________________
कण्डिका
तृतीयकाण्डम् । अजीजान् जीवयतु । यद्वा नोऽस्मभ्यं धान्यं जनयतु तत्र नः इति तन्त्रम् । तेन नोऽस्माकं दुरितानि दुर्व्यसनानि पापानि वा विश्वा विश्वानि सर्वाणि अतिनेषत् अतिनेष्यति । तस्मै स्वाहा सुहुतमस्तु । किंभूताय शतायुधाय शतमपरिमितान्यायुधानि यस्य तस्मै । तथा शतवीर्याय अपरिमितशक्तये । तथा शतोतये अनन्तलीलाय । तथा अभिमातिषाहे अभिमातयः अरातयः तान्सहते जयतीत्यभिमातिषाद तस्मै १ । हे सर्वे देवाः ये चत्वारः पथयः पन्थानः देवपितृमनुष्यसर्पाणां मार्गाः देवयाना देवनं क्रीडां संपादयन्तः देवादिभिर्गम्यमाना वा । अन्तरा द्यावापृथिवी द्यावापृथिव्योमध्यस्थाः। पृथ्वीशब्देनात्र पृथ्वीतलं लक्ष्यते । वियन्ति वियत्तुल्याः । अतिनिर्मला इत्यर्थः । यद्वा विविधत्वं यन्ति भिन्नत्वेनेत्यर्थः । तेषां चतुर्णी पथां मध्ये यः पन्था अजीजिमजेयत्वं परैरनभिभवनमिति यावत् । आवहात् आवहेत्प्रापयेत् । तस्मै पथे नोऽस्मान् परिधत्त परिदत्त समर्पयतेत्यर्थः । तं पन्थानमस्मान्प्रापयतेत्यर्थः इह अस्मिन्कर्मणि कृते सति । अनेन कर्मणा प्रतोषं प्राप्येत्यर्थः । किंभूतामजीजिम् । अज्यानि ज्यानिानिः हानिर्वा तद्रहिताम् । क्षेमेणाभीष्टपदप्राप्तिहेतुमित्यर्थः । युष्मभ्यं स्वाहे. त्युक्तार्थम् २ । ततश्च स्थालीपाकेनाग्रयणदेवताभ्य इन्द्राग्नी विश्वेदेवा द्यावापृथिवी इत्येताभ्यो हुत्वा जुहोत्याज्याहुति स्विष्टमग्न इति वक्ष्यमाणमन्त्रेण । स्विष्टकृते चेति स्थालीपाकास्विष्टकृद्धोमं विधाय चकारात्पुनरप्याज्याहुतिं स्विष्टमन इत्यनेनैव मन्त्रेण पूर्ववज्जुहोति । स्विष्टमग्न इति मन्त्रेण स्विष्टकद्धोमस्योभयत आज्याहुती भवत इत्यर्थः । विष्टमग्न इत्यस्यार्थः । तत्र प्रजापतिर्विराडग्निराज्यहोमे०॥ हे अग्ने प्रजापते यत् स्विष्टं स्विष्टकृते हुतं तत् अभि अभितः उभयतः आदावन्ते च पृणीहि पूर्णकुरु । देवः प्रकाशात्मा भवान् विश्वान् सकलपरिवारयुतान् अस्मान् अविष्यत् अवतु । किंभूतान् । पृतनाः सेनाः तद्वत्परिचारकानित्यर्थः । यद्वा । पृतना इति पञ्चम्यर्थे प्रथमा । तेन पृतनाभ्यः शत्रुसेनाभ्योऽस्मानवविति । किञ्च । नोऽस्माकं सुगं सुगम्यम् अचिरादिरूपं पन्यां पन्थानं प्रदिशन् ददेव एहि आगच्छ । नु एवार्थे । किंच नोऽस्मभ्यं ज्योतिष्मत् प्रकाशयुक्तं कीर्तियुक्तमित्यर्थः । अजरम् जरा रोगाद्युपद्रवः तद्रहितमायुद्धर्थेहि चिन्तय । आशंसेत्यर्थः । यद्वा । ध्येहि धेहि देहीत्यर्थः । तदा यकारोऽनर्थकः । तुभ्यं स्वाहेति । अथ महान्याहृतिहोमानन्तरम् प्राश्नाति संस्रवमग्निः प्रथम, इत्यादितन्मेस्योन इत्यन्तेन ऋगद्वयात्मकेन मन्त्रेण । अस्यार्थः । तत्र प्रजापतिः क्रमेणानुष्टपत्रिष्टभौ जाठरोग्निः संस्रवप्राशने विनियोगः । इदं हविरग्निर्जाठरः प्रथमो मुख्यः अनातु भुनक्तु । स एवाग्निः हि यतः यथा यादृशं पावनं पोषणं चेदं हविर्वेद जानाति । अतोऽस्मभ्यमोषधीम्या आरण्याच शिवाः सुखकरीः कृणोतु करोतु । किंभूतः । विश्वचर्षणिः सर्वधान्याधिपः । हे देवाः इन्द्रादयः यूयं नोऽस्मान् प्रति श्रेयः एवं नवान्नप्राशनभवमारोग्यं समनयिष्ट सम्यक् प्रापयत । किंभूतान् भद्रान भन्दनीयान् युष्मत्प्रसादेन नवान्नप्राशनार्हान् । किंच हे पितो अन्न बीहे व्यं त्वत्प्रसादप्राप्तसाम
•स्त्वा त्वां समशीमहि सम्यक् संस्कृतमेवाशीमहि अनाम । केन साधनेन त्वया अनुग्राहकेण । त्वत्प्रसाद एव तत्र कारणमित्यर्थः । किंभूतेन त्वया अवशेन पाथेयेन शम्बलेनेत्यर्थः । किंच हे पितो अन्न स त्वमस्माभिरेवं विधिना प्राशितः सन् नोऽस्मान् आविशस्व वलादिहेतुत्वेनास्मत्कुक्षि प्रविशस्व । किंच मयोऽभूः मयः सुखं तद्रूपोऽभूः भव । तथा शं कल्याणाय । शमित्यव्ययम् । तथा तोकाय अपत्याय । तथा तनुवे शरीरावयवपालनाय । स्योनः परिणामेन सुखकरः सेवनीयो वा अभूर्भव । यत्र च हुतशेषप्राशनं तत्रायं गुणविधिः । अन्नपतीयया वा । अन्नपतेन्नस्य नो देहीत्यनयर्चा वा प्राशनं कार्यम् । अन्नपतिशब्दो विद्यते यस्यां सेयमनपतीया छप्रत्ययमत्र स्मरन्ति । तत्र परमेष्ठी वृहती लिङ्गोक्ता समिदाहुतौ०। यादृच्छिकोऽयं विकल्पः । अपरे त्वाः-वाशब्दश्चकारार्थे अतः समुन्धय इति । अथ यवानां प्राशने मन्त्रविशेष उच्यते एतमिति । तत्र प्रजापतिर्जगती इन्द्रो यवान