________________
३२६ पारस्करगृह्यसूत्रम्।
[तृतीया स्कष वा आष्ट अश्नुताम् । गाधं चामिलापजातमर्थम् अविदत् विन्दतु । हिशब्द एवार्थे । भूयासमित्यायुक्तार्थम् ५॥ याः पञ्च रात्रीः व्युष्टीः उपसोऽनुगताः तत्स्वरूपमाह । पञ्चदोहाः यजमानस्याधिकारादिरूपा दोहा दोह्या यासां ताः । तथा गां संवत्सरामिकाम् । पश्चनानी संवत्सरपरिवत्सरेदावत्सरेद्वत्सरवत्सराख्याम् । अथवा नन्दा भद्रा च सुरभी सुशीला सुमनास्तथेति शिवधर्मे प्रतिपादितनाम्नीम् । यस्याः पञ्च ऋत्तवोऽनुगता वत्साः । किंच । दिशः पूर्वाद्या ऊर्ध्वान्ताः पञ्चदशेन स्तोमेन क्लुप्ताः समर्थीकृताः । समानमूनीः समानस्तुल्यो मूर्द्धा मस्तको यासां ताः । मूर्द्धा चादित्यः । एकमधिलोकं लोकस्य पृथिव्याख्यस्य अधि उपरि द्वितीयान्तानुपाकर्तुं प्रथमान्ताः पदार्थाः कर्मार्थ क्लृप्ताः । ताभ्यः स्वाहेत्युक्तार्थम् ६॥ या रात्रिः रतस्य यज्ञस्य सत्यस्य वा ब्रह्मणो वा गर्भ आश्रयः कारणं वा । प्रथमा आद्या । सायंपातरित्यादिप्रथमत्वनिर्देशात् । व्युपिपी अन्धकारमपनयन्ती । एका कृष्णा । अपां जलानां महिमानं महत्वं चन्द्रादिरूपं विभर्ति धारयति पुष्णाति वा या चैका सूर्यस्य रवेः निष्कृतेपु निन्नेपु अस्तमयेषु चरति व्यवहरति । एका च शुक्ला धर्मस्य आतपस्य निष्कृतेपुं चरति । तामेकां सविता नियच्छतु सुखदात्री करोतु । अष्टकाविशेषणं वा सवम् ७ ॥ सैवाष्टका रानिधेनुरूपेण स्तूयतेऽनुष्टुभा । या प्रथमा अष्टका रात्रिः व्यौच्छत् विपाशितवती । उच्छी विपाशे । सा रात्रिः यमे नियमे कृते सति धर्मराजे वा धेनुः पयस्विनी गौरभवत् अभूत् । श्राद्धादिरूपहविःसंपादनद्वारा यमस्याप्यभीष्टं प्रादादित्यर्थः । सा नोऽस्माकं पयस्विनी अभीष्टदात्री भूत्वा उत्तरामुत्तरामुत्तरोत्तरां समां वर्ष यावज्जीवमस्माकं पुत्रपशुप्रामधनादिकामान् धुक्ष्व पूरयत्वित्यर्थः । पुरुपव्यत्ययश्छान्दसः ८॥ या रात्रिः शुक्रा शोचिष्मती ऋषमा वर्षणशीला श्रेष्ठा वा । नमसा नभसि स्थितेन ज्योतिषा सहागात् आगता । अतो विश्वरूपा नानारूपा । तदेवाह । शवली कवुरा शुक्लकृष्णारुणवर्णभेदेन । अग्निकेतुः होमार्थमुद्धृतोऽग्निः केतुः प्रकाशकः चिन्हें तिलको वा यस्याः सा । अग्निर्मन्दप्रकाश उपःकाले सूर्यतेजःसम्भेदाद्वा भवति । समान तुल्यमर्थ प्रयोजनं शोभनतया अपस्यमाना संपादयन्ती । उपःकाले पुण्यकर्माणि क्रियन्त इति यजमाने जरां निर्दुष्टदीर्घजीवन विभ्रती धारयन्ती । हे अजरे उपः त्वमागाः आगताऽसि । अजरे इति विशेषणं सर्वदैकरूपत्वात् । यजमानविशेषणं वा ९ ॥ अथोपोरूपाया रात्रेः स्तुतिद्वारेण स्वरूपनिरूपणमाह । इयमुपा आगात् आगता । किंभूता ऋतूनां वसन्तादिषण्णां प्रथमा मुख्या पली पालयित्री । उषःकालाहतोः प्रवृत्तिर्भवतीति प्रथमत्वम् । पत्नी भार्या वा । प्रस्तुभिः सह संघानात् । अन्हां वासराणां नेत्री प्रापयित्री । उषसो दिनानामाविर्भावात् । तथा प्रजानां जनित्री सवित्री । निद्रापगमेन जागरणधर्मत्वात् । एकैच सती बहुधा प्रकारेण व्यौच्छत् प्राकाशत । अनेन कर्तुर्धर्मत्वात् या एवंरूपा सा त्वं स्वयमजीर्णा सती अन्यत्सर्व प्राणिजातं जरयसि वयोविहीनं करोषि यातायाताभ्यां वयसोपचयाद्वा । अथवा रविरश्मिकदम्बप्रसारेण स्वयं जीर्णा सती अन्यत्सर्वं निमेषादि संवत्सरान्तकालावयवजातं जरयसि अपनयसि । तथाच यास्क:--राने रयिता जारः सूर्य इति १०॥ ततः स्थालीपाकेन शान्तापृथिवीत्यादिना मन्त्रचतुष्टयेन चतस्र आहुतयः क्रमेण । अथ मन्त्रार्थः। तत्र त्रयाणा प्रजापतिः पङ्किलिलोक्ता होमे० । शान्ता सुखस्वरूपा पृथिवी नोऽस्माकममयं कृणोतु करोतु । तथा शिवं मङ्गलमन्तरिक्षम् तथा शं सुखरूपा चौरपि कृणोतु । तथा दिशः प्राच्याद्याः प्रदिशोऽवान्तरदिशः आदिशः सर्वा नोऽस्माकं शं कृण्वन्तु । हे अहोरात्रे युवां शं कृणुतं कुरुतम् । एषां प्रसादादीर्घमायुर्व्यश्नवै प्राप्नुयाम् १॥ आपो जलानि मरीचीः मरीचयः मे मम देहगेहादि सर्व परिपान्तु रक्षन्तु । धाता अपां धारयिता समुद्रः सिन्धुः मे इति पदं तन्त्रमतः सर्वत्र संबध्यते । तेन मे मम पापं वृजिनमपहन्तु दूरीकृत्य नाशयतु । कीदृशं पापं तदेव प्रपञ्चयति । भूतं व्यतीतं भवि