________________
३३०
पारस्करगृह्यसूत्रम् ।
[. तृतीया
इन्द्राय स्वाहा इदमिन्द्राय० । स्थालीपाकादपूपाश्च स्विष्टकृत् । ततो महाव्याहृत्यादिप्राजापत्यान्तं होमं विधाय प्राशनादि समापयेत् । श्वोऽन्वष्टकाकर्मावसथ्याग्नावेव । तत्र नित्यवैश्वदेवानन्तरमपराहे प्राचीनावीती नीवीबन्धनं कृत्वा दक्षिणामुखः परिवृतेऽग्निसमीपे अग्नेरुत्तरत उपविश्य आनेयादिदक्षिणान्तमप्रदक्षिणमग्निं दक्षिणायैः कुशैः परिस्तीर्य अग्नेः पश्चिमतो दक्षिणसंस्थानि पात्राण्येकैकश आसादयति । तद्यथा । स्रुचं चरुस्थालीं वा स्रुक्पक्षे तु स्रुगनन्तरं चरुस्थाली मुदकमाज्यं मेक्षणं स्पयमुदपात्रं सकृदाच्छिन्नानि क्रीतयोर्लव्धयोर्वा छागस्य पार्श्वसनोर्मासं सुरां सतून जनमनुले - पनं स्रजः सूत्राणि च । ततः पार्श्वसक्योर्मंसं ऋक्ष्णमणुराश्छित्वा प्रक्षिप्तासादितोदकायां चरुस्थाल्यां प्रक्षिप्याग्नावधिश्रित्याप्रदक्षिणं मेक्षणेन चालयित्वा शृतमांसमासादितेन घृतेनाभिघार्य दक्षिणत उद्वास्य पूर्वेणाग्निमानीयोत्तरतः स्थापयेत् । ततः सव्यं जान्वाच्य मेक्षणेन मांसमादाय अग्नये कव्यवाहनाय स्वाहेत्येकामाहुतिं हुत्वा इदमन्नये, कव्यवाहनायेति त्यागं विधाय पुनर्मेक्षणेन, मांसमादाय सोमाय पितृमते स्वाहेति द्वितीयामाहुतिं हुत्वा इदं सोमाय पितृमत इति त्यागं विधाय मेक्षणमग्नौ प्रास्याग्नेर्दक्षिणतः पञ्चाद्वा दक्षिणामुख उपविश्य सव्यं जान्वाच्य भूमिमुपलिप्य तन्त्र स्फ्येन अपहता असुरारक्षायंसि वेदिषद इति मन्त्रेण लेखां दक्षिणसंस्था मुल्लिख्य तथैव द्वितीयाम् । उदकमुपस्पृश्य ये रूपाणीत्युल्मुकं प्रथमलेखामे निधाय तथैव द्वितीयलेखाये। उदकमुपस्पृश्य उद्पात्रमादाय प्रथम लेखायां पितृतीर्थेनामुकसगोत्रास्मत्पितरमुकशर्मन्नवनेनिक्ष्वेत्येवं पितामहप्रपितामहयोरवनेजनं दत्त्वा द्वितीय लेखायामेवमेवामुक सगोत्रे ऽस्मन्मातरमुकिदेवि अवनेनिक्ष्वेत्येवं पितामप्रपितामह्योरवनेजनं दत्त्वा सकृदुपमूललूनानि दक्षिणायाणि बहींषि लेखयोरास्तीर्य तत्राव जनकमेणा मुकसगोत्रास्मत्पितरमुकशर्मन्नेतत्ते मांसं स्वधा नम इति मांसपिण्डं दत्त्वा पितामहप्रपितामहयोश्चैवं प्रदायापरलेखायाममुकसगोत्रे ऽस्मन्मातरमुकि देवि एतत्ते मांसं स्वधा नम इति मांसपिण्डं दत्त्वा पितामहप्रपितामह्योरप्येवं पिण्डद्वयं प्रदाय प्रतिपिण्डदानम् इदं पित्रे इदं पितामहाय इदं प्रपितामहाय दई मात्रे इदं पिताम इदं प्रपितामह इति त्यागान् विधाय इच्छया स्त्रीपिण्डसमीपेऽवनेजनसकृदाच्छिन्नास्तरणपूर्वकमनपत्येभ्य आचार्यायान्तेवासिभ्यश्च यथाक्रमं मांसपिण्डान् दद्यात् । चकारादन्येभ्योऽपि सपिण्डादिभ्यो दद्यात् । स्त्रीपिण्डसंनिधौ अवदत्रयं खात्वा तेषु अमुकसगोत्र मुकि देवि सुरां पित्रस्वेत्येकत्रावटे सुरां प्रसिच्य तथैव पितामहप्रपितामह्योरितरयोरवयो सिच्य सक्तूनादायामुकसगोत्रेऽमुकि देवि तृप्यस्वेति मातृप्रभृतिभ्यः सक्तून्प्रत्यचटं प्रक्षिप्य ततस्तथैवाजस्वेति मातृप्रभृतिभ्योऽञ्जनं दत्त्वा अनुलिम्पस्वेत्यनुलेपनं च दत्त्वा त्रजोऽपि नहास्वेति
जो दवा अत्र पितर इत्यर्द्धर्च जपित्वा पराडावृत्य वायुं धारयन्नातमनादुदङ्मुख आसिखा तेनैवावृत्यामीमदन्तेत्यर्द्धर्षं जपित्वा पूर्ववदवनेज्य नीवी विस्रस्य नमो व इति प्रतिमन्त्रमञ्जलिं करोति । गृहान्न इत्याशिषं प्रार्थ्य एतद् इति प्रतिपिण्डं सूत्राणि दत्त्वा ऊर्जमिति पिण्डेष्वपो निषिच्य पिण्डानुत्थाप्य उषायामवधायावत्राय सकदाच्छिन्नान्यग्नौ प्रास्योल्मुकं प्रक्षिप्योदकं स्पृष्ट्वाऽऽचम्य आ ष्टक्यं श्राद्धं कुर्यात् । उषा तान्नमयी मृन्मयी वा । शिल्पिभ्यः स्थपतिभ्यश्च आददीत मतीः सदा । मांसान्नाषा चयनोषा पशूषा पिण्डपितृयज्ञोषा । इति प्रथमाष्टका ॥ ॥ पौष्या ऊर्ध्व कृष्णाष्ट• म्यां द्वितीयाष्टका वैश्वदेवी । तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा आवसध्यामौ -कर्म कुर्यात् । तत्र ब्रह्मोपवेशनं प्रणीताप्रणयनं परिस्तरणं च विधाय पात्राण्यासादयेत् । पवित्रच्छेदनानि पवित्रे द्वे प्रोक्षणी पात्रमाज्यस्थाली द्वे चरुस्थाल्यौ संमार्गकुशाः उपयमनकुशाः समिधः स्रुवः आज्यं, - arana हस्तमाच्यौ वपाश्रपण्यौ शाखाविशाखे, अष्टका चरुतण्डुलाः हस्तमात्रं वारणं शूलं पशुभ्रपणार्थमुषा ताम्रमयी मृन्मयी वा पाशुकचरुतण्डुलाश्वेत्येतानि । अथोपकल्पनीयान्युपकल्पयन्ति ।