________________
३२०
परिस्करगृह्यसूत्रम् ।
[ द्वितीया
}
नात् श्रवणाकर्मवद्भवति । मार्जनान्ते उत्सृष्टो वलिरित्येवमाह यजमानः समाप्तमिदमाग्रहायणी - कर्म ॥ ॥ अथान्यत्कर्मान्तरम् । तत्राग्निमपरेण तृणैः स्रस्तरमास्तीर्य तदुपर्यहतं च वास आस्तीर्य | आप्लुताः स्नाता: अहतवाससश्च सन्तः स्रस्तरं प्रत्यवरोहन्ति आरोहन्ति । तेषांच प्रत्यवरोहतां दक्षिणतः स्वामी यजमानः । जाया च पत्नी तदुत्तरतः । तदुत्तरतो यथाकनिष्टमपत्यानि भवन्ति । उदपानादिनिधानं त्वष्टार्थम् । आदावनिं पश्यन् गृहपतिर्जपत्ययमग्निरित्यमुं मन्त्रम् । अस्यार्थः तत्र प्रजापतिरनुष्टुप् अग्निस्तदुपस्थाने० । अयमावसथ्यान्निर्वीरतमः अचिन्त्यशक्तिः भगवत्तमः ऐश्वर्यादिपङ्गुणाश्रयोऽयम् सहस्रं सहन्ते ददतीति सहस्र साहः तेषु तमः नानार्थप्रद्मुख्यः । सुवीर्थः शोभनमेव वीर्य यस्य सोऽयं नौ आवां जायापती सपरिकरौ श्रेष्ठये श्रेष्ठे कर्मणि दधातु स्थापयतु । ततोऽग्नेः पञ्चाद्भागे स्थित्वा प्राभ्वं प्रागग्रमञ्जलिं करोति दैवीं नावमित्यादितिसृभिऋग्भिः तासां क्रमेण प्रजापत्यश्विसरस्वत्य ऋपयो गायत्री छन्दः अदितियोर्मित्रावरुणौ च उपस्थाने० | एव मञ्जलिं विधाय आरोहन्ति सर्वे । तत्र विधानमाह---यजमानो ब्रह्माणमामन्त्रयते ब्रह्मन्प्रत्यवरोहामेति मन्त्रेण पृच्छति ं । प्रत्यवरोहध्वमिति ब्रह्मणाऽनुज्ञाताः स्रस्तरमवरोहन्ति आयुः कीर्त्ति यशो बलमन्नाद्यं प्रजामिति मन्त्रेण । तत्र आसुरी गायत्री लिङ्गोक्ता आरोहणे० आयुरादि आरोहेम लमेमेति प्रार्थना । उपेता उपनीता जपन्ति सुहेमन्त इत्यमुं मन्त्रम् । तस्यार्थः । तत्राश्वलायन: पतिऋतो जपे० । नोऽस्माकं सुशोभनो हेमन्तः प्रतिधीयतां संपद्यताम् शिष्टं स्पष्टम् । स्योनापृथिवीति दयाथर्वणो गायत्री पृथिवी शान्तिकरणे० । अनेन स्रस्तरे स्वपन्ति । तत उप युगपदुतिष्ठन्ति । उ: पादपूरणः । उत्तिष्ठन्ति उदायुषेति मन्त्रेण । अस्यार्थः । तत्र गौतमो गायत्री अग्निरुत्थाने० । उदायुपा दीर्घायुषा । तथा स्वायुषा शोभनजीवितेन उत् उत्कृष्टस्य पर्जन्यस्य वृष्टया । पृथिव्या सप्तभिर्धामभिः श्रेष्ठस्थानैः सह भवामेति प्रार्थना । एवमेवमेव समन्त्रकं द्विरपरं ब्रह्मानुज्ञाताः स्रस्तरारोहादि कुर्युः ॥ २ ॥ 11 11 11 % 11 ( हरिहर: ) - 'मार्ग कर्म' मार्गशीर्ष्यामाग्रहायण्यां पौर्णमास्यामाग्रहायणीसंज्ञं कर्म भवति ॥ 'स्थाली "जुहोति' यां जना इत्यादि । तत्र चरुं श्रपयित्वा श्रवणाकर्मणि यथा द्वे आज्याहुती जुहोति तथाऽत्र अपश्वेतपदाजहीति द्वाभ्यां मन्त्राभ्यां हुत्वा ततोऽनन्तरमपरा: यां जना इत्यादिभिश्चतस्र आज्याहुतीर्जुहोति । 'स्थाली 'चेति' ततः स्थालीपाकेन सोमायेत्यादिभिश्चतुभिर्मन्त्रैः स्वाहान्तैश्चतस्त्र आन्याहुतीर्जुहोति इति चकारः समुच्चयार्थः । 'प्राशर्जनात् ' ततः स्विष्टकृत्प्रमृति प्राशनान्ते चलिहरणार्थे सक्तशेषं शूपें कृत्वा उपनिष्क्रमणादि आमार्जनात् द्वारदेशे मार्जनं यावत्
1
I
कर्म कुर्यात् । 'मार्ज त्याह' मार्जनस्यान्ते अवसाने उत्सृष्टो वलिरिति वचनं ब्रूयान् । Careerहायणीकर्म ॥ ॥ अथान्यत्कर्माभिधीयते || 'पञ्चा' 'हन्ति' पश्चादग्नेरावसध्यस्य पश्चिमप्रदेशे स्रस्तरं प्रागयैः कुशैः स्रस्तरमास्तीर्य विरचय्य । तच्चास्तरणमग्निशालातो गृहान्तरे युज्यते । अभिशालायां ह्यौपवसध्यरात्रिमन्तरेण शयनप्रतिपेधात् । अहतं च वसनं सकृत्प्रक्षालितं वस्त्रं तदुपरि आस्तीर्येति संवन्धः । आप्लुताः स्नाताः अहते नवे सदशे सकृत्प्रक्षालिते प्रत्येकं वाससी येषां ते अहतवाससः स्वामिप्रभृतयः प्रत्यवरोहन्ति स्रस्तरं निविशन्ते । 'दक्षि रतः कथं प्रत्यवरोहन्ति सर्वेषां दक्षिणतः स्वामी गृहपतिर्भवति तस्योत्तरा जाया पत्नी तस्या उत्तरतः अपत्यानीति शेषः । कथं यथानिष्टं यो यस्मात् कनिष्टः स तदुत्तरत इति । 'दक्षिजपति' अयमग्निवरतम इति । तत्रस्वामी स्रस्तरं प्रत्यवरोक्ष्यन् दक्षिणतोऽग्नेर्ब्रह्माणं यथाविध्युपवेश्य उत्तरत उदपात्रं जलपूर्णभाजनं शमीवृक्षस्य शाखा सीताोष्टं हलपद्धतिभवं मृच्छकलमश्मानं प्रस्तरं निधाय स्थापयित्वा अग्निमीक्षमाणः आवसथ्यं पश्यन् अयमनिरतम इत्येतं मन्त्रं जपति । 'पश्चा' 'सृभिः' अग्नेः पश्चिमतः
1