________________
३३२
पारस्करगृह्यसूत्रम् ।
[ तृतीया
1
श्रोणिमिति सर्वावदानपक्षे । दक्षिणबाहुं गुदतृतीयाणिष्टं सव्यश्रोणिमिति व्यङ्गानि स्विष्टकृद्रव्याणि । यदा त्रीणि तदा हृदयं जिह्वां क्रोडमिति त्रीणि । पश्चावदानपक्षे हृदयं जिह्वां क्रोड सव्यबाहुं पार्श्वे इति पञ्चावद्यति खण्डयति । तस्मिन्पक्षे शेपान् स्विष्टकृतेऽवद्यति । ततोऽवदानानि प्रक्षाल्य शूलेन हृदयं प्रत उपामनावधिश्रित्य अवदानानि प्रक्षिपति स्वल्पमुदकं च । ततखिः प्रच्युते हृदयमुपरि कृत्वा पृषदाज्येन हृदयमभिवार्येतराण्यवदानानि त्र्यङ्गवर्जितानि आज्येनाभिघारयति । अथोषामुद्वास्यावदानान्युधृत्य कस्मिंश्चित्पात्रे हृदयादिक्रमेण उदक्संस्थानि निधाय स्रुवेणाज्यमादाय हृदयादीनां त्र्यङ्गवर्जितानां क्रमेण प्राणदानं कृत्वा शाखाग्न्योरन्तरेणाहृत्य प्रक्षशाखासु हृदयादिक्रमेणोदकूसंस्थान्यासादयति । ततस्त्र्यङ्गवर्जितान्यालभते । अथ प्रधान होमार्थ स्स्रुवेणाज्यमुपस्तीर्य हिरण्यशकलमवधाय हृदयादिभ्यः क्रमेण द्विद्विरवदाय स्रुवे क्षित्वा स्थालीपाकाच सकृदवदायोपरि क्षित्वा तदुपरि हिरण्यगकलं दत्त्वा सकृदभिधार्य विश्वेभ्यो देवेभ्यः स्वाहेति जुहुयात् । इदं विश्वेभ्यो देवेभ्य इति त्यक्त्वा स्विष्टकृदर्थ स्रुवमुपस्तीर्य हिरण्यशकलं दत्त्वा त्र्यतेभ्यो द्विद्विरवदाय स्रुवे कृत्वा चरुद्वयाब सकृत्सकृदवदाय हिरण्यशकलमवधाय द्विद्विरभिघार्य अग्नये स्विष्टकृते स्वाहेति जुहुयात् इदमन्नये स्विष्टकृते इति त्यागः । असर्वावदानपक्षे प्रधानावदानशेषाविष्टकृद्धोम, इति विशेषः । ततो महाव्याहृत्यादिप्राजापत्यान्ता नवाज्याहुती हुत्वा ब्रह्मान्वारव्यो हुत्वा संस्रवं प्राश्य ब्रह्मणे पश्वङ्गं दक्षिणां दद्यात् । ततः स्मृत्यन्तरोक्तं पञ्चविंशतित्राह्मणभोजनं च दद्यात् । अस्यैव पशोः सव्यपार्श्वसक्थिभ्यामपरदिनेऽन्वष्टकाकर्म पूर्ववत् । माध्या ऊर्ध्वं कृष्णाष्टम्यां तृतीयाष्टका प्राजापत्या । सा यथा प्रथमाष्टका । तत्र अपूपस्थाने कालशाकचरुं तदग्निसिद्धमेवामा - दनकाले आसाद्य प्रोक्षणकाले प्रोक्षयेत् । ततोऽपूपयागस्थाने प्रजापतये स्वाहेति कालशाकं जुहुयात् । शेषं समानम् । कालशाकालाभे वास्तुकम् । अन्येद्युः पूर्ववदन्वष्टकाकर्मेति । प्रोष्ठपद्या ऊर्ध्व कृष्णाष्टम्यां चतुर्थी पित्र्या शाकाष्टका । सा च प्रथमाष्टकावत् । एतावान् विशेषः । चरुस्थालीद्वयं तण्डुलानन्तरं कालशाकमासादयेत् । कालशाकचरुसंबद्धमासादनादि होमान्तं कर्म प्राचीनावीती दक्षिणामुखः कुर्यात् । अन्यथज्ञोपवीती पूर्वाभिमुखः । कालशाकचरुसंबद्धं कर्म कृत्वोदकमुपस्पृशेत् । अपूपहोमस्थाने पितृभ्यः स्वाहेति शाकचरोरेकामाहुतिं जुहुयात् । प्रातरन्वष्टका कर्म पूर्ववदिति ॥ ३ ॥
(विश्व० ) - (ऊर्ध्वष्टकाः भवन्तीतिशेषः । विद्यमानत्वेपि चतुर्थ्यात्रिषु कृष्णपक्षेषु क्रमेणानुष्ठीयमानत्वात्तिस्र इत्युक्तम् । यद्वा स्वतन्त्रेच्छस्य नियोगपर्यनुयोगानर्हत्वात्तिस्र इत्युक्तिः । अष्टति कर्मनामधेयं तच पञ्चमहायज्ञपक्षादिवदावृत्तिकर्म संस्कारकर्मत्वात् । नचाभ्यासाश्रवणान्न तथेति वाच्यं शाङ्खायनसूत्रे नत्वेवेत्येवकारतुशब्दाभ्यामष्टकाप्रतियोगिका वृत्तेर्नियमितत्वात् । नच शाखान्तरीयत्वात्तदकिंचित्करमिति वाच्यम् । उपवीतपरिधानमन्त्रादेरपि शाखान्तरीयत्वादकिंचित्करतापत्तेरित्यलम् । अत्रापि मातृपूजाभ्युदयिके प्रथमप्रयोगे भवतः । केचिन्नेच्छन्ति । आरंभश्चोर्ध्वमात्रहाण्या इति सूत्रणान्मार्गशिरकृष्णाष्टम्यामेव । तेन तत्र शरीरसमयाद्यशुद्धिप्रयुक्ताऽनारम्भेऽकान्तरकाले तच्छुद्धावपि तदनारम्भ इत्यवसीयते । समयमुक्त्वा तासां द्रव्यदेवते आह 'ऐन्द्री "संख्यं ' पित्र्या चतुर्थी तां वक्ष्यति । अपूपो मण्डकः, माँस मध्यमा गवेति वक्ष्यति, शाकं कालशाकम् । यथासंख्यं पित्र्यां विहाय यथाक्रमं द्रव्यदेवतासंबन्धः । देवतानिरूपणं चतुर्थ्यां कृतम् । द्रव्यसमयौ वक्ष्येते । ' प्रथमा 'होति' आग्रहायण्यनन्तरमासदलपक्षस्याष्टम्यां प्रथमाष्टका भक्तीत्यर्थः । कथमत आह स्थालीपाकः श्रपयित्वाज्यभागाविवाज्याहुतीर्जुहोति । तत्र विशेषः । पात्रासादने कर्मरिका चरुस्थाली पिष्टं तण्डुलाः, अपूपग्रहणे इन्द्रायजुष्टं [ पिष्टमया पूपः । ] चरु
•