________________
कण्डिका]
द्वितीयकाण्डम् । यात् । अतः सर्वत्र स्थालीपाको ब्रीहीणामेव । क्षेत्र “धेन' सस्ययुक्तस्य क्षेत्रस्य पूर्वस्यां दिशि उदीच्यां वा अमेध्यरहिते देशे कृष्टे सीरेण विलिखिते फलस्य सस्यस्यानुपरोधेन अवाधेनोक्ते देशे सीतायज्ञः कार्यः । 'प्रामे"धात् । अथवा सीतायज्ञो ग्रामे वा कार्यः । उभयं हि संप्रयोक्तुं शक्यते फलानुपरोधः कृष्टं च । न चात्र विरोधः। अतो वाशब्दो विकल्पार्थः । 'यत्र "स्वाहेति' यत्र क्षेत्रे प्रामे वा चरुं अपयिष्यन् भवति तत्रोपलिप्ते उद्धते उल्लिखिते अवोक्षिते जलेनाभ्युक्षिते देशेऽग्निमावसध्यमुपसमाधाय स्थापयित्वा तन्मित्रैर्दभैीहिकाले व्रीहिसस्यमिौर्यवकाले यवसस्यमित्रैर्दभैरग्निं परिस्तीर्याज्यभागयागानन्तरमाज्येन पञ्चाहुतीर्जुहोति पृथिवी द्यौरित्यादिभिः पञ्चमन्त्रैः प्रतिमन्त्रम्। उपलेपनोद्धतावोक्षितग्रणं कृष्टेऽपि पञ्चसंस्कारप्रज्ञत्यर्थम् । नेतरपरिसंख्यार्थम् । मन्त्रार्थः । पृथिव्यादि
देवतायस्मै इन्द्राय इन्द्रमुपासितुं स्थिताः। प्रदिशः दिशश्च 'किंभूताः' युभिः कान्तिभिरावृताः पूर्णाः । • तमिन्द्रम् इह यज्ञे उपह्वये समीपमाह्वये । इन्द्रस्य हेतयो वज्राद्यायुधानि शिवाः कल्याणकारिण्यः सन्तु । तस्मै च सुहुतमस्तु ॥ १ ॥ हे वृत्रहन् अस्मिन्कर्मणि सीतायज्ञे यत्किचिन्मे ममोपेप्सितमिष्टं तत्सर्वं मे मम समृष्यतां संपद्यताम् । किंभूतस्य शतं शरदो वत्सरान् जीवतः । तुभ्यं स्वाहेति सर्वत्र समानम् ॥ २॥ संपत्तिर्धनाथुपचयः। भूतिरैश्वर्यम् । भूमिराश्रयः । वृष्टिरभीटस्य । ज्यैष्ठथं जेष्ठत्वम् । श्रेष्टयं श्रेष्ठत्वम् । श्रीः प्रतिष्टासंपत्त्यादिगणः इह यज्ञे प्रीतः सन् मदीयां प्रजां पुनादिवर्गमवतु रक्षतु । इन्द्रो वा एतैर्युक्तां प्रजामवत्विति ॥ ३॥ यस्याः सीतायाः सह वैदिकलौकिकानां श्रौतस्मार्तानां कर्मणां भूतिः संपत्तिर्भवति । तामिन्द्रपत्नी सीतामुपह्वये । सा सीता मे मम अन्नपायिनी अदनीयादिवृद्धिकी कर्मणि कर्मणि प्रतिकर्म भूयात् भवतु । तस्यै स्वाहा ॥४॥ तामेव विशिनष्टि । अश्वावती अश्वादिसंपत्तिकी । एवं गोमत्यादौ । सूनृता मधुरवाक् । अतन्द्रिता सावधाना सती या प्राणभृतो जीवान् विभर्ति पुष्णाति ! किंभूता । खलमालिनी धान्यराशिवती । उर्वरा सर्वसस्यानां संपत् । तां ध्रुवां स्थिरामस्मिन्कर्मण्युपह्वये । उपहूता च सा मे मम अनपायिनी दुःखध्वंसिनी भवतु । तस्यै स्वाहा । 'स्थाली''त्या इति' सीताया इति चतुभिर्मन्नैः प्रतिमन्त्रं स्थालीपाकेन चतस्र आहुतीर्जुहोति । अवयवलक्षणा षष्ठी स्थालीपाकस्येति । 'मन्त्र""श्रुतेः। एकेषामाचार्याणां मते मन्त्रवत्प्रदानम् यथामन्त्रं होमो नतु स्वाहाकारेण । कुतः स्वाहाकारप्रदाना इति श्रुतेः । श्रुतौ हि जुहोतीनां स्वाहाकार प्रदानता श्रूयते । इदं तु स्माते फर्म । ननु वपट्कारेण वा स्वाहाकारेण वा देवेभ्योऽनं प्रदीयत इति सामान्येनोक्तरत्रापि तत्प्रवर्ततामिति चेत् । न चात्र वषट्कारप्रवृत्तिः । याज्यापुरोनुवाक्यावत्त्वे च वषट्कारप्रवणम् । तत्सहपाठास्वाहाकारोऽप्यन्त्र न प्रवर्तते । 'विनिवृत्तिः । पूर्वोक्तपक्षस्य मन्त्रवत्पदानमित्यस्य विनिवृत्तिनिरासः । स्मार्तेऽपि कर्मणि-स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । हन्तकारो मनुष्याणां स्वधाकारः स्वाधाभुजामिति कात्यायनस्मृतौ विधानात् । सीतायज्ञेचेत्यतिदेशादस्मिन्नवसरे लालयोजनदेवताभ्यः तद्भूतोपात्तेन स्थालीपाकेन होमः । स्थालीपाकहोमाधिकारात् । ततः स्विष्टकेदादि। 'स्तरण"ममिति ' अग्नेः परिस्तरणे ये कुशा ब्रीहिसस्यमिश्रा यवसस्यमिश्रा वा शेषभावमङ्गभावं प्राप्तास्त एव कूर्चाः आसनानि तेषु वलिं हरति । सीतागोप्तृभ्यः सीता लालपद्धतीयें गोपायन्ति पालयन्ति ते सीतागोतारस्तेभ्यः । तत्र पुरस्तात्प्राच्यां ये त आसत इति मन्त्रेण । मनार्थ:-हे सीते ये देवाः सुधन्वानः शोभनधनुष्मन्तः निषङ्गिणः सतूणीराः ते तव पुरस्तात् आसते तिष्ठन्ति ते त्वां पुरस्तात्माच्यां दिशि गोपायन्तु रक्षन्तु । किंभूताः अप्रमत्ताः सावधानाः । अनपायिनः कष्टहराः । अहं चैषां नमस्करोमि । बलिमेवमेभ्यो हरामि ददामि। 'अथ द"ममिति । अथ पुरस्तावल्यनन्तरमग्नेर्दक्षिणपाचे कूचेषु बलिं हरति । अनिमिषा