शामीति' शालायामभ्यन्तरतोऽग्निमुपसमाधाय ब्रह्मोपवेशनं चोदपात्रावसरविधित्सया । प्रणीतानां ह्यधिकमेतत् । स्थालीपाकपयित्वा निष्क्रम्य द्वारसमीपे स्थित्वा ब्रह्मन्प्रविशामीति ब्रह्माणमामन्त्रयते । 'ब्रह्मानुज्ञातः प्रविशति' ऋचं प्रपद्ये इत्यनेन मन्त्रेण । 'आयर्छन "होति वास्तोष्पते प्रतिजानीहि० इत्येभिर्मन्त्रैः प्रतिमन्त्रम् । आज्यटः संस्कृत्येत्यवसरविधित्सया आज्याहुतीनामुच्यते । तत आघारादि । 'स्थालीपाकस्य जुहोति अग्निमिन्द्रमित्येवमादिभिर्मन्त्रैः प्रतिमन्त्रम् । ततः विष्टकृदादि । 'प्राश...क्षेन् । प्राशनोत्तरकालं कास्ये भाजने संभारानावपेत् । औदुम्बरपत्राणि ससुराणि सक्षीराणि । सह सुरयेत्यपरे । शाब्बलं दूर्वा गोमयं दधिमधुघृतं कुशान्यवांश्च वैरासनोपस्थानेषु प्रोक्षणं करोति । आसनानि जयन्तीनागदन्तकादिस्थानानि । उपस्थानानि देवतास्यानानि तानि च वास्तुशास्त्रे ज्ञेयानि । 'पूर्व संधावभिमृशति 'श्रीश्च त्वा यशश्चेत्यनेन मन्त्रेण । संधिशब्देन कुड्योऽभिधीयते । 'दक्षिणे संधावमिमृशति यज्ञश्च त्वा दक्षिणा चेत्यनेन मन्त्रेण । 'पश्चिमे संघावभिमृशति । अन्नं च त्या ब्राह्मणाश्चेत्यनेन मन्त्रेण । ' उत्तरे संधावभिमशति । अव त्वा सूनुताचेत्यनेन मन्त्रेण । ' निष्क्रम्य दिश उपतिष्टते केताच मा सुकेता च० इत्येभिर्मन्त्रैः निगदव्याख्यातमेतत् । 'निष्ठिता प्रपद्यते । धर्मस्थूणाराजमित्यनेन मन्त्रेण ।-निष्टितां परिसमाप्तां शालां प्रविशति । ' ततो ब्राह्मण भोजनम् ॥ ४ ॥
(जयरामः)-'अथातः शालाकर्म वक्ष्यत इति सूत्रशेषः । शाला गृहमित्यनर्थान्तरम् । साच पुण्याहे कार्या । पुण्याहग्रहणं चोदगयनापूर्यमाणपक्षयोरनादरार्थम् । तस्याः शालायाः यो योऽवटस्तंतमभिजुहोति । अवटसंस्कारत्वात्प्रत्यवर्ट होमः । स्तम्भशालायां चत्वारोऽवटा मूलस्तम्भानाम् ।