________________
३३४
[ चतुर्थी
कुर्यादिति शेषः । आचार्यादिभ्यो मान्त्रादिभ्यः पिण्डदानानन्तरमवटखननात्याक्पिण्डदानं ध्येयम् । अनुकम्प्याऽनुक्तसमुच्चयार्थश्वकारः । तृतीया कालशाकेन । प्रजापतयेजुष्टं । प्रजापतये स्वाहेति प्रधानहोमः । शेषं प्रथमाष्टकावत् । एवं मार्गशिरपौषमाघकृष्णाष्टमीपु क्रमेण तिस्रः अष्टका भवन्तीत्यु क्तम् । यद्यपि चतुर्थ्या अपि देवता उक्ता तयापि मध्यमा गवेत्युक्तेर्द्वयोर्मध्यमत्व प्रसक्तिन्युदासाय चतुर्थी पृथक्सूत्रयति । ' मध्याष्टका ' वर्षे संवत्सरे चैत्रादिरूपे फाल्गुनान्ते । मध्या संवत्सर मध्ये भाद्रपदापरपक्षेऽष्टम्यां तुरीया चतुर्थी कालशाकेनाष्टका शाकाष्टका कर्तव्येति शेषः । केचित्तु वर्षे वृष्टिकाले मध्या वृष्टिकालमध्यवर्तिनीत्याहुः । तन्मते व्याख्यानभेदेपि व्याख्येयाऽभेद इति द्रष्टव्यम् । तृतीयायाः शाकसाधनत्वदाढर्थाय चतुर्थ्यां शाकसाधनत्वोक्तिः स्वतन्त्रस्य नियोगपर्यनुयोगानर्हत्वादिति । अत्रापि कालशाकचरोरपसव्येन ग्रहणप्रोक्षणादि । पितृभ्यो जुष्टमिति । दशान्याहुति हो - मानन्तरमपसन्येन पितृभ्यः स्वाहेति कालशाकचरुहोम: । इदं पितृभ्यः । अन्यत्सर्वं प्रथमाष्टकावत् । एवं चतस्र अष्टका अन्वष्टका श्रोता: । तासु द्रव्यदेवताव्यतिरिक्तविशेषाभावो मांसामावे । अष्टकानन्तरमन्वष्टकाश्राद्धं सर्वत्र । तृतीयस्य तृतीया ॥ ३ ॥
पारस्करगृह्यसूत्रम्
अथातः शालाकर्म ॥ १ ॥ पुण्याहे शालां कारयेत् ॥ २ ॥ तस्या अवटमभिजुहोत्यच्युताय भौमाय स्वाहेति ॥ ३ ॥ स्तम्भमुच्छ्रयति इमा मुच्छ्रयामि भुवनस्य नाभिं वसोर्धारां प्रतरणीं वसूनाम् । इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा । अश्वावती गोमती सूनृतावत्युच्छ्रयस्व महते सौभगाय । आत्वा शिशुराक्रन्दत्वा गावो धेनवो वाइयमानाः । आत्वा कुमारस्तरुण आवत्सो जगदैः सह । आत्वा परिस्रुतः कुम्भ आदघ्नः कलशैरुप । क्षेमस्य पत्नी बृहती सुवासा रयिं नो धेहि सुभगे सुवीर्यम् । अश्वावद्गोमदूर्जस्वत् पर्ण वनस्पतेरिव । अभिनः पूर्यतार्थं - रयिरिदमनुश्रेयो वसान इति चतुरः प्रपद्यते ॥ ४ ॥ अभ्यन्तरतोऽग्निमुपसमाधाय दक्षिणतो ब्रह्माणमुपवेश्योत्तरत उदपात्रं प्रतिष्ठाप्य स्थालीपाक ं श्रपयित्वा निष्क्रम्य द्वारसमीपे स्थित्वा ब्रह्माणमामन्त्रयते ब्रह्मन् प्रविशामीति ॥ ५ ॥ ब्रह्मानुज्ञातः प्रविशत्यृतं प्रपद्ये शिवं प्रपद्य इति ॥ ६ ॥ आज्य संस्कृत्ये हरतिरित्याज्याहुती हुत्वाऽपरा जुहोति । वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवानः । यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे स्वाहा | वास्तोष्पते प्रतरणो न एधि गयरफानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव
१ ऋचमिति पाठः ।