________________
hosar ]
द्वितीयकाण्डम् |
३०५
1
( विश्व०' ) ~ 'आश्व'''तका: ' कर्मनामधेयं प्रपातका इति । तदाश्वयुज्यां पौर्णमास्यां भवति कर्तव्यतामाह---'पाय'' चेति' । मातृपूजाभ्युदयिके कृत्वा ब्रह्मासनास्तरणाद्याज्यभागान्ते विशेषः । आसादने दक्षिणाया: प्रागधिमधुघृतानामासादनं पयसश्च । चरुग्रहणे इन्द्राय जुष्टं गृहामि । प्रोक्षणे त्वाशब्दः । आज्यभागानन्तरं पायसं स्थालीपाकं दधिमधुघृतैर्मिश्रयेत् । तादृशं काभ्यो जुहोतीत्यत उक्तम् इन्दायेन्द्राण्या इत्यादि । तद्यथा । स्थालीपाकैकदेशहोमः । इन्द्राय स्वाहा इदमिन्द्राय । इन्द्राण्यै स्वाहा । इदमिन्द्राण्यै । अश्विभ्या स्वाहा इदमश्विभ्याम् । आश्वयुज्यै पौर्णमास्यै स्वाहा इदमाश्वयुज्यै पौर्णमास्यै । शरदे स्वाहा इदं शरदे । अभये स्विष्टकृते स्वा० इदमप्रये स्विष्टकृते । ' प्राशस्वाहेति ' पृषातकं पृषदाज्यं दधिपदात्पयः । तथाच पयसा मिश्रितं पृषदाज्यं संहताङ्गुलिनाञ्जलिना मनुष्यतीर्थेन जुहोति, ऊनं मे पूर्यतामिति मन्त्रेण । इदमग्नय इति त्यागः । ततो महाव्याहृत्यादिदक्षिणादानान्तम् । प्राशनान्त इत्यस्य सूत्रावयवस्याचार्यमते उत्तरसूत्रसंवन्धात् । यन्मते यथाश्रुतं तन्मते दक्षिणादानान्ते दधिवातकहोम: । ' दधिवाकेन ' ततो दक्षिणादानान्ते दधिमधुघृतानां चरौ प्रक्षेपः । तैर्मिश्रितं चरुममात्याः यजमानगृह्याः पुत्रादयः आयात्विन्द्रइत्यनुवाकेन यूयंपातस्वस्तिभिः सदान इत्यन्तेन अवेक्षन्ते । अनुवाकान्ते अवेक्षणं मन्त्रातैः कर्मादिरित्युक्तेः । ततो वर्हिर्होमादिब्राह्मणभोजनान्तम् । तदनन्तरं वैश्वदेवः । 'मातृ ' 'रात्रिं ' पृषातकाकर्ता तामाश्वयुजीं पौर्णमासीं रात्रीमभिव्याप्य वत्सानात्मनो मातृभिः संसृज्य स्थातव्यम् । ' आग्रणींच ' आग्रहायणी चेत्कर्म कृतं तदा तस्यामपि रात्रौ मातृभिर्वत्सान् संसृजेदित्यर्थः । अयं च वत्ससंसर्गः कर्माङ्गम् ।' ततो "जनं ' समाप्ते कर्मणि प्रातरित्यर्थः । षोडशी कण्डिका ॥ १६ ॥
अथ सीतायज्ञः ॥ १ ॥ व्रीहियवानां यत्र यत्र यजेत तन्मय स्थालीपाकथं श्रपयेत् ॥ २ ॥ कामादीजानोऽन्यत्रापि ब्रीहियवयोरेवान्यतरखं स्थालीपाकं श्रपयेत् ॥ ३ ॥ न पूर्वचोदितत्वात्संदेहः ॥ ४ ॥ असंभवाद्विनिवृत्तिः ॥ ५ ॥ क्षेत्रस्य पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे फला-नुपरोधेन ॥ ६ ॥ ग्रामे वोभयसंप्रयोगादविरोधात् ॥ ७ ॥ यत्र श्रपयिप्यन्नुपलिप्त उद्धतावोक्षितेऽग्निमुपसमाधाय तन्मित्रैर्दभैः स्तीर्त्वाऽऽज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति ॥ ८ ॥ पृथिवी द्यौः प्रदिशो दिशो यस्मै घुभिरावृताः तमिहेन्द्रमुपह्वये शिवा नः सन्तु हेतयः स्वाहा । यन्मे किंचिदुपेप्सितमस्मिन्कर्माणि वृत्रहन् । तन्मे सर्व समृध्यतां जीवतः शरदः शत स्वाहा । संपत्तिर्भूतिर्भूमिर्वृष्टिज्यैष्ठय श्रेष्ठ्य श्रीः प्रजामिहावतु स्वाहा । यस्याभावे वैदिकलौकिकानां भूतिर्भवति कर्मणाम् । इन्द्रपत्नीमुपह्वये सीता सा मे त्वन्नपायिनी भूयात्कर्मणि कर्मणि स्वाहा ॥ अश्वावती गोमती सूनृतावती बिभर्ति या प्राणभृतो अतन्द्रिता । खलमालिनीमुर्वरामस्मिन्कर्मण्युपह्वये ध्रुवा सा मे त्वनपायिनी भूयात्स्वाहेति ॥ ९ ॥ स्था
३९