________________
कण्डका ]
तृतीयकाण्डम् |
३२९
2
समुच्चीयते । अत्र सामान्योऽपि स्त्रीशब्दः पित्रादिसंनिधानात् मान्त्रादिपरे ऽवसीयते । ' उप 'स्रजव ' न केवलं स्त्रीभ्यः पिण्डान्दद्यात् किं तु उपसेचनं च कुर्यात् । कया सुरया मद्येन । कासु कर्पूषु अवटेषु न केवलं सुरया तर्पणेन च तर्पयत्यनेनेति तर्पणसाधनं सक्त्वादि तेन । चकार उपसेचनक्रियासमुच्चयार्थः करणाधिकरणयोश्चेति ल्युडन्तोऽत्र तर्पणशब्दः । त्रैककुदं सौवीराञ्जनमिति प्रसिद्धं तदलाभे लौकिकं कज्जलम् अनुलेपनं सुगन्धिद्रव्यं चन्दनादि, स्रजः अप्रतिषिद्धसुरभिपुष्पमालाः । चकारो दद्यादिति क्रियासमुच्चयार्थः । 'आचा' 'च्छन्' यदि कामयेत तदा आचा र्याय अन्तेवासिभ्यश्च शिष्येभ्यः पिण्डान् दद्यात् । यदि ते अनपत्याः स्युः । मध्या एवमष्टकान्त्रयं सामान्यतो विशेषतञ्चानुविधाय पित्र्येत्युद्देशक्रमप्राप्तां विशेषतश्चतुर्थीमष्टकामाह मध्या मध्ये वर्षे वृष्टिकाले प्रोष्ठपद्या उर्ध्वमष्टमीत्यर्थः । तुरीया चतुर्थी शाकाष्टका शाकेन कालशाकान्येन निर्वर्त्य अष्टका शाकाष्टका । इति सूत्रार्थः ॥ ॥ अथाष्टकाकर्मपद्धतिः । तत्र मार्गशीर्ष्या उ कृष्णाष्टम्यां मातृपूजापूर्वमाभ्युदयिकश्राद्धं विधाय आवसध्यामौ कर्म कुर्यात् । केषांचिन्मते अष्टकाकर्मसु आभ्युदयिकं नास्ति । नाष्टकासु भवेच्छ्राद्धमिति वचनात् । तत्र ब्रह्मोपवेशनादिप्राशनान्ते विशेषः । तण्डुलानन्तरं पूर्वमौपासनाभिसिद्धस्यैवापूपस्यासादनं प्रोक्षणं च प्रोक्षणकाले । तत्राज्यभागान्तं कर्म कृत्वा त्रि-शत्स्वसार इत्येवमाद्या दशाहुतीर्हुत्वा स्थालीपाकेन शान्ता पृथिवीत्यादिभि - चतुर्भिर्मन्त्रैश्चतत्र आहुतीर्हुत्वा अपूपादिन्द्राय स्वाहेत्येकामाहुतिं दत्त्वा स्थालीपाकादपूपाश्च स्विष्टकृते जुहोति । तद्यथा आज्यभागानन्तरं त्रि-शत्स्वसार उपयन्ति निष्कृतः समानं केतुं प्रतिमुभ्वमानाः । ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा इदं स्वसृभ्यो० । ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा इद-रात्र्यै० । एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् | तेन दस्यून्व्यसहन्त देवा हन्तासुराणामभवच्छचीभिः स्वाहा इदमष्टकायै० । अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्या वो अन्यामतिमाप्रयुक्त स्वाहा । इदुध रात्रीभ्यो ० अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्या - मतिमाप्रयुक्त स्वाहा । इदध-रात्रीभ्यो ० । पश्चव्युष्टीरनुपञ्चदोहा गां पञ्चनाम्नी मृतवोऽनुपश्च । पञ्चदिशः पञ्चदशेन कुप्ताः समानमूर्ध्नरधिलोकमेकं स्वाहा । इदध - रात्रीभ्यो० । ऋतस्य गर्भः प्रथमा व्युषिष्य - पामेका महिमानं विभर्ति । सूर्यस्यैका चरति निष्कृतेषु धर्मस्यैका सर्वितैकां नियच्छतु स्वाहा । इद:- रात्र्यै० । या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती घुक्ष्त्रोत्तरामुत्तरार्थं समार्थं स्वाहा || इदह • रात्र्यै० || शुक्रऋषभा नभसा ज्योतिषागाद्विश्वरूपा शबलीरग्निकेतुः । समानमर्थ9 स्वपस्यमाना विभ्रती जरामजर उप आगात्स्वाहा । इदः - रात्र्यै० | ऋतूनां पत्नी प्रथमेयमागादहां नेत्री जनित्री प्रजानाम् | एका सती बहुधोषो व्यौच्छत्सा जीर्णा त्वं जरयसि सर्वमन्यत्स्वाहा | इद - रात्र्यै० ॥ १० ॥ अथ स्थालीपाकेनाहुतीश्वतस्रः शान्ता पृथिवीत्यादिभिश्चतुर्भिर्मन्त्रैर्जुहोति प्रतिमन्त्रम् । तद्यथा । शान्ता पृथिवी शिवमन्तरिक्ष शं नो द्यौरभयं कृणोतु । शं नो दिशः प्रदिश आदिशो नोऽहोरात्रे कृणुतं दीर्घमायुर्व्यनवै स्वाहा । इदं पृथिव्यै अन्तरिक्षाय दिवे दिग्भ्यः प्रदिग्भ्य भादिग्भ्योऽहोरात्राभ्यां च० । आपो मरीची: परिपान्तु सर्वतो धाता समुद्रो अपहन्तु पापम् | 'भूतंभविष्यदकृन्तद्विश्वमस्तु मे ब्रह्माभिगुप्तः सुरक्षितः स्यार्थस्वाहा । इदमयो मरीचिभ्यो धात्रे समु द्राय ब्रह्मणे च० । विश्वे आदित्या वसवश्च देवा रुद्रा गोप्तारो मरुतश्च सन्तु । ऊर्जे प्रजाममृतं दीर्घमायुः प्रजापतिर्मय परमेष्ठी दधातु नः स्वाहा । इदं विश्वेभ्य आदित्येभ्यो वसुभ्यो देवेभ्यो रुद्रेभ्यो मरुद्भ्यः प्रजापतये परमेष्टिने च० । अप्रकायै स्वाहा इदमकायै । अथ अपूपादेकाहुतिः ।
I
४२