________________
कण्डिका]
तृतीयकाण्डम् । लक्षशाखा पलाशशाखा त्रिहस्तप्रमाणा, व्याममात्री कौशी त्रिगुणरंशना, उपाकरणतृणम् , एक दर्भतरुणं, द्विगुणरशना कौशी व्याममात्री, पशुश्छागः, पान्नेजनी उदकपूर्णा स्थाली, असिः शस्त्रम् , हिरण्यशकलानि षद्, पृषदाज्याथै दधि चेति । ततः पवित्रकरणादिप्रोक्षणान्ते विशेषः । विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीति पाशुकचरुतण्डुलानां प्रोक्षणम् । आज्यनिर्वापानन्तरमष्टकाचरुपाने तण्डुलान्प्रक्षिप्य पाशुकचरुपाने तण्डुलप्रक्षेपं कुर्यात् । ततो ब्रह्माज्यं स्वयमष्टकाचरुं अन्यः पत्नी वा पाशुकचरं युगपदग्नौ उदक्संस्थमधिश्रयन्ति । ततः पर्यनिकरणादि प्रोक्षण्युत्पवनान्तं यजमान एव कुर्यात् । अथाग्नेः पश्चाद्दक्षिणत आरभ्य उदक्संस्थाः प्रागप्राः कुशास्तरणोपरि ग्लमशाखा आस्तीर्याग्नेः प्रादक्षिण्येन पुरस्ताद्गत्वा पलाशशाखामग्निकुण्डलप्नामुदङ्मुख उपविष्टः- वितस्तिमात्रं निखाय त्रिगुणरशनामादाय प्रादक्षिण्येन पलाशशाखां त्रिवेष्टयति । अयोपाकरणतृणेनविश्वेभ्यो देवेभ्य उपाकरोमीति पशुमुपाकरोति शरीरे स्पृशति । ततो द्विगुणरशनया शृङ्गमध्ये तूष्णीं दक्षिणकर्णाधस्तानाति । ततो विश्वेभ्यो देवेभ्यो नियुनज्मीति पलाशशाखायां पशुं नियुनक्ति । ततः प्रोक्षणीरादाय ब्रह्मन्हविः प्रोक्षिष्यामीति ब्रह्माणमामन्त्र्य ॐ प्रोक्षेति ब्रह्मणाऽनुनातो विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामीति पशुं प्रोक्ष्य प्रोक्षणीजलं पशोरास्य कृत्वा शेषं पशोरवस्तादुपोक्षति सिञ्चति । अथ यथागतमागत्य स्वासने उपविश्योपयमनकुशानादाय समिधोऽभ्याधाय पर्युक्ष्य ब्रह्मणाऽन्वारब्ध आधारौ हुत्वा आज्यलिप्तेन सुवेण ललाटे अंसयोः ओण्योश्च पशुं समनक्ति अञ्जनं करोति । ततोऽसिमादाय सुवेणैव संयोज्यासिसुवामाभ्यां पशोललाटमुपस्पृशति । ततोमेरुल्मुकमादायोत्थाय प्रदक्षिणं परिगच्छन् पशुमाज्यं शाखामग्निं त्रिःपर्यग्निकृत्वोल्मुकमग्नौ प्रास्य तावत्प्रतिपरीत्याप्रादक्षिण्येनागत्य आस्तृततृणद्वयमादाय पशुं शिरस उन्मुच्य कण्ठे बद्धवा पलाशशाखात उन्मुच्य रशनया वामकरण धृत्वा दक्षिणेन वपाश्रपणीभ्यामन्वारब्धमुदङ्नयति । तत्रैकं तृणं भूमौ धृत्वा तस्मिन्प्रत्यकशिरसं प्राशिरसं वा उदक्पादं पशुं निपात्य स्वासने उपविशति यजमानः । अपरः कश्चिन्मुखं संगृह्य संज्ञपयति । संज्ञप्यमाने यजमानः पूर्णाहुतिवदाज्यं संस्कृत्य स्वाहा देवेभ्य इत्येकामाहुति हुत्वा इदं देवेभ्य इति त्यक्षा संज्ञने देवेभ्यः स्वाहेति तेनैवाज्येन द्वितीयामाहुति हुत्वा इदं देवेभ्य इति त्यक्त्वा अपराः पञ्चाहुतीस्तूष्णीं जुहोति इदं प्रजापतये इति त्यागः पञ्चसु । तत उत्थाय पशुं मोचयित्वा वपाश्रपणीभ्यां नियोजी त्यजति । ततः पानेजनीमादाय पशोः प्राणान्स्वयमेव शुन्धति । तद्यथा । पानेजनीजलमादाय मुखं दक्षिणोत्तरे नासिके दक्षिणोत्तरे चक्षुषी दक्षिणोत्तरौ कौँ नामि मेळू पायुमेकीकृत्य पादांश्च क्रमेण शुन्धति । शेषं पशोः पश्चानिषिञ्चति । ततः पशुमुत्तानं कृत्वा नाभ्यग्रे उदगग्रं तृणं निधायासिधारया तृणमभिनिधाय छिनत्ति । अथ द्विधाभूतस्य तृणस्य मूलमादाय उभयतो लोहितेनाङ्क्त्वा निरस्य वपामुत्सिति । ततो वपाश्रपण्यावादाय प्रोणीति ततश्छिनत्ति वपां तां च प्रक्षाल्याग्नेरुत्तरतः स्थित्वा प्रतप्य शाखाग्न्योरन्तरेणाहृत्याग्नेदेक्षिणतः स्थित्वा वपां अपयति । अप्यमाणां च सुवेणाज्यं गृहीत्वाऽभिधार्य प्रत्याहृत्य ब्रह्माणं प्रदक्षिणीकृत्य स्वासने उपविश्य सुवेणाज्यं गृहीत्वा वपायां प्राणदानं कृत्वा प्लक्षशाखायामासाद्यालभते । ततो ब्रह्मान्वारन्ध आज्यभागौ हुत्वा त्रिशस्वसार इति दशाहुतीरनन्वारन्धो हुत्वा अष्टकाचरुणा शान्तापृथिवीत्यादिचतुभिर्मन्त्रैश्चतस्र आहुती त्वा वपाहोमाय वामहस्तस्थे सुवे आज्यमुपस्तीर्य हिरण्यशकलमवधाय वपां द्विधाऽवदाय गृहीत्वा पुनर्हिरण्यशकलमवधाय द्विरमिघार्य वहवपां जातवेदः पितृभ्य इति प्राचीनावीतिनो दक्षिणामुखस्य वपाहोमः । इदं पितृभ्य इति त्यागः इइं जातवेदस इति वा त्यक्त्वा यज्ञोपवीती भूत्वोदकं स्पृष्टा वपापण्यौ विपर्यस्ते अग्नौ प्रास्य पशुं विशास्ति । तद्यथा । हृदयं जिह्वां कोडं सन्यबाहुं पार्चे यकृत् वृक्को गुदमध्यं दक्षिण