________________
३२८ पारस्करगृह्यसूत्रम्।
[तृतीया हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति । एवमष्टकाकर्मसु द्रव्यदेवते अभिधायेदानी. मुद्देशक्रमेण तदितिकर्तव्यतामाह । 'प्रथ "होति' त्रिशस्वसार इत्यादि । प्रथमा आद्या अष्टका अष्टकाख्यं कर्म भवतीति शेपः । कदा पक्षाष्टम्याम् । अत्र सौरादिभेदेन मासानामनेकत्वादटम्योऽप्यनका इति किमाससंवन्धिन्यामष्टम्यामष्टकानामधेयं कर्मति संदेहापत्तौ पक्षाष्टम्यामित्याह । पक्षेऽपरपक्षे पौर्णमास्या अर्ध्वमिति वचनसामर्थ्यात् पक्षाष्टमी कृष्णाष्टमी न पुनः सौरसावननाभ
माससंबन्धिनी तेपां शुक्लकृष्णपक्षत्वाभावात् । तस्यां पक्षाष्टम्याम् । कथं, स्थालीपाकं चहें अपयित्वा उक्तविधिना संसाध्य आज्यभागी आहुतिविशेषौ हुवा दशान्याहुतीः त्रिशस्वसार इत्यादिभिर्दशमिमन्त्रैः प्रतिमन्त्रं जुहोति । 'स्थाली' 'शान्ता पृथिवीत्यादि । स्थालीपाकस्य चरोर्जुहोति शान्ता पृथिवीत्यादिभिश्चतुभिर्मन्त्रैश्चतस्त्र आहुतीर्जुहोति प्रतिमन्त्रम् । अत्र ऐन्द्री प्रथमाऽष्टकेति प्राधान्यमिन्द्रस्योक्तम् । अपूपेत्यनेन हविपः । यागावसरश्च नोक्तः सूत्रकृता, अतः संदेहः कुत्र क्रियतामिति । किंतावत्याप्तं साधनत्वात्प्रधानत्वादाज्यभागानन्तरं क्रियतामिति । न। तत्र आध्यभागाविष्ठाऽऽज्याहुतीर्जुहोतीति सूत्रकृताऽऽज्याहुतिविधानात् । तर्हि तदन्तेऽस्तु । न । तत्रापि स्थालीपाकस्य जुहोतीत्याज्यहोमानन्तरं स्थालीपाकहोमविधानात् । तस्मादनन्तरमेव युज्यते । ततः अपूपेन इन्द्राय स्वाहेत्येकामाहुति जुहुयात् । एवमुत्तरत्रापि । एवं प्रथमाप्टकेतिकर्तव्यतामनुविधायाधुना इयमेवोत्तरास्वप्यष्टकास्त्रितिकर्तव्यता इसभिप्रेत्य एतासां विशेषमात्रमनुविधत्ते मध्यमागवेत्यादिभिः सूत्रैः । मध्यमा तिमृणां द्वितीयेत्यर्थः । सा च गवा गोपशुना कर्तव्या इति सूत्रशेषः । अत्राचार्येण यद्यपि गोपशुरुक्तस्तथापि ' अस्वग्ये लोकविद्विष्टं धर्ममप्याचरेन तु' इति स्मरणात् , तथा 'देवरेण सुतोत्पत्तिर्वानप्रस्थाश्रमग्रहः । दत्ताक्षतायाः कन्यायाः पुनर्दानं परस्य च । समुद्रयानस्वीकारः कमण्डलुविधारणम् । महाप्रस्थानगमनं गोपशुश्च सुराग्रहः ॥ अग्निहोत्रहवण्याश्च लेहो लीडापरिग्रहः । असवासु कन्यासु विवाहश्च द्विजातिपु ॥ वृत्तस्त्राध्यायसापेक्षमघसंकोचनं तथा । अस्थिसञ्चयनादूर्ध्वमनस्पर्शनमेव च ॥ प्रायश्चित्ताभिधानं च विप्राणां मरणान्तिकम् ॥ संसर्गदोषः पापपु मधुपर्के पशोर्वधः । दत्तौरसेतरेपां तु पुत्रत्वेन परिग्रहः । शामित्रं चैव विप्राणां सोमविक्रयणं तथा । दीर्घकालं ब्रह्मचर्य नरमेधाश्वमेधको । कलौ युगे विमान्धर्मान् वानाहुर्मनीषिणः ।' इति स्मरणात् । गोपशोरस्वय॑त्वाल्लोकविद्विष्टत्वात्कलौ विशेषतो वर्जनीयत्वाचन गवालम्भः कर्तव्यः । कि तु अनिपिद्धपश्वन्तरेणावश्यकर्तव्याप्टकादिकर्म निर्वर्तनीयम् । तस्यै "पितृभ्य इति । तस्यै इति षष्ठीस्थाने चतुर्थी । तस्याः गोर्वपां वहवपामित्यनेन मन्त्रेण जुहोति पुनर्विश्वेभ्यो देवेभ्यः स्वाहेत्यवदानानि जुहोति । शेपं पशुकल्पं पशुश्चेदाप्लाव्येत्यादिना उपरिष्टावक्ष्यति । रूपं कालोऽनुनिर्वापः अपणं देवता तथा । आदौ ये विधृताः पक्षास्त इमे सर्वदा स्मृताः । इत्येतस्य संहितासु अदर्शनात् । समूलत्वे त्वनुनिळपादिसमभिन्याहारेण औतमात्रविषयत्वात् । वस्तुतस्तु नान्यस्य तन्ने प्रततेऽन्यस्य तन्त्रं प्रतीयत इति प्रायिकम् , सान्तपनीयाधिकरणेऽन्यतन्त्रमध्येऽग्निहोब्रदर्शनात् । श्वोऽन्व"वत्' श्वः अष्टम्यामुत्तरेयुः अन्वष्टकासु अष्टका अनु पश्चाद्भवन्तीत्यन्वष्टकाः तासु सर्वासां चतसृणामष्टकानां कर्म भवतीति शेषः । केन द्रव्येणेत्यत आह । पार्श्वसक्थिसव्याभ्याम् । पार्श्व च सक्थि च पार्श्वसक्थिनी ते च सव्ये च पार्श्वसक्थिसव्ये ताभ्यां पार्श्वसक्थिसन्याभ्याम् । अत्र तुल्याधिकरणविशेषणीभूतस्य सन्यशब्दस्योत्तरपदवं छान्दसम् । परिवृते सर्वतः प्रच्छादिते आवसथ्याग्निसदने । इतिकर्तव्यतापेक्षायामाह पिण्डपितृयज्ञवत् । अपराहे पिण्डपितृयज्ञ इत्याद्युक्तपिण्डपितृयज्ञविधिना । 'स्त्रीभ्यश्च पिण्डपितृयज्ञवत् इत्यनेन पितृपितामहप्रपितामहानामत्र पिण्डदान प्राप्तं ततोऽधिकमुच्यते स्त्रीभ्यः मातृपितामहीपतितामहीभ्यः पिण्डान्दद्यादिति चकारण