________________
ફ્±
पारस्करगृह्यसूत्रम् ।
[ पोडशी
देवता । वासुदेवदीक्षितास्तु स्वपद्धतावमय इति लिखितवन्तः तत्कुत इति न ज्ञायते । ततो दधिमधुघृतमिश्रं हुतशेषं पायसममात्याः पुत्रादयः आयात्त्रिन्द्र इत्यनुवाकेन यूयंपातस्वस्तिभिः सदान इत्यन्तेन अवेक्षन्ते । ततो ब्राह्मणभोजनम् । कृवैतत्कर्माङ्गतया ब्राह्मणमेकं भोजयिष्ये ॥ १६ ॥
( गदाधरः ) - 'आश्वतकाः प्रपातका इति वक्ष्यमाणकर्मणो नामधेयम् । तच्चावसथ्ये आश्व युज्यां पौर्णमास्यां भवति । आश्वयुजी आश्विनी पूर्णिमा । ' पाय दे चेति' । ऐन्द्रमिन्द्रदेवत्थं पायसं पयसि शृतं चरुं श्रपयित्वा यथाविधि पक्त्वा दधिमधुघृतैर्मिश्रितं पायसं चरुम् इन्द्रायेत्यादिभिः पञ्चमन्त्रैः प्रतिमन्त्रं पञ्चाहुतीर्जुहोति । 'प्राश त्वाहेति ' संस्रवप्राशनान्ते दधिपूपातकं दध्ना मिश्रितं स्थास्याज्यमश्ञ्जलिना जुहोति ऊनं मे पूर्यतामिति मन्त्रेण । दधिपृषातकशन्द: पृषदाज्यवाची । अत्राग्निर्देवतेति गर्गवासुदेवजयरामकारिकाकाराः । आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिरिति छन्दोगपरिशिष्टपरिभापावचनाद्वाक्येन प्राकरणिकीमिन्द्रदेवतां वाधित्वा प्रजापतिर्देवतेति हरिहरः । तत्रिन्त्यम् । अनादिष्टदेवतालिङ्गेष्वपि मन्त्रेषु देवतापेक्षायां सत्यां किं यत्किंचिदेवतान्तर परिकल्प्यतामुत प्रकृतैव गृह्यतामिति तत्र प्रकृतपरिग्रहो न्याय्यः संनिधानात् । अप्रकृतोपादाने पुनरसंनिधानात् संदेह इति । तथा च नैरुक्ताःतथा येऽनादिष्टदेवता मन्त्रास्तेषु देवतोपपरीक्षा । यद्देवतः स यज्ञो वा यज्ञाङ्कं वा तद्देवता भवन्तीति । तत्रापि मुख्यत्वादिन्द्र एव । अयमर्थो दर्शितः कर्केणापि पिटलेपा जुहोतीति सूत्रे । मन्त्रार्थ. । हे इन्द्र मे मम यदूनं तदनेन होमेन पूर्यतां पूर्ण क्रियताम् । यत्र पूर्ण तन्माव्यगान् विपरीतभावमपूर्णतां मागच्छतु । ' दधिकेन ' अमा गृहं तत्र भवा अमात्या यजमानगृह्या भ्रातृपुत्रादयः दधिमधुघृतैर्मिश्रितं चरुशेषं आयात्विन्द्र इत्यनुवाकेन स्वस्तिभिः सदान इत्यन्तेनावेक्षन्ते विलोकयन्ति ।
"
मातृ ' रात्रिम् ' वत्सान् धेनुभिः संसृज्य संसृष्टान्कृत्वा तस्यां रात्रौ संसृष्टा एव वसन्ति । तामिति कालाध्वनोरत्यन्तसंयोग इत्युपपदविभक्तिर्द्वितीया । तेन संपूर्णां रात्रिं वसन्ति । अधिकारमुपजीवन्नाह' आग्रणीं च' आग्रहायणी मागशीर्ष संबन्धिनीं रात्रिं संसृष्टा एव वत्साः वसन्ति । ' ततो जनम् ' ॥ पोडशी कण्डिका समाप्ता ॥ १६ ॥ ॥ ॥
अथ पदार्थक्रमः । प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिकं श्राद्धम् | ब्रह्मोपवेशनादिदक्षिणादानान्ते विशेषः । सक्षीरं प्रणयनम् । दधिमधुनोरुपकल्पनम् । प्रणीताक्षीरमुत्सिच्य पायसश्रपणम् । प्रागुपयमनादानात्पायसे दधिमधुघृतावपनम् । आज्यभागान्ते दधिमधुघृतमिश्रेण पायसेन चाहुतयः । इन्द्राय स्वाहा० । इन्द्राण्यै० | अश्विभ्यार्थं स्वाहा । आश्वयुज्यै पौर्णमास्यै० । शरदे० । यथामन्त्रं त्यागाः । ततः पायसादेव स्त्रिष्टकृत् । ततो महाव्याहृत्यादिनवाहुतयः । संस्रवप्राशनादिदक्षिणान्तम् । ततः स्थाल्याज्ये दध्यासिच्य तत्पृपदाज्यमञ्जलिना जुहोति ऊनंमे पूर्यतामिति इदमिन्द्राय० । ततो दधिमधुघृतमिश्र चरुशेषं यजमानगृह्याः पुत्रादयोऽवेक्षन्ते आयात्विन्द्र इत्यनुवाकेन यूयं पात स्वस्तिभिः सदा न इत्यन्तेन मन्त्रेण । ततो ब्राह्मणभोजनम् । रात्रौ वत्ससंसर्गः । गौणकालेऽपीदं कार्यम् । पृषातकमिदं कर्म गौणकालेऽपि शस्यत इति कारिकोक्तेः । गर्गमते विशेषः । ब्रह्मासनाद्याज्यभागन्ते वर्हिः सादनानन्तरं दधिमधुघृतानामासादनम् पयसश्च । ग्रहणे इन्द्राय जु गृहामि । इन्द्रायेन्द्राण्यै अश्विभ्यामाश्वयुज्यै पौर्णमास्यै शरदे जुष्टमिति केचित् । आज्यभागान्ते पायसे दध्याद्यावपनम् । स्विष्टकृदन्ते पृषदाज्यहोम: । इदमन्नय इति त्यागः । ततो महाव्याहृत्यादिदक्षिणान्तम् । ततो गृह्याणां चर्ववेक्षणम् । ततो वर्हिहोमादिविप्रमुक्त्यन्तम् । ततो वैश्वदेवः । रात्रौ वत्सससर्ग इति ॥
1111
॥ * ॥
1*1
Heal
॥ * ॥