________________
३०६ पारस्करगृह्यसूत्रम् ।
[ सप्तदशी लीपाकस्य जुहोति सीतायै यजायै शमायै भूत्या इति ॥ १० ॥ मन्त्रवप्रदानमेकेषाम् ॥ ११ ॥ स्वाहाकारप्रदाना इति श्रुतेविनिवृत्तिः ॥१२॥ स्तरणशेष[ कुशे कूर्चे ]षु सीतागोप्तृभ्यो बलिर्छ हरति पुरस्ताद्ये तआसते सुधन्वानो निषङ्गिणः । ते त्वा पुरस्तागोपायन्त्वप्रमत्ता अनपायिनो नम एषां 'करोम्यहं बलिमेभ्यो हरामीममिति ॥ १३ ॥ अथ दक्षिणतोऽनिमिषा वर्मिण
आसते । ते त्वा दक्षिणतो गोपायन्त्वप्रमता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीमामेति ॥ १४ ॥ अथ पश्चात् आभुवः प्रभुवो भूतिभूमिः पाणिः शुनकुरिः । ते त्वा पश्चागोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति ॥ १५ ॥ अथोत्तरतो • भीमा वायुसमा जवे । ते त्वोत्तरतः क्षेत्रे खले गृहेऽध्वनि गोपायन्त्वप्रमत्ता
अनपायिनो नम एषां करोम्यहं बलिमेभ्यो हरामीममिति ॥ १६॥ प्रकृतादन्यस्मादाज्यशेषेण च पूर्ववद्वलिकर्म ॥ १७ ॥ स्त्रियश्चोपयजेरन्नाचरितत्वात् ॥ १८ ॥ सस्थिते कर्मणि ब्राह्मणान्भोजयेत्सस्थिते कर्मणि ब्राह्मणान्भोजयेत् ॥ १९ ॥ १७ ॥ ॥७॥
(कर्कः)-अथ सीतायज्ञः' व्याख्यास्यत इति सूत्रशेषः । स चायं कृष्यादिप्रवृत्तस्यैव भवति । 'ब्रीहि "येत् ' ब्रीहिकाले ब्रीहीन यवकाले यवान् । 'कामा 'येत् । ततोऽन्यत्रापि यागं कुर्वन्पक्षादिप्रभृतिषु ब्रीहियवयोरेवान्यतरमिच्छया स्थालीपाकं अपयेत् । 'न पू"संदेहः' नैवात्र संदेहः पूर्व चोदितमेवैतत् ब्रीहीन यवान्वा हविपी इति । अतो न वक्तव्यमेतत् । असं "निवृत्तिः । यावस्य चरोरसंभवाद्विनिवृत्तिरघस्तनस्य शास्त्रान्तरस्य तेन पुनरारम्भः । अनवस्रावितान्तरोष्मपाकविशदविषयसिद्ध तण्डुलपाके चरुशब्दस्य प्रयोगप्रत्ययादिति । क्षेत्र''रोधेन ' कर्तव्यः । 'ग्रामे"गात् । ग्रामे वा कर्तव्यम् । उभयं हि संप्रयोक्तुं शक्यते । फलानुपरोधः कृष्टं च न चात्र विरोधः । अतो वाशब्दो विकल्पार्थः । 'यत्र "होति । उपलेपनोद्धतावोक्षितग्रहणं कृष्टेऽपि यथास्यादिति । तन्मित्रैर्दमः स्तरणं कर्तव्यम् । व्रीहिकाले ब्रीहिसस्यमित्रैर्यवकाले यवसस्यमित्रैः स्तरणम् । आज्यभागोत्तरकालमाज्याहुतीर्जुहोति । 'पृथि "दिश ' इत्यादि 'स्थालीपाकस्य जुहोति' इत्यन्तम् । स्थालीपाकस्येत्यवयवलक्षणा षष्ठी। 'सीता'""केषाम् । एकेषामाचार्याणां मतं मन्त्रवदेव प्रदानं भवति न स्वाहाकारेण । स्वाहा'"श्रुतेः । श्रुतौ तु स्वाहाकारप्रदानता । वषट्कारेण वा स्वाहाकारेण वा देवेभ्योऽनं प्रदीयत इति न चात्र वपद्कार: प्रवर्तते । याज्यापुरोनुवाक्यत्वे हि वषट्कारस्य श्रवणम् । तस्मात्स्वाहाकारोऽप्यन्त्र (न) भवति । विनिवृत्तिरधस्वनस्य पक्षस्य मन्त्रवत्पदानभित्यस्य । अस्मिनवसरे लागलयोजनदेवताभ्यस्तद्भूतोपादानात्तेन स्थालीपाकेन होमः स्थालीपाकहोमाधिकारात । ततः स्विष्टकदादि । 'स्तर"आसत०' इत्येवमादिमिर्मन्त्रैः । स्तरणे ये शेषभावं गतास्त एव कुशास्तेषु वलि हरति पुरस्ताद्ये त आसत इत्येवमादिभिर्मन्त्रैः । अथ 'सते। इत्यनेन