________________
३१६
पारस्करगृह्यसूत्रम् ।
[ प्रथमा
प्राशने० । उ एवार्थे । एतम् एतत् प्रत्यक्षं त्यं त्यत् परोक्षमन्नं यु मिश्रणे यौति लीयतेऽस्मिन्निति यवः परमात्मा तत्प्राप्तिसाधनत्वादयमपि यवः तं यवं मरुतो देवविशेषाः । सरस्वत्याः सर इत्युदकनाम तद्वत्याः नद्याः अधिवनाय उपरि वनेषु केदारेषु चक्रपुः कृष्टवन्तः । यद्वा । सरोऽस्यामस्तीति सरस्वती पृथिवी तस्या अधि उपरि वनाय संभजनाय । वन संभक्तौ । पञ्चमहायज्ञाद्यर्थमित्यर्थः । किं भूतम् मधुना मधुरसेन संयुक्तं संसक्तम् । अथवा एतं त्वंपदार्थ जीवं त्यं तत्पदार्थ परं ब्रह्म तत् यवं मिश्रीभूतमेकत्वमापन्नं कर्मभूमौ वनाय अतन्निरसनाय चक्रपुः आकृष्टवन्तः उपाददुरित्यर्थः । तत्साधनत्वेन प्रथममिदमपि कर्म चक्रुरिति विवक्षितम् । तत्किमित्यत आह । यत इन्द्रः शतक्रतुः अतः सीरस्य लाङ्गलस्य पतिरासीत् वभूव । मरुतश्व कीनाशा: कृषीवलाः कर्पका इत्यर्थः । सुदानवः शोभनस्य भोगादेर्दानवः दातारः आसन् बभूवुः । तदनेन यवोत्पत्तिः प्रशस्यते ॥ १ ॥
( हरिहर: ) - ' अनाशनम् अनाहिताग्निरावसथिकः तस्य नवान्नप्राशनाख्यं कर्म व्याख्यास्यत इति सूत्रशेषः । नवप्राशनमिति संज्ञाऽन्वर्था ततश्चैतत्कृत्वा नवं प्राश्यते नाकृत्वा । मत्र किं नवमात्रनिषेधः उत कतिपयानामित्यपेक्षिते गृह्यसंग्रहकार :- नवयज्ञाधिकारस्थाः श्यामाका व्रीहयो यवाः । नाश्नीयात्तानहुत्वैवमन्येष्वनियमः स्मृतः । ऐक्षवः सर्वशुङ्गाश्च नीवारायणकास्तिलाः । अकृताप्रयणोऽश्नीयात्तेषां नोक्ता हविर्गुणाः । इति । नचास्याग्रयणशब्दवाच्यता । तेन पौर्णमास्यामावस्यायामिति नियमो नास्ति । व्रीहियवपाकोचितत्वात् शरद्वसन्तावाद्रियेते । 'नव ं धायेति' नवं शरदि नूतनं त्रीहिमयं वसन्ते नूतनं यवमयं स्थालीपाकं चरुं पक्त्वाऽऽज्यभागयोरन्ते शतायुधायेति ये चत्वार इत्येताभ्यां प्रतिमन्त्रं द्वे आज्याहुती जुहोति । ' स्थाली "मग्न इति ' अथ स्थालीपाकस्य आग्रयणदेवताभ्य इन्द्राग्नी विश्वेदेवा द्यावापृथिवी इत्येताभ्यः प्रत्येकमेकैकामाहुति हुत्वा स्विटमम इत्यन मन्त्रेण स्विष्टकृद्धमात्पूर्वं चकारात् पञ्चाचाज्याहुति जुहोति । मध्ये स्थालीपाकेन सौविष्टकृतम् । ततो महाव्याहृत्यादिप्राजापत्यान्ते ' अथ प्राश्नाति ' अग्निः प्रथम इत्यनेन मन्त्रेण संखवं प्राश्ना - ति । अत्र हुतशेषप्राशने गुणविधिरयं मन्त्रेण । ' अन्नपतीयया वा ' अन्नपतिरिति अन्नं पतिर्देवता यस्याः सा अन्नपतीया ऋक् तया अन्नपतीयया ऋचा अन्नपतेऽन्नस्येत्यादिकया वा विकल्पेन प्राश्नाति । यद्वा अन्नपतिशब्दो यस्यामृचि अस्ति साऽन्नपतीया । ' अथ यत्यमिति ' अथ त्रीहिप्राशनमन्त्राभिधानानन्तरं यवानां प्राशने मन्त्रमाह । एतमुत्यमित्यादि सुदानव इत्यन्वं मन्त्रम् | यवप्राशने पैठीनसिः अग्निमेवोपासीत नान्यदैवतम् । अग्निर्भूम्यामिति विज्ञायते न प्रवसेत् यदि प्रवसेदुक्तमुपस्थानं यजमानस्य प्राशितमनौ जुहुयात् । नवेष्टचामेवौपासनिकस्य । ' ततो ब्राह्मणभोजनम्' । इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र शरदि वसन्ते च अनाहिताग्नेर्नवप्राशनं कर्म भवति तत्र प्र थमप्रयोगे मातृपूजाभ्युदयिके विदध्यात् । आवसथ्याग्नौ ब्रह्मोपवेशनादिप्राशनान्ते विशेषः । नवस्थालीपाकं श्रपयित्वा आज्यभागानन्तरमाज्याहुतिद्वयं जुहोति । तद्यथा । शतायुधाय शतवीर्याय शतोतये अभिमातिषाहे । शतं यो नः शरदोऽजीजानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । इदमिन्द्राय० । ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां योज्यानिमजीजिमाव - हात्तस्मै नो देवाः परिधत्तेह सर्वे स्वाहा । इद्ध सर्वेभ्यो देवेभ्यो० । इन्द्राग्नी विश्वेदेवा द्यावापृथिवी स्थालीपाकेनाग्रयणदेवताः । इन्द्राग्निभ्यां । उपांशु । विश्वेभ्यो देवेभ्यः स्वाहा इदं विश्वेभ्यो देवेभ्यो० । उपांशु । द्यावापृथिवीभ्या स्वाहा इदं द्यावापृथिवीभ्यां ० । इति तिस्र आहुतीर्हुवा स्विष्टमग्ने अभितत् पृणीहि विश्वश्व देवः पृतना अविष्यत् । सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मद्ये - ह्यजन्न आयुः स्वाहेत्यनेन मन्त्रेण आज्याहुतिं जुहोति इदमग्नये इति त्यागः । ततः स्थालीपाकात्, अग्नये स्विष्टकृते स्वाहेति हुत्वा त्यक्त्वा च पुनः स्त्रिष्टमन इत्यादिनाऽऽज्याहुति जुहोति । इदमनय