________________
कण्डिका]
द्वितीयकाण्डम् । ध्यते अविरोधात् । ननु क्षेत्रग्रामयोः एकतरोपादानेन अन्यतरस्य बाधः प्रसज्येत ततो विरोध इति चेत् न । ' अविरोधात् ' ने विरोधः अविरोधस्तस्मादविरोधात् विकल्पादेकतरोपादानं न दोषः । व्यवस्थासंभवे हि अष्टदोषदुष्टोऽपि विकल्प आधीयते न्यायविनिः । 'यत्र "होति । यत्र क्षेत्रे ग्रामे वा चरुं श्रपयिष्यन् भवति श्रपयितुमिच्छा भवति तत्र उपलिते गोमयोदकेन उद्धते. स्फ्येनोल्लिखिते अवोक्षिते मणिकोदकेन सिक्ते अग्निमावसथ्यं स्थापयित्वा । अत्र पुनरुपलेपनाद्युपदेशः कृष्टेऽपि प्राप्त्यर्थः न पुनः परिसमूहनोद्धरणनिवृत्त्यर्थः । तन्मित्रैर्दभैःस्तीर्खा तै/हिभिर्यवैर्वा मिश्रा मिलिता दर्भास्तैस्तन्मित्रैर्दभैरग्निं स्तीत्वापरिस्तीर्य आज्यभागयागानन्तरं वक्ष्यमाणमन्त्रैः पृथिवी द्यौरित्यादिभिः पञ्चभिर्मन्त्रैः क्रमेण पञ्चाज्याहुतीर्जुहोति । 'स्थाली 'केपाम् ' स्थालीपाकस्येत्यवयवलक्षणा षष्ठी । तस्य सीताद्याभ्यश्चतसृभ्यो देवताभ्यश्चतस्र आहुतीः क्रमेण तन्नामभिरेव चतुर्थ्यन्तैः स्वाहाकारान्तैश्च जुहोति । एकेषामाचार्याणां मते मन्त्रवदेव प्रदानम् होमः न स्वाहाकारः । किं कारणम् 'स्वाहा "श्रुतेः' स्वाहाकारेण प्रदानं येषु ते स्वाहाकारप्रदानाः जुहोतयः इति श्रुतेः श्रुतौ श्रौतकर्मणि स्वाहाकारप्रदानत्वम् इदं तु स्माते कर्म ॥ वषट्कारेण वा स्वाहाकारेण वा देवेभ्योऽन्नं प्रदीयते इति सामान्यवचनात् गायेऽपि प्रवर्ततामिति चेत् नचान वषट्कारस्य प्रवृत्तिः किमिति याज्यापुरोनुवाक्यावत्वे वषट्कारस्य श्रवणात् ।तेन सह पाठाच स्वाहाकारोऽप्यत्र निवर्तते । 'विनिवृत्तिः । मन्त्रवत्प्रदानमित्येतस्य पक्षस्य विनिवृत्तिः निरासः अप्रवृत्तिरिति यावत् । कुतः स्माते. ऽपि कर्मणि स्मृतिकारैः स्वाहाकारस्य विधानात् । तत् यथा छन्दोगपरिशिष्टे कात्यायनः-स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । हन्तकारो मनुष्याणां स्वधाकारः स्वधाभुजामिति ॥ अथ सीतायज्ञ इत्यनेन सूत्रेणातिदिष्टाभ्यो लाङ्गलयोजनदेवताभ्यः तद्भूतोपात्तस्थालीपाकेनास्मिन्नवसरे जुहुयात् । कुतः ततः स्थालीपाकहोमाधिकारात् । ततः स्विष्टकृदादि । ' स्तर""आसत इत्यादि। तत्र पुरस्ताद्य इत्यादिभिश्चतुभिर्मन्त्रैः स्तरणे शेषभावमुपसर्जनत्वं गताः प्राप्ताः त एव कुशास्तेषु स्तरणशेषकुशेषु बलिं हरति केभ्यः सीतागोप्तृभ्यः सीवा लालपद्धतिः ताः गोपायन्ति पालयन्ति ये ते सीतागोप्तारस्तेभ्यः सीतागोप्तृभ्यः [ स्तरणशेषकूर्चाः ] प्राच्यादिषु चतसृषु दिक्षु यथालिङ्गम् । 'प्रकृ'कर्म' प्रकृतात्प्रधानदेवतासंबन्धिनो त्रैह्याद्यावाद्वा स्थालीपाकात् अन्यो यः सिद्धोपात्तश्चरुस्तस्मात् स्थाल्येनाज्यशेषेण च पूर्ववत् लामलयोजनवत् बलिकर्म इन्द्रपर्जन्यादिभ्यो बलिहरणं कर्तव्यम् । स्त्रिय' "त्वात् । स्त्रियश्च भार्यादिकाः उपयजेरन् बलिकर्मणा ताभ्य एव देवताभ्यः पूजां कुर्युः । कुत एतत् आचरितत्वात् । प्राचीनाभिः स्त्रीभिर्बलिकर्मणः कृतत्वात् । 'स.."जयेत् । संस्थिते समाप्ते सीतायज्ञाख्ये कर्मणि ब्राह्मणान् विप्रान् त्रिप्रभृतीन् भोजयेत् आशयेद्रक्ष्यभोज्यादिभिः । द्विरुक्तिरत्र काण्डसमाप्तिनिबन्धना ॥ इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । अथ सीतायज्ञः । कृषि कुर्वतः साग्नेः व्रीहिनिष्पत्तिकाले यवनिष्पत्तिकाले च भवति । तत्र प्रथमप्रयोगे .मातृपूजाभ्युदयिके भवतः । अनन्तरं क्षेत्रस्य पूर्वत उत्तरतो वा कृष्टे शुचौ देशे यत्र सस्यानि न नश्यन्ति तत्रेदं कर्म कुर्यात् । यद्वा ग्रामे पूर्वत उत्तरतो वा शुचिदेशस्य कर्षणं विधाय तत्र कर्तव्यम् । एवं देशद्वयान्यतरे देशे पञ्च भूसंस्कारान् कृत्वा औपासनाग्निमुपसमाधाय ब्रह्मोपवेशनादि कुर्यात् । तत्र विशेषः व्रीहिकाले ब्रीहिसस्यमित्रैर्दभैरग्निं परिस्तृणाति यवकाले यवसस्यमित्रैः तत्र व्रीहिकाले ब्रीहिमयमेकमेव चरुं यवकाले यवमयं अपयति । अपरं स्थालीपाकं सिद्धमेवासादयति तण्डुलानन्तरमुपकल्पयति बलिपटलकं, बलिपटलकमिति शूर्पादिकं वैणवं पात्रं कुल्माषौदनयुक्तमुच्यते । तण्डुलानन्तरं सिद्धं चरुं प्रोक्षति । आज्यभागानन्तरं पञ्चाज्याहुती र्जुहोति तद्यथा पृथिवी द्यौः प्रदिशो दिशो यस्मै शुभिरावृताः। तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः