________________
३०८ पारस्करगृह्यसूत्रम्
[सप्तदशी न चात्र वषट्कारप्रवृत्तिः । याज्यापुरोनुवाक्यावत्त्वे हि वपटकारश्रवणम् । तत्सहपाठात्स्वाहाकारोऽप्यत्र न प्रवर्तते । तत्र विनिवृत्तिः मन्त्रवत्पदानपक्षस्य निरासः । कुतः ।.स्मातेंऽपि कर्मणि स्वाहाकारप्रदानत्वस्य विधानात् । तद्यथा छन्दोगपरिशिष्टे कात्यायनः-स्वाहाकारवषट्कारनमस्कारा दिवौकसाम् । हन्तकारो मनुष्याणां स्वधाकारः स्वधाभुजामिति । अत्रावसरे सीतायज्ञे चेति सूत्रातिदिष्टाभ्यो लाइलयोजनदेवताभ्य इन्द्रादिभ्यस्तद्भूतोपादानात्तेन स्थालीपाकेन होमः स्थालीपाकहोमाधिकारात् । ततश्च स्विष्टकदादि । स्तरणशेपकूचेंषु सीतागोप्तृभ्यो बलिट. हरति पुरस्तायेतआसते इत्येवमादिभिर्मन्त्रैः प्रतिमन्त्रम् । स्तरणे शेपभावं गतास्त एव कूर्चास्तेपु वलिहरणम् । अथ मन्त्रार्थः । तत्र चतुर्णी परमेष्ठी यजुः लिङ्गोक्ता वलिहरणे । हे सीते ये देवाः सुधन्वानः शोभनधनुष्मन्तः निषङ्गिणः सतूणीराः ते तव पुरस्तात्पूर्वभागे आसते तिष्ठन्ति ते त्वा त्वां पुरस्तात्याच्यां दिशि गोपायन्तु रक्षन्तु । गुपूधूपविच्छिपणिपनिभ्य आय इत्यायप्रत्ययः । किंभूताः अप्रमताः सावधानाः । अनपायिनः कटहराः । अहं चैपां देवानां देवेभ्यो नमस्करोमि । वलिं चेममेभ्यो हरामि इति । अथ एवं दक्षिणतस्तव दक्षिणपाधै ये अनिमिपाः निमेपमकुर्वाणाः वर्मिणः संनद्धाः । शेष समानम् । अथैवं पश्चात्पश्चिमायां दिशि । आभुव: आसमन्ताद्भवाः प्रभुवः प्रकृप्टेन भवाः । तानेवाह । भूतिभूमिः पाणिः शुनकुरिरित्येवंनामानः । शेष समानम् । अथैवमुत्तरतः उत्तरपार्श्वे भीमाः भीपणाः । जवे वेगे वायुना समास्तुल्याः । क्षेत्रे खले गृहे अध्वनि वा वर्तमानं त्वा त्वां गोपायन्तु । शेष समानम् । एवं मन्त्रलिङ्गाचतस्पु दिक्षु बलिदानम् । प्रकृतात्प्रधानदेवतासंवन्धिनो त्रैह्याद्यावाद्वा स्थालीपाकादन्यो यः सिद्धः पाकश्वरस्तस्मात् । स्थाल्येनाज्यशेषेण च पूर्ववत् लाङ्लयोजनवत् इन्द्रं पर्जन्यमित्यादिभ्यो वलिहरणम् । त्रियश्वाचरितत्वादाचाराद्वलिकर्म कुर्युः । सर्भस्थिते कर्मणि ब्राह्मणान् भोजयेत् ॥ १७ ॥
इत्याचार्यवलभद्रसुतजयरामकृते गृह्यभाष्ये सज्जनवल्लभाख्ये द्वितीयकाण्डविवरणं समाप्तिमगमत् ॥ * ॥
(हरिहरः)-अथ सीतायज्ञः' अथेदानीं सीतायज्ञकर्म व्याख्यास्यत इति शेपः । तत्र कृषिप्रवृत्त औपासनिकोऽधिक्रियते । 'व्रीहि 'येत् । तत्र सीतायने ब्रीहयश्च यवाश्च व्रीहियवास्तन्मध्ये यत्र यत्र यस्मिन् यस्मिन् व्रीहिकाले यवकाले वा यजेत सीतायज्ञेन तत्र तत्र तन्मयं व्रीहिमयं ब्रीहिकाले यवमयं यवकाले स्थालीपाकं चलं अपयेत् । 'कामा 'येत् ' कामात् इच्छातः अन्यत्रापि पक्षादिप्रभृतिषु ईजानो यागं कुर्वन् व्रीहियवयोरेवान्यतरं स्थालीपाकं अपयेत् । 'न पू"न्देहः । अत्र व्रीहियवयोरन्यतरस्य यागमात्रसाधनद्रव्यत्वे न संदेहः । कुतः पूर्वचोदितत्वात् पूर्वोपदिष्टत्वात् । कुत्रेति चेत् ब्रीहीन यवान्वा हविषी इत्यत्र कल्पे अतो न संदेहः । 'असं': 'वृत्तिः' ननु यावस्य चरोविनिवृत्तिदृश्यते कथमन्यतरं स्थालीपाकं अपयेदिति चेत् उच्यते-यावचरोर्या विनिवृत्तिः सा असंभवात् न शास्त्रात् अतो नायमसंभवविनिवृत्तस्य यावस्य चरोः प्रतिप्रसवः । यतः सामान्यशास्त्रविहितं कचिच्छास्त्रान्तरेण प्रतिपिद्धं पुनर्विधीयमानं हि प्रतिप्रसवमुच्यते । इदं त्वसंभवात्प्रतिपिद्धम् । कथमसंभव इतिचेत् अनवस्रावितान्तरोष्मपके ईपदसिद्धे तण्डुलपाके चरशब्दप्रयोगप्रत्ययात् । अतो वाचनिको यावस्थालीपाको यत्र तत्र गुलिकाभिः संपाद्यते यत्र पुनविकल्पः तत्रासंभवाद्विनिवृत्तिरिति । 'क्षेत्र 'धेन' क्षेत्रस्य सस्यवतः पुरस्तात् पूर्वस्यां दिशि उन्तरतो वा उदीच्यां वा शुचौ अमेध्यद्रव्यरहिते देशे कृष्टे फालेन विलिखिते फलस्य सस्यस्य अनुपरोधः अवाधः फलानुपरोघस्तेन फलानुपरोधेन सीतायज्ञः कर्तव्यः । 'ग्रामे गात् । यदा ग्रामे कर्तव्यः कुतः उभयसंप्रयोगात् । उभयं क्षेत्रं ग्रामश्च संप्रयोक्तुमधिकरणतया संवोढुं शक्यते फलानुपरोधेन कृष्टत्वेन वा । पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे इति ग्रामस्यापि विशेषणत्वेन संव