________________
कण्डका ]
तृतीयकाण्डम् |
पर्जन्यस्य वृष्ट्या पृथिव्याः सप्तधामभिरिति ॥ १४ ॥ एवं द्विरपरं ब्रह्मानुज्ञाताः ॥ १५ ॥ अधः शयीरंश्चतुरो मासान्यथेष्टं वा ॥ १६ ॥ २ ॥
(कर्कः ) –' मार्ग 'कर्म' कर्तव्यमिति शेषः । ' स्थाली "होति श्रवणाकर्मवदाज्याहुति - द्वयं हुत्वा ततोऽपरा जुहोति । ' यां जनाः प्रतिनन्दन्ति ' एवमाद्याः । ' स्थाली "न्ताय चेति ' । ततः स्विष्टकृदादि । ' प्राशर्जनात् ' श्रवणाकर्मवत्कर्म भवति । ' मार्ज "त्याह ' | परिसमाप्तमाग्रहायणीकर्म । इदमन्यत्कर्मान्तरम् । 'पञ्चाहन्ति ' अग्निमपरेण तृणैः स्रस्तरमास्तीर्य तदुपर्यहतं च वासः आप्लुताः स्नाता अहह्नवाससोऽनुस्रस्तरं प्रत्यवरोहन्ति तेषां च प्रत्यवरोहतां दक्षिणतः स्वामी भवति जाया चोत्तरा यथाकनिष्ठमुत्तरतोऽपत्यानि । ' दक्षिण "जपति ' अयमग्निवरतमोऽयमिति गृहपतिः । ' पञ्चा "रोति' । 'दैवीं हन्ति ' सांप्रतम् । तत्र । ' ब्रह्मा 'हामेति' प्रत्यवरोहन्त्रमिति ब्रह्मानुज्ञाताः प्रत्यवरोहन्ति स्रस्तरमायुः कीत्तिर्यशोवलमित्यनेन मन्त्रेण । ' उपेता जपन्ति सुहेमन्त इति ' ये उपेतास्ते जपन्ति सुहेमन्त इत्यमुं मन्त्रम् | ' स्योना शन्ति ' स्रस्तरम् । 'उपोदुतिष्ठन्ति ' उदायुपा स्वायुषेत्यनेन मन्त्रेण स्रस्तरात् । ' एवं 'ज्ञाताः स्रस्तरमारोहन्ति । [ 'अधः" "थेष्टं वा ' ॥ २॥
॥ * ॥
॥ * ॥
11 % 11
10
३१९
11 % 11
·
( जयरामः ) - मार्गशीय शुक्लपञ्चदश्यामाग्रहायणीकर्म कर्तव्यमिति सूत्रशेषः । तत्कथम् ? स्थालीपाकमिति । स्थालीपाकश्रपणमाज्यभागहोमोपलक्षणम् । तेनाज्यभागानन्तरमाज्येन अपश्वेतपढ़ान वै श्वेतस्येति मन्त्राभ्यामाहुतिद्वयं श्रवणाकर्मणि यथा तथाऽत्रापि हुत्वा अपराश्चतस्रो जुहोति । यांजना इत्येवमादि वक्ष्यमाणमन्त्रैः प्रतिमन्त्रम् । अथ मन्त्रार्थः । तत्र यां जना इति द्वयोः प्रजापतिरनुष्टुप् रात्रिराज्यहोमे० । तत्र धेनुरूपेण तावद्रात्रिः प्रस्तूयते । यां रात्रीमायतीमागच्छन्तीं जनाः सन्तः प्रतिनन्दन्ति प्रजाप्यायनदात्रीत्वेनादृत्य हृष्टाः समर्द्धयन्ति । वनादागच्छन्तीम् धेनुमित्र । या च रात्री संवत्सरस्य प्रजापतेः पत्नी यज्ञसंयोगभाग्योपा । पत्युर्नो यज्ञसंयोग इतिस्मरणात् । संवत्सरो वै यज्ञ इतिश्रुतेः । धेनुपक्षे संवत्सरस्य पत्नीत्वं प्रजापालयित्रीत्वेन । स्वाहेत्युक्तार्थम् । सा रात्रिर्नोऽस्माकं सुमङ्गली शोभनकल्याणकर्त्री अस्तु भूयात् १ ॥ या रात्री संवत्सरस्य प्रतिमा आकृतिर्जायेति यावत् । अद्धों वा एष आत्मनो यज्जायेति श्रुतेः । अहोरात्रे हि संवत्सरस्य शरीरम् । तद्भावभावात् । तां रात्रीमुपास्महे आराधयामः । तत्फलमाह । प्रजां पुत्रादिरूपां सुवीर्यां शोभनैश्वर्या दीर्घमखण्डितमायुश्च व्यभवै प्राप्नवानि । स्वाहेत्युक्तार्थम् २ ॥ संवत्सरायेति द्वयोर्विरादऋषिः त्रिष्टुप् प्रथमस्य संवत्सरादिपञ्चदेवता द्वितीयस्यार्तव आज्यहोमे ० हे स्तोतारः भवन्तो याभ्यः संवत्सरादिसंज्ञिकाभ्यः कालविशेषदेवताभ्यो वृहत् महत् यथा तथा नमः नमस्कारं कृणुते कृण्वते हविः समर्पयन्तीत्यर्थः । तासां च प्रसादात्सुमतौ शोभनबुद्धौ वर्तमाना वयं ज्योकू चिरं जीता: दोषाणां दुष्टानां च जेतारः अहताः अनुपहताः स्याम भवेमेति प्रार्थना । किभूतानां यज्ञियानां यज्ञार्हाणाम् ३ ॥ ग्रीष्मो हेमन्तः । उत अप्यर्थे । वसन्तोऽपि । नोऽस्माकं शिवाः कल्याणकृतो भवन्तु । तथा वर्षाः शिवाः सन्तु । शरञ्च नोऽस्माकममया नीरुक् अस्तु । ग्रीष्मादय ऋतवो वृषादिमासद्वयभुजः कालावयवाः तेषा ग्रीष्माद्यधिष्ठातॄणां प्रसादात् वयमेषां संवत्सरादीनां निवाते अनर्दितप्रदेशे आश्रये वा अभये निर्भये वसेम तिष्ठामेत्यपि प्रार्थना । किंभूतानां शतशारदानां वर्षशतसंवन्धिनाम् ॥ ४ ॥ ततः स्थालीपाकस्यावयवेन सोमादिभ्यश्चतुभ्यों नाममन्त्रैः प्रतिमन्त्रम् । ततः स्विष्टकृद्धोमः । प्राशनान्ते सक्शेपं शूर्पे न्युप्य संस्थाप्य निष्क्रमणप्रभृति सक्तभ्यो वलिदानविधिः सर्वोऽप्यामार्ज
1