________________
२५४
पारस्करगृह्यसूत्रम् ।
[ प्रथमा
श्रीः ॥ अनाहिताग्नेर्नवप्राशनम् ||१|| नव स्थालीपाकथं श्रपयित्वाज्यभागाविष्ट्वाज्याहुती जुहोति । शतायुधाय शतवीर्याय शतोतये अभिमातिषाहे । शतं यो नः शरदोऽजीजानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । ये चत्वारः पथयो देवयाना अन्तराद्यावापृथिवी वियन्ति । तेषां योऽज्या: निमजीजिमा वहात्तस्मै नो देवाः परिधत्तेह सर्वे स्वाहेति ॥ २ ॥ स्थालीपाकस्याग्रयणदेवताभ्यो हुत्वा जुहोति स्विष्टकृते च स्विष्टम अभित् पृणीहि विश्वांश्व देवः पृतना अविष्यत् । सुगन्नु पन्थां प्रदिशन्न एहि ज्योतिष्मद्धयेाजरन्न आयुः स्वाहेति ॥ ३ ॥ अथ प्राश्नाति । अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः | भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावशेन समशीमहि त्वा । स नोमयोऽभूः पितो आविशस्त्र शंतोकाय तनुवे स्योन इति ॥ ४ ॥ अन्नपतीयया वा ॥ ५ ॥ अथ यवानामेतमुत्यं मधुना संयुतम् ॥ यवर्ट सरस्वत्या अधिवनाय चकुषुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति ॥ ६ ॥ ततो ब्राह्मणभोजनम् ॥ ७ ॥ १ ॥
( कर्क: ) – 'अनाशनम् ' व्याख्यास्यत इति सूत्रशेषः । अनाहिताग्निरवैतानिकः | नवप्राशनमिति कर्मणो नामधेयम् । अन्वर्थसंज्ञाकरणाच्च कृत्वैतन्नवं प्राश्यते नाकृत्वा । न चैतदाश्रयणशब्दवाच्यम् अतः पौर्णमास्याममावास्यायामिति नियमो न भवति । औचित्याच्छरद्वसन्तौ तु भवतः ॥ 'नव ं‘'येति' द्वे प्रतिमन्त्रम् | 'स्थाली' 'मग्ने' इति । अतश्च स्विष्टकृद्धोमस्य पूर्व पश्चाच्च स्विष्टमन इत्याज्याहुतिहोमः । ततो महाव्याहृत्यादि । ' अथ प्राश्नाति ' अग्निः प्रथमः प्राश्नात्वित्यनेन मन्त्रेण । यत्र हुतशेषप्राशनं तत्रायं गुणविधिः । ' अन्न' वा ' प्राशनं कर्तव्यम् अन्नपतिशब्दो यस्यां 'विद्यते यमन्नपतीया छप्रत्ययं ह्यत्र स्मरन्ति । अत्र यवानां प्राशने मन्त्रमाह । 'एतमुत्यमिति' । 'ततो भोजनम्' ॥ प्रथमा कण्डिका ॥ १ ॥
( जयराम: ) - (अनाशनम्' वक्ष्यत इति सूत्रशेषः । अनाहिताग्निवैतानिक औपासनिक इति पर्याय: । तस्य नवप्राशनमिति कर्मणो नामधेयम् । अन्वर्थसंज्ञाकरणात्कृत्वैतन्नवमन्नं प्राश्यते नाकृत्वा । नन्वत्र किं नवमात्रं प्रतिषिद्धमुत कतिपयानीत्याशङ्क्य श्यामाकत्रीहियवानामेव नियमो नान्येषाम् । यथाह गृह्यसंग्रहकारः -- नवयज्ञाधिकारस्थाः श्यामाका ब्रीहयो यवाः । नाश्नीयात्तानहुत्वैवमन्येध्वनियमः स्मृतः । ऐक्षवः सर्वशुङ्गाश्च नीवाराश्चणकास्तिलाः । अकृताग्रयणोऽश्नीयान्नैषामुक्ता हविर्गुणा इति । यत्तु श्रूयते नवमात्रप्रतिषेधस्तदाहिताग्निविषयः । शरद्वसन्तयोरेव तद्भवति औचित्यात् । न चात्र पौर्णमास्यादिकालनियमः । अनाग्रयणत्वात् । 'नवर्थस्थालीपाकथं श्रपयित्वाऽऽ • ज्यभागौ इष्ट्वा आज्याहुती द्वे शतायुधायेति द्वाभ्यां मन्त्राम्यां प्रतिमन्त्रम् । अथ मन्त्रार्थः । तत्र द्वयोः प्रजापतिस्त्रिष्टुप् आद्यस्येन्द्रो परस्य विश्वेदेवा आज्यहोमे० । स इन्द्रः नोऽस्मान् शतं शरदो वर्षाणि