________________
कण्डिका ]
तृतीयकाण्डम् |
३३३
I
1
ग्रहणे पृथिव्यै अंतरिक्षायदिवेदिग्भ्यः प्रदिग्भ्यआदिग्भ्योऽहोरात्राभ्यामद्भ्योमरीचिभ्यो धात्रेसमुद्रायब्रह्मणेविश्वेभ्योदेवेभ्य - आदित्येभ्यो वसुभ्यो देवेभ्योरुद्रेभ्योमरुद्भ्यः प्रजापतये परमेष्ठिनेऽप्रकायैजुष्टं गृह्णामि । प्रोक्षणे त्वाशब्दः । आज्याधिश्रयणानन्तरं कर्षरिकामधिश्रित्य तत्रापूपं स्याप्य चरुचिश्रित्य पर्यनिकरणादि । शेषं परिभाषावत् । तत आज्यभागानन्तरं दशाज्याहुतीर्वेक्ष्यमाणैर्मन्त्रैर्जुहोतीत्यर्थः । तानाह । ' त्रिर् श मन्य स्वाहेति ' त्यागास्तु । इदं त्रिशस्त्रसृभ्यः १ इदं राज्यै २. त्रिषु इदमष्टकायै ३-५ पंचसु इदं रात्र्यै ६-१० । आद्याष्टकाया इन्द्रदेवताकत्वादिन्द्रायस्वाहेत्यपूपहोम: । इदमिन्द्राय । केचित्तु स्थालीपाकहोमानन्तरमपूपहोममाहुः | 'स्थाली "कायैस्वाहेति' शान्तापृथिवीत्यादिचतुर्भिर्मन्त्रैश्चतत्र आहुतीः स्थालीपाकस्य जुहोतीत्यर्थः । त्यागास्तु इदं पृथिव्यै अन्तरिक्षाय दिवे दिवेभ्यः प्रदिग्भ्य आदिग्भ्योऽहोरात्राभ्यां च ॥१॥ इदमयोमरीचिभ्यो धात्रेसमुद्राह्मणे च । इविश्वेभ्यो देवेभ्यआदित्येभ्योवसुभ्यो देवेभ्योरुद्रेभ्यो मरुद्भ्यः प्रजापतये (परमेa) च । ३ इदमष्टायै । उभयोः स्विष्टकृन् । महाव्याहृत्यादिवाह्मणभोजनान्तं ततो वैश्वदेवः । इच्छयाष्टकाश्राद्धं, केचिन्नेच्छन्ति (१) ॥ इति प्रथमाष्टका । क्रमेण मध्यमाकर्तव्यतामाह ' मध्यमा गवा' कर्तव्यतां वक्ष्यति पशुचेदाप्लाव्येत्यादिना । गोपशुश्च सुराग्रह इति गोपशोर्निषिद्धत्वात्कलो छागः । तदभावे चरुः । ' तस्यैतृभ्यइति चतुर्थी पष्ठययें तस्या इत्यर्थः । वपावदानात्प्रागुपरिप्राच्च हिरण्यशकलोपस्ताराभ्यां पञ्चावत्तत्ता संपाद्या । होमचाऽपसव्येन सव्यं जान्वाच्य पितृतीर्थेन वहचपामित्यस्य पैतृकत्वात् । पशोः कर्त्तव्यतां वदिष्यति । चरुपक्षे विश्वेभ्यो देवेभ्यः स्वाहे - त्यपूपवच्चरुहोमः । इदं विश्वेभ्योदेवेभ्यः । तत द्वितीयस्थालीपाकहोमादि । अन्यत्सर्वे प्रथमाष्टकावन् । श्रप्यमाणस्य मण्डमुद्धृत्य स्रुवेणापसव्येन वपाहोमः । इदं पितृभ्यः । ' श्वोन्ववन् सर्वासामष्टकानां श्वः उत्तरेद्युः । तदर्थमाह अन्वष्टकासु अष्टकायाः पञ्चात्क्रियमाणाः अन्त्रष्टकाः तासु । पार्श्वे च सक्थि च पार्श्वसक्थिनी ते च ते सव्ये च पार्श्वसक्थिसव्ये ताभ्यामन्वष्टकाख्या क्रिया कर्तव्येत्यर्थः कुत्रेत्यत आह परिवृते आवसध्यगृहे सर्वत आच्छादिते । कथं स्यादत आह पिण्डपितृयज्ञवन् । पदार्थक्रमश्चायम् । अपराह्ने परिवृतस्थस्यान्नेः वैश्वदेवानन्तरं परिस्तरणं ततोऽपसव्येन नीवीबन्धनम् । होमवर्जमपसव्येन दक्षिणाभिमुखेन । पात्रासादने स्रुग्वा ? | असिना पार्श्वसक्शो: मांसानिच्छि त्वा आसादयेत् । सुरादिपञ्चकम् । चरुपक्षे तण्डुलाः । चरुग्रहणवत् मांसग्रहणश्रपणादि । कण्डननिष्पवनादि न भवति । तेनोलूखलादेरासादनाभावो मांसपक्षे । अन्यत्सर्वे पिण्डपितृयज्ञवदित्यनेनादिष्टपिण्डपितृयज्ञवदतिदिष्टम् । विशेषमाह ' स्त्रीभ्यश्च ' मातृपितामहप्रपितामहीभ्यः पित्रादिभ्यः पिण्डदानानन्तरं पिण्डदानसमुच्चयार्थश्चकारः । ' उप 'नच ' न केवलं खीभ्यः पिण्डदानमपितु कर्षुषु सुरया तर्पणेन चोपसेचनम् । काण्डहरीतकीगुडरसेन च सुरा । तर्पणं सक्तुभिः । त्री पिण्डेभ्यः पश्चात्कर्षवः दैव्यें प्रादेशमिताः चतुर्भिरङ्गुलैर्विस्तृता: । अङ्गुलखाताः । तेषु सुरायाः सक्तूनां चासेकः । प्राक्सूत्रसंप्रदानसमुच्चयार्थं आद्यचकारः । सुरासक्त्रोः समुच्चयार्थी द्वितीयञ्चकारः । प्रयोगस्तु-गोत्रे मातः अमुकिदेवि सुरां पिवस्व । मातृद्वयं चेत् पिवेयां, वह्नयश्चेत्पिवध्वमिति दक्षिणसंस्थं प्रत्यवटप्रक्षेपे प्रयोगः । एवं तृप्यस्वतृप्येयांतृप्यध्वमिति प्रत्यवढं मातृपितामहप्रपितामहीभ्यः सक्तून् क्षिपेत् । ' अञ्ज जश्च ' स्त्रीपिण्डेषु प्रतिपिण्डमञ्जनं सौवीराचनमभावे लौकि कम् । अनुलेपनं चन्दनादि । स्रजः पितृप्रियपुष्पमालाः । चकारः दद्यादितिकियासमुच्चयार्थः । प्रयोगस्तु -- गोत्रे मात: अमुकिदेविदे अञ्चस्व । अश्वेथाम् । अवध्वं । एवं पितामहप्रपितामहीभ्याम् | अनुलिम्पत्र | अनुलिम्पेथाम् अनुलिम्पध्वम् । स्रजोऽपिनह्यस्व । स्रजोपिनह्येथाम् । स्रजोपिनह्यध्वम् । अत्रपितरइत्यादि उल्मुकप्रक्षेपान्तं पिण्डपितृयज्ञवत् । ' आचा' 'इच्छन् ' पिण्डदानं
1
3