________________
तृतीय काण्डम् |
३२१
कण्डिका ]
I
स्थित्वा प्रागग्रमञ्जलिं करसंपुटं विदधाति देवी नावभित्यारभ्य मध्वारजार्थं सिसुक्रतू इत्यन्ताभिस्तिसृभिर्ऋग्भिः । ' स्रस्त‘''हामेतिं ' स्रस्तरं यथोक्तमारोहन्ति सांप्रतं स्वामिप्रभृतयः पूर्वं यत्प्रत्यवरोह - न्तीत्युक्तं तद्विधानार्थमिदम् । तत्र स्वामी ब्रह्माणमामन्त्रयते पृच्छति । कथं ब्रह्मन् प्रत्यवरोहामेति वाक्येन । 'ब्रह्मा' जामिति' प्रत्यवरोहध्वमिति वाक्येन ब्रह्मणाऽनुज्ञाताः प्रसूताः प्रत्यवरोहन्ति स्रस्तरमधितिष्ठन्ति आयुः कीर्तिरित्यादिमन्त्रेण । अत्र स्त्रीणामपि मन्त्रपाठः ॥ ' उपेता जपन्ति' सुहेमन्तः सुवसन्त इत्यादिकम् । तत्र ये उपेता उपनीतास्ते स्रस्तरमारुह्य सुहेमन्त इत्यादिकं मन्त्र जपन्ति । ' स्योना शन्ति ' स्रस्तरमारुह्य स्योना पृथिवीत्यनेन मन्त्रेण स्वामी जायापत्यानि प्राक् पूर्वस्यां दिशि शिरो येषां ते प्राक्शिरसः दक्षिणापार्श्वः उदङ्मुखाः संविशन्ति स्वपन्ति शेर स्रस्तरोपरीत्यर्थः । ' उपोभिरिति ' उप स्रस्तरसमीपे उदुतिष्ठन्ति उत्थाय उत्तिष्ठन्तीत्यर्थः । उपपद्मनर्थकम् । उदायुषा स्वायुषोत्पर्जन्यस्येत्यादिमन्त्रेण स्रस्तरात् । ' एवं 'ज्ञाताः ' एवमुक्तप्रकारेण ब्रह्मन्प्रत्यवरोहा मेत्यारभ्य उत्थानपर्यन्तं ब्रह्मानुज्ञाताः सन्तो द्विरपरमपरमन्यत्त्रस्तरमारोहन्ति संविशन्ति उत्तिष्ठन्ति च । ' अधष्टं वा अत ऊर्ध्वं चतुरो मासान्पौपादीन् अधः खद्वां व्युदस्य भूमौ शयीरन् गृहपतिप्रमुखाः यथेष्टं वा अथवा इष्टमनतिक्रम्य यथेष्टं यथाकामम् अधो वा खट्टायां वा शयीरन्निति विकल्पः । इति सूत्रार्थः ॥ ॥ अथ पद्धतिः । मार्गशीर्ष्या पौर्णमास्यामाग्रहायणीकर्म भवति । तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकश्राद्धं विधाय आवसथ्याग्नौ - ह्मोपवेशनादिप्राशनान्ते विशेषः । शूर्पं सक्तूनुल्कामुदपानं दर्वी कङ्कतत्रयमञ्जनमनुलेपनं स्रजचेत्युपकल्पः । तत आज्यभागानन्तरमपश्वेतपदाजहीत्याज्याहुतिद्वयं श्रवणा कर्मवद्धुत्वा अपराश्चतस्र आज्याहुतीर्जुहोति वक्ष्यमाणैश्चतुर्भिर्मन्त्रैः प्रतिमन्त्रम् । तद्यथा । यां जनाः प्रतिनन्दन्ति रात्री धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा । इद:- रात्र्यै ० १ ॥ संवत्सरस्य प्रतिमा या तां रात्रीमुपास्महे । प्रजार्थं सुवीर्यौ कृत्वा दीर्घमायुर्व्यवै स्वाहा । इदः - रात्र्यै० २ ॥ संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय वत्सराय कृणुते बृहन्नमः । तेषां वयः सुमतौ यज्ञियानां ज्योग्जीता अहताः स्याम स्वाहा । इदं संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सराय वत्सराय च० ३ ॥ ग्रीष्मो हेमन्त उतनो वसन्तः शिवा वर्षा अभया शरन्नः । तेषामृतूनां शतशारदानां निवात एषामभये वसेम स्वाहा । इदं ग्रीष्माय हेमन्ताय वसन्ताय वर्षाभ्यः शरदे च० ४ ॥ ततः स्थालीपाकेन चतस्र आहुतीर्जुहोति तद्यथा । सोमाय स्वाहा इदं सोमाय० मृगशिरसे स्वाहा इदं मृगशिरसे० । मार्गशीष्यै पौर्णमास्यै स्वाहा इदं मार्गशीष्यै पौर्णमास्यै० । हेमन्ताय स्वाहा इदं हेमन्ताय० । ततः स्थालीपाकेन स्विष्टकृतं हुत्वा महाव्याहृत्यादिदक्षिणादानान्ते सक्शेपं शूर्पे न्युयोपनिष्क्रमणप्रभृतिमार्जनपर्यन्तं श्रवणाकर्मवत्कृत्वा मार्जनान्ते उत्सृष्टो बलिरित्युचैर्ब्रूयात् । ततस्तां रात्रीं वत्सान् स्वमातृभिः सह संसृजेत् । इत्याग्रहायणीकर्म ॥ ॥ अथ ' स्रस्तरारोहणम् । तत्र प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकश्राद्धं विधाय स्रस्तरास्तरण प्रदेशगृहे सर्वमावसथ्याग्निं नीत्वा पञ्चभूसंस्कारपूर्वकं स्थापयित्वा अमेः पश्चिमायां दिशि कुशैः स्रस्तरास्तरणं कुर्यात् । त्रस्त - रास्तरणमग्निशालाया गृहान्तरे युज्यते । अभिशालायामौपवसध्यरात्रिमन्तरेण शयननिपेधात् । तस्योपरि नूतनं सकृत्प्रक्षालितमुदग्दशं वासः संस्तरेत् । अग्निं दक्षिणेन ब्रह्माणमुपवेश्य उत्तरत उदपात्र शमीशाखां सीता लोष्टमरमानं च निधाय स्रस्तरपश्चिमतः स्वामी स्थित्वा तमुत्तरेण पत्नी तामुतरेणापत्यानि यथा कनिष्ठम् । तत्र गृहपतिरग्निमीक्षमाणो जपति अयमग्निवरतमोऽयं भगवत्तमः सहस्रसातमः सुवीर्योऽयं श्रेष्ठये दधातु नावित्येतं मन्त्रम् । ततः पश्चादनेः प्राञ्चमञ्जलिं करोति । देवीं नाव स्वरित्रामनागसमित्यादिमध्वारजार्थं सिसुक्रतू इत्यन्ताभिस्तिसृभिऋग्भिः । ततो
४१