________________
३१० पारस्करगृह्यसूत्रम् ।
[सप्तदशी स्वाहा इदमिन्द्राय० । यन्मे किंचिदुपेप्सितमस्मिन्कर्मणि वृत्रहन् । तन्मे सर्वठ- समृध्यता जीवतः शरदः शत; स्वाहा । इदमिन्द्राय० । संपत्तिर्भूतिभूमिवृष्टिज्यैष्ठपर्छ श्रेष्ठयॐ श्रीः प्रजामिहावतु स्वाहा । इदमिन्द्राय० । यस्या भावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्लीमुपह्वये सीता; सा मे त्वन्नपायिनी भूयात्कर्मणि कर्मणि स्वाहा । इदमिन्द्रपल्यैः । अश्वावती गोमती सूनृतावती विभर्ति या प्राणभृतो अतन्द्रिता । खलमालिनीमुवरामस्मिन्कर्मण्युपह्वये ध्रुवाठ सा मे वनपायिनी भूयात्स्वाहा । इदं सीतायै० । अथ प्रकृतस्य स्थालीपाकस्य चतस्र आहुतीर्जुहोति । यथा सीतायै स्वाहा इदं सीतायैः यजायै स्वाहा इदं यजायै० शमायै स्वाहा इदं शमायै० भूत्यै स्वाहा इदं भूत्यैः । अथ सिद्धेन स्थालीपाकेन लाङ्गलयोजनदेवताभ्योऽष्टाहुतीर्जुहोति । यथा इन्द्राय स्वाहा इदमिन्द्रायः पर्जन्याय स्वाहा इदं पर्जन्याय० अश्विभ्याई स्वाहा इदमश्विभ्यां० मरुद्भ्यः स्वाहा इदं मरुयो० उदलाकाश्यपाय स्वाहा । इदमुदलाकाश्यपाय० स्वातिकाय स्वाहा इदं स्वातिका3० सीतायै स्वाहा इदं सीतायै० अनुमत्यै स्वाहा० इदमनुमत्यैः । यथादैवतं त्यागः । प्रकृतासिद्धान्नचरोः खिष्टकृत् । ततो महाव्याहृत्यादि ब्रह्मणे दक्षिणादानान्तं कृत्वा क्षेत्रस्य पुरस्तादारभ्य प्रतिदिशं स्तरणशेषकुशतृणान्यास्तीर्य तेषु मुख्येन चरुणा यथास्तरणं वक्ष्यमाणमन्त्रैवेलीन् हरति । यथा पुरस्ताद्ये त आसते सुधन्वानो निषशिणः । ते त्वा पुरस्ताद्गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं चलिमेभ्यो हरामीममिति पुरस्ताद्वलिहरणमन्त्रः । इदं सुधन्वभ्यो निषङ्गिभ्यो० । अथ दक्षिणतोऽनिमिषा वर्मिण आसते । ते त्वा दक्षिणतो गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति दक्षिणतो चलिहरणमन्त्रः । इदमनिमिषेभ्यो वर्मिभ्यो। अथ पश्चादाभुवः प्रभुवो भूतिभूमिः पाणिः शुनङ्कुरिः । ते त्वा पश्चागोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति पश्चिमतो वलिहरणमन्त्रः । इदमाभूभ्यः प्रभूभ्यो भूत्यै भूम्यै पाण्य शुनकुय० । अथोत्तरतो भीमा वायुसमा जवे । ते त्वोत्तरतः क्षेत्रे खले गृहेऽध्वनि गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति उत्तरतो वलिहरणमन्त्रः । इदं भीमेभ्यो वायुसमाजवेभ्यो० । अथ सिद्धचरुशेषं स्थाल्येनाज्यशेषेण सन्नीय तेनेन्द्रादिभ्योऽनुमत्यन्तेभ्यो लाङ्गलयोजनदेवताभ्यो वलीन हरति । ततो बलिपटलकेन स्त्रियश्चन्द्रादिभ्यो हलयोजनदेवताभ्यः अन्येभ्यश्च वृद्धव्यवहारसिद्धेभ्यः क्षेत्रपालादिभ्यो वलिदानं फुर्युः । ततो ब्राह्मणान् भोजयेत् ।
इत्यग्निहोत्रिहरिहरविरचितायां पारस्करगृह्यसूत्रव्याख्यानपूर्विकायां।
प्रयोगपद्धतौ द्वितीयः काण्डः समाप्तः॥ ॥ * ॥ (गदाधरः)-अथ सीतायज्ञः' व्याख्यास्यत इति सूत्रशेषः । सीतायज्ञ इति कर्मनाम । स चायं कृषिप्रवृत्तस्य साग्नेर्भवति । 'व्रीहि 'येत् ' ब्रीहयश्च यवाश्च व्रीहियवाः । तेषां मध्ये यत्र यत्र यस्मिन् यस्मिन्काले ब्रीहिकाले यवकाले वा सीतायज्ञेन यजेत तत्र तन्मयं व्रीहिकाले ब्रीहिमयं यवकाले यवमयं स्थालीपार्क चरं अपयेत् । 'कामा "येत् । कामादिच्छया अतोऽन्यत्रापि ईजानो यागं कुर्वन् पक्षादिप्रभृतिषु ब्रीहियवयोरेवान्यतरं स्थालीपार्क अपयेत् । 'न पू"न्देहः' व्रीहियवयोरन्यतरस्य यागसाधनत्वे नैव संदेहः । कुतः ? परिभाषासूत्रे ब्रीहीन यवान्वा हविपी इति पूर्व चोदितत्वात् पूर्वमुपदिष्टत्वात् । अतोऽर्थादपि च ब्रीहिभिर्यवैर्वा यागः प्राप्नोतीति न वक्तव्यमेतत् । ननु यावस्य चरोविनिवृत्तिदर्शनात्कथमन्यतरं चरुं अपयेत्तत्राह-'असं'"वृत्तिः । थावस्य चरोरसंभवाद्विनिवृत्तिरघस्तनस्य शास्त्रान्तरस्य तेन यवानां स्थालीपाकं कुर्यादिति पुनरारम्भः । असंभवधानवस्रावितान्तरोष्मपाकविशदविषयसिद्धे तण्डुलपाके चरशब्दस्य प्रयोगप्रत्य