________________
कण्डिका] द्वितीयकाण्डम् ।
३०७ मन्त्रेण । ' अथ पश्चादाभुवः प्रभुवः' इत्यनेन मन्त्रेण । 'अथोत्तरतो भीमा वायुसमा जवे०' इत्यनेन मन्त्रेण । 'प्रकृ'कर्म' कर्तव्यम् । 'त्रियत्वात् ' खियश्च बलिकम कुयुः । कुत एतत् आचरितत्वात् आचरन्ति हि स्त्रियो बलिकर्म । सस्थि ' ''जयेत् ॥ १७॥
। इति श्रीककर्कोपाध्यायकृतौ गृह्यसूत्रभाष्ये द्वितीयकाण्डविवरण संपूर्णम् ॥ * ॥
(जयरामः )-' अथ सीतायज्ञः ' व्याख्यास्यत इति सूत्रशेषः । स चायं कृष्यभिप्रवृत्तस्यैव साग्नेर्भवति यत्र यत्रापि ब्रीहियवयोरेवान्यतरछस्थालीपाकळअपयेत् ब्रीहिकाले ब्रैहेयं यवकाले यावम् । अतोऽन्यत्रापि यागं कुर्वन् पक्षादिप्रभृतिषु ब्रीहियवयोरेवान्यतरमिच्छया स्थालीपाकं अपयेत् । नैवात्र संदेहः । पूर्वचोदितत्वात् ब्रीहीन यवान्वा हविषी इति श्रौतेपूक्तत्वात् ब्रीहियवयोरिति । असंभवादिति' यावस्य चरोरसंभवाद्विनिवृत्तिरधस्तनसूत्रस्य तेन पुनरयमारम्भः । यदा ननु यावस्य चरोविनिवृत्तिदर्शनात्कथमेकतरं अपयेत् तत्राह । असंभवादिति । यावस्य चरोविनिवृत्तिः सा चासंभवात् नतु शास्त्रतः असंभवश्चानवस्रावितान्तरोमपाकविशदसिद्धे तण्डुलपाके चरुशब्दप्रयोगदर्शनात् । क्षेत्रस्य पुरस्तात्पूर्वस्यां दिशि कृष्टे फालेन विलिखिते फलानुपरोधेन सस्याविनाशेन विधिना कार्यः । ग्रामे वा कर्तव्यः । उभयसंप्रयोगात् उभयं हि फलानुरोधः कृष्टं च संप्रयोक्तुं शक्यम् । न चात्रविरोधः एकतरोपादानेऽपरस्य बाधापत्तेः । [ तन्मिश्रे व्रीहिकाले विकल्पस्य विद्यमानत्वात् अत्रापि कृष्ट एव (1)] उपलेपनादिग्रहणं कृष्टेऽपि च यथा स्यादिति । तन्मित्रैः व्रीहिकाले श्रीहिशष्पमित्रैः यवकाले यवशष्पमित्रैः स्तरणम् । आज्याहुतीः पृथिवीत्यादिपञ्चभिर्मन्त्रैः क्रमेण पञ्च । अथ मन्त्रार्थः । तत्र पञ्चानां प्रजापतिः आद्ययोरनुष्टुप् तृतीयादिषु प्रतिष्ठापतिजगत्यः लिङ्गोका आज्यहोमे० । पृथिव्यादिदेवता यस्मै इन्द्राय इन्द्रमुपासितुं स्थिताः । प्रदिशो विदिशः । किंभूताः द्युमिः कान्तिभिरावृताः पूर्णाः । तमिन्द्रमिह सीतायज्ञे उपह्वये उपह्वानं करोमि । उपहूतस्येन्द्रस्य हेतयो वजाद्यायुवानि शिवाः कल्याणकारिण्यः सन्तु तस्मै च स्वाहा सुहुतमस्तु ॥१॥ द्वितीयस्यार्थः हे वृत्रहन् अस्मिन्कर्मणि सीतायज्ञे यत्किचिन्मे ममोपेप्सितं प्राप्नुमिष्टं तत्सर्वं शतं शतं शरदो वत्सरान् जीवतः समृध्यताम् समृद्धिप्रागुताम् । तुभ्यं स्वाहेति समानं सर्वत्र ॥२॥ तृतीयस्यार्थः प्रजापतिः प्रतिष्ठा लिड्डोक्ता आज्यहोमे० । संपत्तिर्धनाशुपचयः । भूतिरैश्वर्यम् । भूमिराश्रयः । वृष्टिरभीष्ठवर्षणम् । ज्येष्ठतादिना ज्येष्ठत्वम् । श्रेष्ठयं सर्वोपकारित्वम् । श्रीयते सेव्यते सर्वैरिति श्रीः लागलपद्धतेः प्रतिष्ठासंपत्त्यादि गणः इह प्राप्तः -सन् मदीयां प्रजा पुत्रादिकमवतु रक्षतु ! इन्द्रो वा एतैर्युक्तां प्रजामवस्विति ॥ ३॥ चतुर्थस्यार्थः । यस्याः सीतायाः सद्भावे वैदिकलौकिकानां औतस्मातकर्मा भूति: संपत्तिर्भवति तामिन्द्रपत्नी सीतामुपहये सा सीता मे मम अन्नपायिनी अदनीयादिवृद्धिकारिणी कर्मणि कर्मणि प्रतिकर्म तु विशेषात् भूयात् भवतु इति। तस्यै स्वाहा ।।४।। तामेव विशिनष्टि । अश्वावती अश्वाः विद्यन्ते यस्यां साऽश्ववती सैवाश्वावती । दीर्घश्छान्दसः । गावो विद्यन्ते यस्यां सा गोमती । सूनृतं मधुरवाक्यं तिष्ठति यस्यां सा सूनृतवती सैव सुनृतावती । प्राणभृतोऽशेषजीवान् विभर्ति पुष्णाति । अतन्द्रिता आलस्यरहिता सती । खलमालिनी खले धान्यराशिस्थाने मालते शोभते इति खलमालिनी ताम् उर्वरां सर्वसस्यान्यां ध्रुवां स्थिराम् ता सीतां अस्मिन्कर्मण्युपह्वये । सा मे अनपायिनी दुःखध्वंसिनी तु विशेषात् भूयात्स्वाहेति । स्थालीपाकस्येत्यत्रावयवलक्षणा षष्ठी । सीतायै यजायै शमायै भूत्यै इति चतन आहुतीर्जुहोति । एकेषामाचार्याणां मते मन्त्रवत्प्रदानं भवति यथामन्त्रं होमो नतु स्वाहाकारेण । कुतः स्वाहाकारप्रदाना इति श्रुतेः । श्रुतौ जुहोतीनां स्वाहाकारप्रदानता श्रूयते इदं तु स्मात कर्म । ननु वषट्कारेण वा स्वाहाकारेण वा देवोभ्योऽनं प्रदीयत इनि सामान्योक्तेरत्रापि प्रवर्ततामिति चेत् ।