________________
तृतीयकाण्डम् |
३२५
कण्डिका ]
द्रक्ष्यति । 'तस्यै वपां जुहोति' वह वपां जातवेद इत्यनेन मन्त्रेण । पुनरवदानहोमो विश्वेभ्यो देवेभ्यः स्वाहेति । ' श्वोऽन्व‘''ज्ञवत् ' श्वस्तनेऽहनि सर्वास्वष्टकासु पार्श्वसन्धिसन्ययोर्मी समादाय परिवृते पिण्डपितृयज्ञवत्कर्म भवति । इयांस्तु विशेषः । ' स्त्रीभ्यश्च ' ददाति । 'उपसेचनं च कर्पूषु सुरया' अयं च स्त्रीपिण्डसंनिधौ अवटेषु सुरयोपसेचनम् तर्पणेन च तर्पयेत् । तर्पणशब्देन सक्तवोऽभिधीयन्ते । ''अञ्जनानुलेपनथं स्रजच' स्त्रीपिण्डेषु ददाति । ' आचा" इच्छन् ' ददाति । 'मध्या "प्रका भवतीति शेषः ॥ ३ ॥
1
"
* ॥
( जयरामः ) – अष्टकाः भवन्तीति शेषः । संस्कारश्चायं स्मर्यते गौतमादिभिः । सकृत्करणं चास्य अभ्यासस्याश्रवणात् । ता आह ऐन्द्रीत्यादि । वक्ष्यति च मध्यावर्षे च तुरीया शाकाष्टकेति चतुर्थ्या निर्देशम् । तद्धितान्तेन निर्देश: प्रत्यष्टकं तद्देवत्यो होमो यथा स्यादिति । इदानीं तत्साधनभूतं द्रव्यमाह अपूपमिति । अपूपो मण्डकः, मांसं मध्यमागवेति वक्ष्यति, शाकं कालशाकम् अष्टकाद्वये । प्रथमाष्टका आग्रहायणीसमनन्तरपक्षाष्टम्यां भवतीति शेषः । आज्यभागौ हुत्वेत्यवसरज्ञापनम् । तत्राज्याहुतिपूक्तमन्त्राणां त्रि-शदित्यादिदशानां प्रजापतिस्त्रिष्टुप् अष्टम्या अनुष्टुप् लिङ्गोक्ता आज्यहोमे० । अष्टकायास्तदधिष्ठात्री देवतायात्रिंशत्तिययः स्वसारो भगिन्यः । ताश्चाष्टकाया उप समीपं यन्ति गच्छन्ति हविर्भागग्रहणाय । मुख्यत्वादृष्टकायास्तद्द्द्वारा ता अपि प्राप्नुवन्तीत्यर्थः । किंभूताः । निष्कृतं शुद्धं समानं तुल्यं केतुं चिह्नं चन्द्रादिरूपं प्रतिमुञ्चमानाः धारयन्त्यः । ऋतून हेमन्तादीन् तन्त्रते संभूय विस्तारयन्ति । पुनः किंभूताः । कवयः क्रान्तदर्शनाः । प्रजानतीः पूर्वकाल स्वरूपं जानानाः । छादनात् व्यापकत्वाच्छन्दो वत्सरः तस्य मध्ये परियन्ति आवर्त्तन्ते । कीदृश्यः भाखती: दीप्तिमत्यः । ताभ्यः स्वाहा सुहुतमस्त्विति सर्वत्र समानम् १ ॥ या रात्री ज्योतिष्मती आप्यायनद्वारा ओजआदिकर्त्री नक्षत्रप्रचुरा वा । देवी देवतारूपा संसारचक्रे क्रीडन्तीति वा । नभ आकाशं प्रतिमुञ्चते आवृणोति एतेन स्वरूपं व्याख्यातम् । सूर्यस्य व्रतानि दिवसोचितकर्माण्यप्यावृणोति न प्रवर्त्तन्त इत्यर्थः । यस्यां राज्यां पशवो गवादयः अस्या मातुः पृथिव्या उपस्ये उपरिस्थितं वस्तु विशेपेण पश्यन्ति । द्यौः पिता पृथिवी मातेति श्रुतेः । किं भूताः पशवः । नानारूपाः विडालाद्यनेकभेदभिन्नाः । जायमाना उत्पद्यमाना अपि । जन्मदिनमारभ्येत्यर्थः २ ॥ एकाष्टका चतुर्थी या वर्षासु प्रसिद्धा सा तप्यमाना तपसा शास्त्रविहितधर्मेण गर्भं श्रेयःप्राप्त्युपायविशेषरूपमिन्द्रं परमैश्वर्ययुक्तं महिमानं महान्तमप्रतिहतमित्यर्थः जजान जनितवती तेन गर्भेण देवा इन्द्राद्या दस्यून्प्रतिपक्षान् व्यसहन्त पराजितवन्तः । यद्वा । तान् विशेषेण स्वप्रहारमसहन्त असहायन्त | अन्तर्भूतोऽत्र णिच् वोद्धव्यः । यश्च गर्भः शचीभिः स्वनुष्ठितकर्मभिः असुराणामपकारिणां शत्रूणां हन्ता हिंसकोऽभवत् अभूत् । शचीति कर्मणो नामधेयं गणे पठ्यते ३ ॥ या माध्याः पौर्णमास्या उपरिष्टादष्टका तत्राष्टमी ज्येष्ठया संवध्यते । साऽप्येकाष्टकेत्याचक्षते । अथाष्टका स्वभगिनी: प्रत्याह । हे रात्र्यः यूयमात्मगुणैः कृत्वा अनुजां कनीयसीमपि मामनानुजां न अनुजा अननुजा तामनानुजां दीर्घच्छान्दसः ज्येष्ठामकर्त्त कृतवत्यः । अहं च सत्यं युष्मत्कृतमुपकारं यथार्थ वदन्ती कीर्त्तयन्ती सती एतत् अनानुजात्वमन्विच्छे शिरसि धारये । यथाऽस्य यजमानस्य सुमतौ शोभनमतिप्रदाने भूयासं भवेयम् । तथा यूयमप्येवंविधा भवत । किंतु युष्मान्प्रति ब्रवीमि । वो युष्माकं मध्ये अन्या रात्रयः अन्यां रात्रीमति अतिक्रम्य मा प्रयुक्त प्रतिपक्षा भूत्वा यजमानकार्य मा विच्छेदयन्तु । मिथोऽनुरागिण्यो भूत्वा यजमानकार्य संसाधयन्त्वित्यर्थः ४ ॥ अभूदित्यादिना पुनस्ता: प्रत्याह । हे भगिन्यः मम सुमतौ शोभननिष्ठायां वर्तमानोऽयं यजमानः विश्ववेदाः सर्वधनोऽभूत् भवतु । विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य सः । किंच प्रतिष्ठां सम्यस्थितिमु