________________
३४६, पारस्करगृह्यसूत्रम्।
[अष्टमी अतः त्वा त्वां हलनो ज्वलनोऽयमग्निरिन्द्रपाशेन तेनैव सित्वा बद्धा अन्यं तव मनसि स्थित्तमनर्थकारि भूतविशेपं मुक्त्वा मोचयित्वा मह्यं मामाश्रयितुमानयेत् आनयतु । मदायत्तं करोत्विस्यर्थः । यद्वा ह्वलनिर्वायुः । वृत्ता वर्तिता रक्षिता इन्द्रवीरुधो वेदा येन सः । सशब्दस्य(१)वाय्वात्मकत्वात् एवं भूतो वायुश्चेति योज्यम् । तत्पक्षे त्वेति दासविशेपणमुपक्रान्तत्वात(१) । शेपं समानम् ॥ ७॥
(हरिहरः)-'उतूलपरिमेह.' उतूलस्य दुर्विनीतस्य दासस्य परि समन्तात् मेहः सेचनं वशीकरणाभिषेक इति यावत् , कर्म कथ्यते । तद्यथा । ' स्वप' ' 'ध्यसीति । यदा स दासः स्वपित्ति तदा गवादः पशोः जीवतो विपाणे शृङ्गे स्वं मूत्रमासिच्य सिक्त्वा तस्य स्वपतो दासस्य अपसलवि अप्रादक्षिण्येन विपाणस्थ मूत्रं परि समन्तासिञ्चन् उक्षन् त्रिः त्रीन् वारान् परीयात् परिभ्रमेत् परित्वा गिरेरित्यादिकगमिष्यसीत्यन्तेन मन्त्रेण । ' स यदि "येदिति । स दासो यदि अस्मिन्कर्मणि कृतेऽपि भ्रम्यात् स्वेच्छया विचरेत् तदा तदश्यार्थमिदं कर्मान्तरं कुर्यात् । तद्यथा । पञ्चभूसंस्कारपूर्वकं दावाग्निं वनदहनं स्थापयित्वा ब्रह्मोपवेशनादिपर्युक्षणान्ते आधारावाज्यभागौ महान्याहतिसर्वप्रायश्चित्तप्राजापत्यस्विष्टकृदन्ताश्चतुर्दशाहुती?त्वा कुशेण्ड्वानि कुशानामिण्ड्वानि कुण्डलाकाराणि घृताक्तानि त्रीणि परित्वेत्यादिअथान्यमानयेदित्यन्तेन मन्त्रेण सकृदेव जुहुयात् । इदमिन्द्रायेति त्यागः । ततः संस्रवप्राशनादि ब्रह्मणे दक्षिणादानान्तं कर्म कुर्यात् । क्षेम्यो ह्येव भवति । अस्मिन्कर्मणि कृते हि स्फुट क्षेम्यः वश्य एव दासो भवति संपद्यते ॥ इत्युतूलदासवश्यकर्म ।। ७ ।। सप्तमी कण्डिका || * ॥ ॥ * ॥
(विश्व०)-'उतूलपरिमेहः । उतूलः दुर्विनीतो दासः । तस्य परिमेहः वशीकरणं वक्ष्यात इति सूत्रशेप: 'स्वपतो' 'ज्यसीति' स्वपतः दासस्य वक्ष्यमाणः परिषेकः । कथं कुर्यादत आह जीवविपणे जीवतः छागस्य विषाणे दक्षिणे [ वामे ] स्वं मूत्रमासिच्य तेन मूत्रेण दासमपसलवि अप्रदक्षिणं परिषिश्चन् त्रिः वारत्रयं परीयात्परिभ्रमेत्परित्वेतिमन्त्रेण । उदकस्पर्शः । वारत्रयमितरथावृत्तिः । 'सयदि येदिति । एवं परिमीढोपि स दासादिदि भ्रान्तः स्यात्तदोपायान्तरमाह । उप लिप्त उद्धत्तावोक्षिते दावाग्निमुपसमाधाय ब्रह्मासनास्तरणादिचतुर्दशाहुत्यन्ते कुशेण्डानि कुशकुण्डलानि त्रीणि घृतेनाक्तानि परित्वाह्वलन इति मन्त्रेण सुवेण जुहुयात् । ततः संस्रवप्राशनादि ब्राह्मणभोजनान्तम् । 'क्षेम्यो ह्येव भवति । पश्योऽभ्रान्तश्च भवतीत्यर्थः ॥ ७॥ तृतीयस्य सप्तमी ॥
शूलगवः ॥ १ ॥ स्वयः पशव्यः पुत्र्यो धन्यो यशस्य आयुष्यः ॥ २ ॥ औपासनमरण्यर्छ हत्वा वितान: साधयित्वा रौद्रं पशुमालभेत ॥ ३ ॥ साण्डम् ॥ ४ ॥ गौर्वा शब्दात् ॥ ५ ॥ वपाळ श्रपयित्वा स्थालीपाकमवदानानि च रुद्राय वपामन्तरिक्षाय वसा स्थालीपाकमिश्रान्यव. दानानि जुहोत्यग्नये रुद्राय शर्वाय पशुपतये उग्रायाशनये भवाय महादेवायेशानायेति च ॥ ६॥ वनस्पतिस्विष्टकृदन्ते ॥ ७ ॥ ८ ॥ दिग्व्याघारणम् ॥ ९ ॥ व्याधारणान्ते पत्नीः संयाजयन्तीन्द्राण्यै रुद्राण्यै शाप्यै भवान्या अग्निं गृहपतिमिति ॥ १० ॥ लोहितं पालाशेषु कूर्चेषु 'रुद्रायसेनाभ्यो बलिठ हरति यास्ते रुद्र पुरस्तात्सेनास्ताम्य एष बलिस्ता.