________________
fusar ]
तृतीयकाण्डम् |
३२३
"
वास्तीर्य तदुपरि अहतं वासश्च तथैवास्तीर्येत्यर्थः । वैश्वदेवात्प्राक् । आरोहणं च दम्पत्योः गर्भरूपाणां च । कीदृशा इत्यत आह 'आप्लुरत: ' आप्लुताः कृतस्नानाः स्नानं चाद्भि: (हि) । सकृद्धौतं नवं श्वेतं सदृशम् यन्न धारितं । अहतं तद्विजानीयात्सर्वकर्मसु पावनम् । यत्तु अहतं यन्त्रनिर्मुक्तमुक्तं वासः स्वयंभुवेति । शस्तं स्यात्तद्विवाहादौ तावत्कालं न सर्वदेति । तेन सकृद्धौताद्युक्तलक्षणे अहते वाससी येषां ते तादृशाः । उत्तरत इत्यनेन प्रत्यवरोहन्तीत्यस्यान्वयः । कि कृत्वा प्रत्यवरोहन्तीत्यत आह ' दक्षिधाय ' इति । अनुज्ञादानस्य चेतनसाध्यतां प्रतीत्यैतद्दक्षिणतो ब्रह्माणमुपवेश्येत्येतत्सूत्रितम् । दक्षिणत्वं चाग्न्यपेक्षया । उत्तरत्वमपि । उदपात्राद्यदृष्टार्थम् । ' अग्नितुनाविति ' जपश्च स्वामिनः । पश्चा" सृभिः ' अग्नेः पश्चाद्भागे संहताभ्यां हस्ताभ्यां प्रागग्रमञ्जलिं करोति देवींनावमिति तिसृभिरर्द्धकण्डिकाभिः स्वस्तय इत्यन्ताभिः तेन साद्वैककण्डिकयाऽञ्जलिं करोतीत्यर्थः । < स्रस्तरमा - रोहन्ति' कथमत आह 'ब्रह्मा' वलमिति' प्रत्यवरोहध्वमित्यनुज्ञादानम् । मन्त्रपाठश्च दम्पत्योरुपनीतकुमाराणां च । 'उपे "शिवाइति' आयुः कीर्तिमितिमन्त्रेणारूढाः संजातोपनयनाः यजमानपुत्राः सुहेमंत इत्यादिमन्त्रं जपन्ति । ' स्योना शन्ति' संविशन्ति स्वपन्ति । कीदृशाः प्राक् पूर्वं शिरो येषां ते । स्वामित उत्तरस्यां जाया ततो यथाकनिष्ठमुत्तरतोऽपत्यानि स्वपन्ति । पुनः कथं ? दक्षिणपार्थैः । उत्तराभिमुखा इत्यर्थः । स्योनापृथिविनोभवेति मन्त्रेण संहितास्थेन । अत्रापि दम्यत्योरुपनीतानां च मन्त्रपाठः । पत्नीव्यतिरिक्तस्त्रीणां मन्त्राभावः । 'उपोमभिरिति तत उदायुषेतिमन्त्रेण युगपत् उतिष्ठन्ति । स्तरोपविष्टा उत्थानेनावरोहन्तीत्यर्थः । ' एवं ज्ञाताः ' एवमुक्तप्रकारेण ब्रह्मन्प्रत्यवरोहामेत्यारभ्य प्रत्यवरोहध्वमित्यनुज्ञाता उदायुषेत्युत्थानान्तं द्विर्वारमपरं स्रस्तरारोहणमवरोहणान्तं कर्म कुर्वन्ति । 4 अधः सान्' चैत्रीपौर्णमासीपर्यन्तम् अधः खट्टां व्युदस्य ' यथेष्टं वा ' शयीरन्नित्यनुषङ्गः वाशब्दो विकल्पार्थः । तदनन्तरं वैश्वदेवः ॥ इतिस्रस्तरारोहः ॥ तृतीयस्य द्वितीया ॥२॥
J
ऊर्द्धमाग्रहायण्यास्तिस्रोऽष्टकाः ॥ १ ॥ ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्येति ॥ २ ॥ अपूपमाÒसशाकैर्यथासंख्यम् ॥ ३ ॥ प्रथमाऽष्टका पक्षाष्टम्याम् ॥ ४ ॥ स्थालीपाकथं श्रपयित्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति । त्रिशत्स्वसार उपयन्ति निष्कृतठे समानं केतुं प्रतिमुञ्चमानाः । ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः स्वाहा । ज्योतिष्मती प्रतिमुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे स्वाहा | एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्य सहन्त देवा. हन्ताऽसुराणामभवच्छचीभिः स्वाहा ॥ अनानुजामनुजां मामकर्त्त सत्यं वदन्त्यन्विच्छ एतत्। भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त स्वाहा । अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्त