________________
३१२
पारस्करगृह्यसूत्रम् ।
[ सप्तदशी
1
इति मन्त्रेण । मन्त्रार्थ:-ये अनिमिषाः निमेपरहिताः वर्मिणः सन्नद्धाः शेषं पूर्ववत् । 'अथ पममिति ' अथाग्नेः पश्चिमायां दिशि आसुव इति वलिं ददाति । मन्त्रार्थः -- आ समन्ताद्भवाः । तानेवाह । भूतिर्भूमिः पाणिः शुनकरिरित्येवनामान: शेषं व्याख्यातम् । 'अथोत्तममिति' अयोत्तरपावें बलिं ददाति । भीमा इति मन्त्रेण । मन्त्रार्थः -- भीमाः भीपणा: जये वेगे वायुना समास्तुल्याः क्षेत्रे खले गृहे अध्वनि वा वर्तमानं त्वा त्वां गोपायन्तु शेषं समानम् । 'प्रकृ' 'कर्म' प्रकृतात्प्रधानयागदेवतासंबन्धिनः स्थालीपाकादन्यो यः सिद्धो गृहीतश्चरुस्तस्मात्स्थात्याज्येनाज्यशेषेण च पूर्ववत् इन्द्रपर्जन्यादिभ्यो लाङ्गलयोजनदेवताभ्यो वलिहरणं कार्यम् । " स्त्रियत्वात् ' ततः स्त्रियो भार्यादिका उपयजेरन् बलिहरणं कुर्युः इन्द्रादिभ्योऽन्येभ्यश्च क्षेत्रपालादिदेवताभ्यो वृद्धव्यवहारेण । कुतः आचरितत्वात् । प्राचीनाभिः कृतत्वात् बलिकर्मणः । 'सस्थियेत् ' समाप्ते स्त्रीकर्तृकवल्यनन्तरं त्रीन्त्राह्मणान्भोजयेत् । द्विरभ्यासः काण्डसमाप्तिसूचनार्थः ॥ १७ ॥ * ॥
इति श्रीत्रिरनिचित्सम्राट्स्थपतिश्रीमहायाधिकवा मनात्मजदीक्षितगदाधरकृते सूत्रभाष्ये द्वितीय काण्ड संपूर्णम् ॥ ## ||
अथ पदार्थक्रमः । प्रथमंप्रयोगे मातृश्राद्धम् ! उक्त देशे आवसथ्याग्नेः स्थापनम् । ब्रह्मोपवे - शनादिदक्षिणान्ते विशेष. | सत्यमिश्रैर्भेरनेः परिस्तरणम् । एकश्वरुः श्रप्यते । अपरः सिद्ध एव तण्डुलानन्तरमासादनीयः । उपकल्पनीयानि - बलिपटलकं शूर्पादि वैणवं पात्रम् । कुल्मापौदनयुक्तं वलिपटलकमित्युच्यते । तण्डुलोत्तरं सिद्धचरोः प्रोक्षणम् । आज्यभागान्ते पञ्चाहुतयः । पृथिवीद्यौ ० इदमिन्द्राय ० १ यन्मे० इदमिन्द्राय० २ सम्पत्ति० इदमिन्द्राय० ३ यस्याभावे० इदमिन्द्रपत्न्यै० ४ अश्वावती० इदं सीतायै० ५ ॥ प्रकृतचरुणा आहुतिचतुष्टयम् । सीतायै स्वाहा ० यजायै स्वाहा | शमायै० भूत्यै० ६॥ एवं त्यागाः । ततः सिद्धचरुणा लागलयोजनदेवताभ्यो, होमः । इन्द्राय स्वाहा ० १ पर्जन्याय० २ अश्विभ्या० ३ मरुद्भ्यः ० ४ उदलाकाश्यपाय० ५ स्वातिकायै० ६ सीतायै ० ७ अनुमत्यै स्वाहा ० ८ । स्विष्टकृदुभयोः । महाव्याहृत्यादिदक्षिणान्तम् । प्रतिदिशं प्रदक्षिणं पुरस्तात्प्रथमं येत इति प्रतिमन्त्रं चलिचतुष्यदानम् । त्यागाः । इदं सुधन्वभ्यो निपतिभ्यो० १ इदमनिमिषेभ्यो वर्मिभ्यो० २ इदमाभूभ्यः प्रभूभ्यो भूत्यै भूम्यै पायै शुनकु०, ३ इदं भीमाभ्यो वायुसमाजवेभ्यो ० ४ चरोराज्यस्य च मिश्रणम् । तेन लाङ्गलयोजनदेवताभ्य इन्द्रादिभ्योSनुमत्यन्तेभ्यो चलिहरणम् । ततो वलिपटलकेन स्त्रियश्व बलिहरणं कुर्युः इन्द्रादिभ्योऽन्येभ्यश्च क्षेत्रपालादिदेवताभ्यो वृद्धाचारेण । ततो ब्राह्मणत्रयभोजनम् ॥
॥ ॐ ॥
इति श्रीत्रिरमिचित्सनाद्स्थपतिश्री महा या शिकवा मनात्मजदीक्षितगदाधरकृते गृह्यसूत्रभाष्ये द्वितीयकाण्डे सीतायज्ञे पदार्थक्रमः ॥ समाप्तम्छेद द्वितीयकाण्डम् ॥ २ ॥ * ॥
( विश्व० ) ~~~' अथ सीतायज्ञ: ' उच्यत इति सूत्रशेषः । सचायं कृपिं कुर्वतः कृतावसन्यस्य भवति । ' व्रीहिपयेत् ' अभ्यस्तेन यत्रपदेन कालदेशरूपे अधिकरणे यत्र काले व्रीहियवयोरुत्पत्तिर्यत्र देशे चासौ यज्ञः तत्र तन्मयं वीहिकाले व्रीहिमयं यवकाले यवमयम् । 'कामा''येत् '
6
कामात् इच्छातः अन्यत्रापि उक्तरूपदेशकालौ विहाय सीतायज्ञेन ईजानः । त्रीहियवयोरित्यत्रैवकारेण द्रव्यान्तरे साधनत्वव्यवच्छेदः । ननु प्राक्सूत्रादेव तल्लाभाद्व्यर्थोऽस्यारम्भ इत्याह 'नपूर्वचो^ दितत्वात् ' इति । नन्वेतदारम्भो घटते । आसन्नसमयोत्पन्नयोत्रीहियवयोः साधनत्वावगमात्समयान्तरे च तदभावादासन्नसमयोत्पत्तिकद्रव्यान्तरसाधनत्वावगमसंदेहः। कुतः समयान्तरे त्रीहियवयोरसंभवादनुत्पत्तेरित्याह 'संदेहोऽसंभवात्' इति । विनिवृत्तिः विशेषेण कामिकार्यताबोधकसूत्रे तयोरुपा