________________
३२२
पारस्करगृहासूत्रम् ।
[ द्वितीया
ब्रह्मन् प्रत्यवरोहामेति ब्रह्माणमामन्त्र्य प्रत्यवरोहध्वमिति ब्रह्मणा प्रत्यनुज्ञाताः सर्वे स्नाता: अहतवासस 'आयु: कीर्तिर्यशो बलमन्नाद्यं प्रजामित्यनेन मन्त्रेण स्त्रस्तरमारोहन्त्यधितिष्ठन्ति स्त्रियोऽपि मन्त्रेण । तमारुह्य तेषु ये उपनीतास्ते सुहेमन्तः सुवसन्तः सुग्रीष्मः प्रतिधीयतान्नः । शिवा नो वर्षाः सन्तु शरदः सन्तु शिवा इत्यमुं मन्त्रं जपन्ति । अथ स्योना पृथिवीत्यनयच स्वामिप्रभृतयः स्त्रिय उपनीता अनुपनीताश्च सर्वे यथोक्तक्रमेण दक्षिणपार्श्वः प्राक्शिरसः संविशन्ति स्त्रपन्ति । तत उदायुपा स्वायुपोस्पर्जन्यस्य वृष्ट्या पृथिव्याः सप्तधामभिरित्यनेन मन्त्रेणोत्तिष्ठन्ति सर्वे । ततः स्रस्तरादुत्तीर्य ब्रह्मानुमन्त्रण प्रत्यवरोहणोंपेतजप संवेशनोत्थानानि वारद्वयमेव कुर्युः । तत आरभ्य चतुरो मासान् सर्वेऽधः शयीन कामतो वा शय्यायाम् । पुनरावसथ्यं पञ्चभूसंस्कारपूर्वकं स्वस्थाने स्थापयेत् । इति स्रस्तरारोहणम् । मुख्यकाले यदावश्यं कर्म कर्तुं न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदृशो भवेत् ॥ १ ॥ आ सायमाहुतेः कालात्कालोऽस्ति प्रातराहुतेः । प्रातराहुतिकालात्माक कालः स्यात्सायमाहुतेः ॥ २ ॥ पौर्णमासस्य कालोऽस्ति पुरा दर्शस्य कालतः । पौर्णमासस्य कालात्प्राक् दर्शकालोऽपि विद्यते ॥ ३ ॥ वैश्वदेवस्य कालोऽस्ति प्राक् प्रधासविधानतः । प्रघासानां च कालः स्यात्साकमेधीयकालतः ॥ ४ ॥ स्यात्साकमेधकालोऽप्या शुनासीरीयकालतः । शुनासीरीयकालोऽपि आ वैश्वदेवकालतः || ५ || श्यामाकैत्रीहिभिश्चैव यवैरन्योन्यकालतः । प्राग्यष्टुं युज्यतेऽवश्यं नत्वत्रायणात्परः || ६ || दक्षिणायनकाले वा पश्विज्या चोत्तरायणे । अन्योन्यकालतः पूर्वं यष्टुं युक्त उभे अपि ॥ ७ ॥ एवमागामियागीय मुख्य कालादधस्तनः । स्वकालादुत्तरो गौणः कालः पूर्वस्य कर्मणः ॥ ८ ॥ यद्वाऽऽगामिक्रिया मुख्यकालस्याप्यन्तरालवत् । गौणकालस्तमिच्छन्ति केचित्प्राक्तनकर्मणि ॥ ९ ॥ गौणेष्वेतेपु कालेषु कर्म चोदितमाचरेत् । प्रायश्चित्तप्रकरणे प्रोक्तां निष्कृतिमाचरेत् ॥१०॥ प्रायश्चित्तमकृत्वाऽपि गौणकाले समाचरेत् । नित्येष्टिमग्निहोत्रं च भारद्वाजीयभाष्यतः ॥ ११ ॥ मुख्यका हि मुख्यं चेत्साधनं नैव लभ्यते । तत्कालद्रव्ययोः कस्य मुख्यत्वं गौणताऽपि वा ॥ १२ ॥ मुख्यकालमुपाश्रित्य गौणमप्यस्तु साधनम् । न मुख्यद्रव्यलोभेन गौणकालप्रतीक्षणम् ॥ १३ ॥ एकपक्षगतो यावान् होमसंघो विपद्यते । पक्षहोमविधानान्तं हुत्वा तन्तुमतीं यजेत् ॥ १४ ॥ ॥२॥
( विश्व० ) ( मार्गणीकर्म ' कर्तव्यमिति शेषः । ' स्थाली “होति ' अत्रापि मातृपूजाभ्युदयिके कृत्वा ब्रह्मासनास्तरणादिपरिभाषोक्तविधिना स्थालीपाकं पक्त्वा । तत्र विशेष. पात्रासादनानन्तरं सक्तशेषत्यासादनम्, उल्काधारश्च उदपात्रं, दव, कङ्कतत्रयमञ्जनानुलेपन
जश्च । स्थालीपाकग्रहणे सोमाय मृगशिरसे मार्गशीष्यैपौर्णमास्यै हेमंताय जुष्टं गृह्णामि । प्रोक्षणे त्वाशब्दः । ततः श्रवणाकर्मवदाज्यभागानन्तरम् अपश्वेतपदा --- नवैश्वेतस्येतिमन्त्राभ्यामाज्याहुती हुत्वाऽपराश्चतस्र आज्याहुतीर्जुहोति । तासां मन्त्रानाह ' यांजनाः “सेमस्वाहेति ’ इदं रात्र्यै २ ॥ इदं संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सरायवत्सराय ३ ॥ इदं ग्रीष्मायहे - मन्ताय वसंताय वर्षाभ्यः शरदे ४ ॥ स्छाली. चेति ' स्वाहान्तैरेभिश्चतुर्थ्यन्तैः प्रतिमन्त्रं होमः । त्यागास्तु इदंसो मायेत्यादि यथादैवतम् ।' प्राशर्जनात् ' ततः स्विष्टकृदादिदक्षिणादानान्ते सक्तशेषं शूर्पे प्रक्षिप्योपनिष्क्रम्य वहि:शालायाः स्थण्डिलमुपलिप्येत्यादि द्वारदेशमार्जयन्तआपोहिष्ठेतितिसृभिरित्यन्तं श्रवणाकर्मवत् । स यावत्कामयेत न सर्पा अभ्युपेयुरिति तावत्सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन्परीयादित्येतद्वर्जम् । 'मार्जत्याह ' तत उत्सृष्टो बलिरिति प्रेषमुच्चार्य वहिमादिब्राह्मणभोजनान्तम्। तदनन्तरं वैश्वदेवः । आग्रहायणीचेतिसूत्रादस्तमिते वत्ससंसर्गः । इत्याग्रहायणीकर्म ॥ ॥ स्वस्तरारोहमाह पश्चावासः ' आस्तीर्येत्यनुषङ्गार्थचकारः । तत्र मातृपूजाभ्युदयिके कृत्वा सायमा परिचर्यानेः प्रतीच्यां कौशं स्रस्तरं प्रागुदग
1
1