________________
कण्डिका }
द्वितीयकाण्डम् |
३१३.
दानमहिम्ना संदेहनिवृत्तिरित्यर्थः । केचित्तु कामिकर्त्तव्यताबोधक सूत्रार्थमन्यथा प्रोचुः | अन्यत्र पक्षादिप्रभृतिषु कामाद्भीहियवयोरित्यन्वयः । न पूर्वचोदितत्वात्संदेहः । नात्र संदेहः । यतः पूर्वचो - दितमेवैतत् पूर्व ब्रीहीन्यवान्वा हविपी इति परिभाषासूत्रे । अतो न वक्तव्यमेतत् त्रीहियवयोरेवेति । 'असं' वृत्ति: ' यावस्य चरोरसंभवाद्विनिवृत्तिः । नतु शास्त्रात् । असंभवश्चानवस्रावितान्तरेष्मपाकविशदसिद्धे तण्डुलपाके चरुशब्दप्रयोगदर्शनात् । ' क्षेत्र' घेन ' शुचौ पवित्रे । कृष्ट फालेन विलिखिते । फलस्य सस्यस्य उपरोधः बाधः । न उपरोधः अनुपरोधः । तेन क्षेत्रात्प्रागुदीच्यां वा सीतायज्ञः शुचौ कृष्टे कर्तव्यः । 'ग्रामे गात् ' वाशब्दः पूर्वोक्तपक्षव्यावृत्तौ । यः कामाकरोति तेन ग्रामे एव कर्त्तव्यः । कुतः उभयथासंप्रयोगात् कृपिं कुर्वतः क्षेत्रे इतरस्य ग्राम इति । केचित्तु ग्रामेवेत्येतत्पक्षान्तरमुपन्यस्तम् उभयं ग्रामः क्षेत्रं च अधिकरणतया संप्रयोक्तुं संबद्धुं शक्यम् । तन्मते कृपिं कुर्वत एव साग्नेरत्राधिकार: ' अविरोधात् ' व्यवस्थिताधिकरणानुष्ठानपक्षे विकल्पपक्षेप्य न्यतरोपादानं न विरोधः स्यादित्यर्थः । ' यत्रश्र 'जुहोति ' पुनर्भूसंस्कारोक्तिः कृष्टेपि प्रात्यर्था इति कर्कोपाध्यायाः, निरग्नेरप्यधिकारं सूचयितुं लौकिकाग्निप्राप्त्यर्थेत्यन्ये । साग्नेरेषामाधिक्यं संभारवदित्यपरे । अग्निस्थापनाद्याज्यभागान्ते विशेषः । तन्मित्रैर्दुमैत्रीहिकाले व्रीहिमिश्रः यवकाले यवमित्रैभैरग्नेः परिस्तरणम् अपरः अप्रकृतः सिद्धस्थालीपाक आसाद्यः तण्डुलानन्तरमुपकल्पनीयवलिपटलकं च ग्रहणे सीतायैयजायैशमायै भूत्यैजुष्टं । प्रोक्षणे त्वा । आज्यभागाविष्वाज्याहुतीर्जुहोतीत्युक्तं ता आह 'पू'थिवी'' 'य: स्वाहा' इदमिन्द्राय । यन्मे शतर्कः स्वाहा इदमिन्द्राय । सम्पत्तिवतुस्वाहा' इदमिन्द्राय । 'यस्याणि स्वाहा' इदमिन्द्रपत्न्यै । ' अश्वा.. .. "यात्स्वाहेति ' इदं ध्रुवायै । इतिशब्द: आज्याहुतिसमात्यर्थः । 'स्थाली'' त्या इति' चतस्रः आहुतीः स्थालीपाकस्य । सीतायैस्वाहा इदंसीतायै इत्यादि । ततःसिद्धपाकेन लाङ्गलयोजनदेवताभ्यः अष्टावाहुतयः । इन्द्रायस्वाहा इदमिन्द्राय । पर्जन्यायस्वाहा इदं पर्जन्याय | अश्विभ्यां स्वाहा इदमश्विभ्याम् । मरुद्रथः स्वाहा इदंमरुद्भ्यः । उदला काश्यपाय स्वाहा इदमुदलाकाश्यपाय । स्वातिकार्यैस्वाहा इदं० सीतायैस्वाहा इदं० अनुमत्यै स्वाहा इदमनुमत्यै । प्रकृताऽप्रकृतयोरुभयोः स्विष्टकृत् । अग्नये स्विष्टकृतेस्वाहा इदमग्नयेस्विष्टकृते । एताश्च देवताः सीतायज्ञेचेत्यतिदेशादन प्रधानचरुहोमानन्तरं तद्धोमः प्रधानचरुवलिदानानन्तरं बलिदानं च । ' मंत्र "पां एकेषां मते मन्त्रवत् स्वाहाकाररहितं प्रदानं देवतोद्देश्यकं प्रदानम् । तत्र हेतुमाह 'स्वाहा "अते: ' वपट्कारेण व वा स्वाहाकारेणवेत्यादौ वषट्कारसहभावः प्रतीयते प्रकृते च वषट्कारव्यतिरेकस्य स्वस'हभूतस्वाहाव्यतिरेकव्याप्तत्वान्मंत्रवत्प्रदानमितिप्राप्ते आह - विनिवृत्तिः' मन्त्रवत्प्रदानस्येति शेषः । उ पविष्टहोमाः स्वाहाकारप्रदाना जुहोतयइत्युक्तत्वात्पक्षादिप्रभृतीनां जुहोतित्वात्स्वाहाकारेण होम इत्यर्थः । महाव्याहृत्यादिदक्षिणा दानान्तम् स्विकृदन्ते । 'स्तर' रति' स्तरणावशिष्टकुशान् क्षेत्रस्य प्रतिदिशमास्तीर्य तेषु सीतागोभ्यो वलिदानं संस्कृतेन च प्रकृतचरुणा । 'पुरस्ता 'मीममिति' 'प्रकृर्ववत् ' लाङ्गलयोजनवत् प्राक्संस्थमुदकसंस्थं वा वलिकर्म बलिदानम् । तद्यथा | इन्द्रायनमः पर्जन्यायनमः अश्विभ्यांनमः मरुद्भ्योनमः उदलाकाश्यपायनमः स्वातिकायैनमः । सीतायैनमः अनुमत्यैनमः यथा देवतं त्यागाः । 'स्त्रित्वात् ' वृद्धाः स्त्रियो गृह्याः इन्द्रादीन् चलिपटल केनोपयजेरन् । बलिपटलकं च वैणवपानाधिकरणकं कुल्मापोदनम् । कुत आचरितत्वात् । प्राचीनत्रीभिर्लाङ्गलयोजनदेवताभ्यः इन्द्रादिभ्यो बलिदानस्याचरितत्वादित्यर्थः । ततः संस्त्रवप्राशनाद्युपयमनप्रक्षेपान्तम् | 'सस्थियेत्' दश ब्राह्मणान् भोजयेद्दशेति परिशिष्टात् । काण्डसमाप्तिसूचिका द्विरुक्तिः । ततो वैश्वदेवः ॥ १७ ॥ इति श्रीपण्डितनृसिहारमजपण्डित विश्वनाथकृतायां गृह्यसूत्रव्याख्यायां द्वितीयं कांड समाप्तिमगमत् ॥ २ ॥
3
I
४०