________________
३२४ पारस्करगृह्यसूत्रम
[तृतीया स्वाहा । पञ्च व्युष्टीरनु पञ्चदोहा गां पञ्चनाम्नीमृतवोऽनुपञ्च । पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्धारधिलोकमेकळं स्वाहा ॥ ऋतस्य गर्भ: प्रथमा व्यूषिष्यपामेका महिमानं बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु धर्मस्यैका सवितैकां नियच्छतु स्वाहा ॥ या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तराखं समास्वाहा ॥ शुक्रऋषभा नभसा ज्योतिषागाद्विश्वरूपा शबली अग्निकतुः । समानमर्थ स्वपस्यमाना बिभ्रती जरामजरउष आगाः स्वाहा ॥ ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्यौच्छत्साऽजीर्णा त्वं जरयसि सर्वमन्यत्स्वाहेति ॥ ५ ॥ स्थालीपाकस्य जुहोति शान्ता पृथिवी शिवमन्तरिक्षठ शन्नो द्यौरभयं कृणोतु । शन्नो दिशः प्रदिश आदिशो नोऽहोरात्रे कृणुतं दीर्घमायुर्व्यश्नवै स्वाहा । आपो मरीचीः परिपान्तु सर्वतो धाता समुद्रो अपहन्तु पापम् । भूतं भविष्यदकृन्तद्विश्वमस्तु मे । ब्रह्माभिगुप्तः सुरक्षितः स्याळं स्वाहा ॥ विश्वे आदित्या वसवश्च देवा रुद्रा गोप्तारो मरुतश्च सन्तु । ऊर्ज प्रजाममृतं दीर्घमायुः प्रजापतिर्मयि परमेष्ठी दधातु नः स्वाहेति च ॥ ६ ॥ अष्टकायै स्वाहेति ॥ ७ ॥ मध्यमा गवा ॥ ८ ॥ तस्यै वपां जुहोति वह वपां जातवेदः पितृभ्य इति ॥ ९॥ श्वोऽन्वष्टकासु सर्वासां पार्श्वसक्थिसव्याभ्यां परिवृते पिण्डपितृयज्ञवत् ॥ १० ॥ स्त्रीभ्यश्वोपसेचनं च कर्तेषु सुरया तर्पणेन चाञ्जनानुलेपनऊं सजश्च ॥ ११ ॥ आचार्यायान्तेवासिभ्यश्वानपत्येभ्य इच्छन् ॥ १२ ॥ मध्यावर्षे च तुरीया शाकाष्टका ॥ १३ ॥ ॥३॥ ॥ ७ ॥
(कर्कः)-'ऊर्ध्व "टकाः भवन्तीति सूत्रशेपः। संस्कारश्चायं स्मर्यते गौतमादिभिः सककरणं चास्याभ्यासाश्रवणात् । अष्टकास्तिस्रो भवन्ति । ता आह 'ऐन्द्री' 'ज्येति' वक्ष्यति च मध्या वर्षे च तुरीयाऽष्टकेति । तद्धितान्तेन निर्देशाप्रत्यष्टकं तदैवत्यो होमो यथा स्यादिति । इदानीं तत्साधनभूतं द्रव्यमाह ' अपू' 'सख्यम्' अपूपा मण्डकाः । मांसं मध्यमा गवेति वक्ष्यति । शाकं कालशाकम् । अष्टकाद्वये। 'प्रथ' 'म्याम् आग्रहायणीसमनन्तरं पक्षाष्टम्यां भवतीति शेषः। 'स्थाली" - होति' त्रिशत्वसार उपयन्तीत्येवमादिभिर्मन्त्रैः प्रतिमन्त्रम् । 'स्थाली “होति । शान्ता पृथिवीत्येवमादिभिर्मन्नैः प्रतिमन्त्रं चतस्रः । ततोऽपूपेनेन्द्राय स्वाहेत्येकाहुतिः । उभयो. सकागास्विष्टकदादि । 'मध्यमा गवा' मध्यमाष्टका पौपस्य कृष्णाष्टम्यां सा च गवा भवति । तस्याश्च कल्प उपरिणा