________________
कण्डिका] तृतीयकाण्डम् ।
३२७ व्यदागामि तत् विश्वं सर्व पापमकृन्तत् छिनत्त्विति यावत् । कृती छेदने । यद्वा भूतं दक्षादिपु व्यतीतं भविष्यञ्च तेष्वेव वर्तमानमभीष्टं धनादिनिकरं विश्वं सर्वमकृन्तत् अनवच्छिन्नं करोतु । तत एतैरनुगृहीतस्य मे ब्रह्म वेदः अभिगुप्तः शूद्रश्रवणादिनाऽनुपहतोऽस्तु । ततोऽभिगुप्तेन वेदेनाहं सुरक्षितः । धर्मानुष्ठाने निष्पत्यूहः स्यां भवेयम् । सर्वैर्वा सुरक्षितः २ ॥ विश्वेदेवास्त्रयोदश । आदित्या द्वादश । वसवोऽष्टौ । रुद्रा एकादश । मरुतो देवविशेषा एकोनपञ्चाशत् । एते नोऽस्माकं गोतारो रक्षितारः सन्तु भवन्तु । परमेष्ठी प्रजापतिश्च मयि ऊर्जमन्नं प्राणवलं वा प्रजां पुत्रादिरूपाममृतममरणधर्मत्वं परमानन्दं वा । तथा दीर्घमायुश्चिरं जीवितं च धातु सुस्थितं करोतु ३ ॥ अष्टकायै स्वाहेति चतुर्थीमाहुति हुत्वाऽपूपेनेन्द्राय स्वाहेत्येकामाहुति हुत्योभयोः स्विष्टकृत् । इति प्रथमाष्टका ॥*॥ मध्यमाष्टका पौपस्य कृष्णाष्टम्याम् । सा च गवा गोपशुना भवति । तस्याश्च कल्पमुपरिष्टाद्वक्ष्यति । तस्यै वपां नाभिस्थचर्मविशेषं जुहोति वहवपामितिमन्त्रेण । तस्यार्थः । तत्रादित्यस्तिष्टुप् जातवेदा वपाहोमे० । वह प्रापय शेषं स्पष्टम् । पुनरवदानहोमो विश्वेभ्यो देवेभ्यः स्वाहेत्येकाहुतिकः । वैश्वदेवीति संशब्दनात् । श्वः सर्वासामष्टकानां श्वस्तनेऽहनि अन्वष्टकासु पार्श्वसक्थिसन्ययोमौसमादाय परिवृते सर्वत आच्छादिते आवसथ्यागारे पिण्डपितृयज्ञवल्कर्म भवति । इयाँस्तु विशेषः स्त्रीभ्यश्च स्त्रीभ्यश्वापि पिण्डान्दाति । कर्तेषु स्त्रीपिण्डसमीपखातगर्तेषु सुरया विहितमद्येन तर्पणेन च तर्पणहेतुभिः सक्तुभिरुपसेचनं स्त्रीपिण्डेषु । अञ्जनानुलेपनस्रजश्च ददाति । आचार्याय तथाऽन्तेवासिभ्यः शिष्येभ्योऽनपत्येभ्य इच्छया ददाति । मध्यावर्षे च तुरीया शाकाष्टका भवतीति शेषः ॥ ॥३॥ *
(हरिहरः)-ऊ.."Sष्टकाः । ऊर्ध्वमुपरि आग्रहायण्याः मार्गशीर्ष्याः पूर्णिमायाः तिस्त्रः अष्टकाः त्रीणि अष्टकाख्यानि कर्माणि भवन्ति । तानि च सकृत् संस्कारकर्मत्वात् । कुतः संस्कारकर्मतेतिचेत् सुमन्तुगौतमादिभिः 'अष्टकाः पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति पाकयज्ञसंस्था: ' इत्यादिना अष्टकादीनां संस्कारत्वेन स्मरणात् । ननु संस्कारकर्मणामपि पञ्चमहायज्ञपार्वणस्थालीपाकपार्वणश्राद्धानां कुतोऽसकृरकरणम् । अभ्यासश्रवणान् । तथाहि अहरहः स्वाहा कुर्यादाकाष्ठादित्यादिना पञ्चमहायज्ञादीनां मासि मासि वोशनमिति श्राद्धस्य पक्षादिष्विति बहुवचनात् स्थालीपाकस्य । न तथाऽष्टकानामभ्यासः श्रूयते येन ताः पुनः पुनरनुष्टीयेरन् । एवंच सति चत्वारिशसंस्कारकर्मणां मध्ये येषामभ्यासः श्रूयते तान्यसकृद्भवन्ति इतराणि तु सकृदिति निर्णयः । ' ऐन्द्री "संख्यम् । एवमष्टकाकर्माणि कर्तव्यत्वेनाभिधाय तत्र च द्रव्यदेवतापेक्षायां द्रव्याणि देवताश्चाभिधत्ते । तत्र प्रथमा ऐन्द्री इन्द्रो देवता अस्या इति .ऐन्द्री इन्द्रदैवत्येत्यर्थः । द्वितीया वैश्वदेवी विश्वेदेवा देवता अस्या इति वैश्वदेवी विश्वेदेवदेवत्येत्यर्थः । तृतीया प्राजापत्या प्रजापतिर्देवता अस्या इति प्राजापत्या प्रजापतिदैवत्येति यावत् । चतुर्थी पित्र्या पितरो देवता अस्या इति पित्र्या पितृदेवत्येत्यर्थः । अपूपश्च मांसं च शाकश्च अपूपमांसशाकास्तैः अपूपमांसशाकैः यथासंख्यं यस्याः या यथासंख्या तामनतिक्रम्य यथासंख्यं यजेतेत्यध्याहारः । एतदुक्तं भवति प्रथमायामपूपेनेन्द्रं यजेत द्वितीयायां मध्यमागवेति वक्ष्यमाणत्वात् गोमांसेन विश्वान् देवान् तृतीयायां शाकेन प्रजापतिमिति । अन तिस्र उपक्रम्य पित्र्येत्यनेन चतुर्थ्या अभिधानमयुक्तमिति चेत् न। उपक्रान्तानां तिसणां देवताभिधानावसरे चतुर्थ्या अपि देवताया आचार्यस्य बुद्धिस्थत्वात् तद्भिधानं न दोषः । अत्राष्टकाशब्दः कर्मवचनोऽपि कालोपलक्षकः । यथा वानी पौर्णमासी वृधन्वती अमावास्येत्यत्र कर्माभिधायकौ पौर्णमास्यमावास्याशब्दो कालस्याप्युपलक्षकौ । अन्यथा आग्रहायण्या ऊर्व तिस्रोऽष्टका इत्यनेन प्रतिपद्येवाष्टकाकर्मप्राप्तिः स्यात् । तस्मादष्टकाशब्देन अष्टम्युपलक्ष्यते । तथाच श्रुतिः । द्वादशपौर्णमास्यो द्वादशाष्टका द्वादशामावास्या इति । आश्वलायनस्मृतिश्च ।