________________
३०३
द्वितीयकाण्डम् ।
कण्डिका ]
( जयरामः ) - पृषातका इति कर्मणो नामधेयम् । तदाश्वयुज्यां पौर्णमास्यां भवति । पायमैन्द्र त्वा दधिमधुघृतमिश्रं जुहोति । इन्द्राय इन्द्राण्यै इत्येवमाद्याः पञ्चाहुतयः । ततः स्विष्टकृदादि । ' प्राश' "र्यताम्' इत्यनेन मन्त्रेण । अस्यार्थः । तत्र गाग्यों गायत्री प्रजापतिः पृषदाज्यहोमे० । अत्र देवतालिङ्गाभावात् - आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाच प्रजापतिरिति स्थितिरिति छन्दोगपरिशिष्टपरिभाषितत्वादद्भिरेवात्र देवता तस्य प्रजापति - श्रवणात् । हे अग्ने अनेन पृषदाज्यहोमेन मे मम यदूनं तत्पूर्यतां पूर्ण त्वया क्रियताम् । यच्च पूर्ण मे मम तन्मा व्यगात् विपरीतभावमपूर्णतां मा गच्छतु । दधिपूपातकशब्देन पृषदाज्यमभिधीयते । आयात्विन्द्र इत्यनुवाकेन दधिमधुघृतमिश्रं पायसचरुशेषममात्या यजमानगृह्या अवेक्षन्ते । तस्यां रात्रौ मातृभिर्वत्सान्संसृज्य । एवंसति अधिकारमुपजीवन्नाह । आग्रहायणीं च रात्रिं वत्ससंसर्गः । ततो ब्राह्मणभोजनम् ॥ १६ ॥
1
( हरिहर: ) - ' आश्वतका: पृषातकाइतिसंज्ञकं कर्म भवति । तच्च आश्वयुज्यां पूर्णिमायां भवति । ' पाय.." "होति ' तत्र ऐन्द्रमिन्द्रदेवत्यं पायसं चरुं संसाध्य दधिमधुघृतैर्मिश्रं कृत्वा आवसभ्याग्नौ जुहोति । केभ्य इत्याह । इन्द्रा' 'चेति' इन्द्रायेत्यादिभिः पञ्चभिर्मन्त्रैः स्वाहाकारान्तैः प्रतिमन्त्रं पञ्चाहुतीर्जुहीति । यथामन्त्रं त्यागः । 'प्राशत्स्वाहेति' ततः स्विष्टकृत्प्रभृति प्राशनान्ते पृपातकम् पृषदाज्यमञ्जलिना ऊनं मे इत्यादिना मन्त्रेण जुहोति । पृषदाज्यं घृते दधिप्रक्षेपाद्भवति । दुग्धेनापि तत्संभवाद्दधिग्रहणम् । 'दधिकेन ' ततो दधिमधुघृतमिश्र हुतशेषं पायसममात्या अमा च गृहं तत्रभवा अमात्या यजमानस्य गृह्याः भ्रातृपुत्रादयः अवेक्षन्ते आयात्विन्द्रोऽवस उप न इत्यारभ्य यूयं पात स्वस्तिभिः सदा न इत्यन्तेन अनुवाकेनावेक्षन्ते पश्यन्ति । 'मातृ ' रात्रिम् ' तामाश्वयुजी संafett रात्रिं वत्सांस्तर्णकान् मातृभिर्जननीभिर्धेनुभिः संसृज्य संसृष्टान् कृस्वा तां रात्रिमिति कालाध्वनोरत्यन्तसंयोगे इत्युपपदविभक्तिर्द्वितीया तेन संध्यायां वत्सान् संसृज्य सकलां रात्रिं न बनीयात् । ' आग्रहायणीं च ' न केवलं तामेव रात्रिं वत्ससंसर्गः आग्रहायणीं च मार्गशीर्षसंवन्धिनीमपि रात्रिम् । ततो ब्राह्मणभोजनम् । इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र आश्वयुज्यां पौर्णमास्यां पृपातकाख्यं कर्म भवति । तद्यथा । प्रथमप्रयोगे मातृपूजाभ्युदयिकपूर्वकमावसथ्याग्नौ ब्रह्मोपवेशनादिप्राशनान्ते विशेषः । सक्षीराः प्रणीताः प्रणयेत् दधिमधुनी उपकल्पयेत् प्रणीताक्षीरेण पायसं श्रपयेत् । तत उपयमनकुशादानादर्वाक् पायसे दधिमधुघृतानि आवपेत् । आज्यभागानन्तरं दधिमधुघृतमिश्रेण पायसेन इन्द्राय स्वाहा इदमिन्द्राय इन्द्राण्यै स्वाहा इदमिन्द्राण्यै० अश्विभ्यास्वाहा इदमश्विभ्यां० आश्वयुज्यै पौर्णमास्यै स्वाहा इदमाश्वयुज्यै पौर्णमास्यै० शरदे स्वाहा इदं शरदे० । एवं पश्चाहुतीर्हुत्वा तत एव पायसात् स्त्रिष्टकृते हुत्वा महाव्याहृत्यादिदक्षि णादानान्ते स्थाल्यामाज्यं दधि आसिच्य पृषदाज्यं कृत्वा अञ्जलिनाऽऽदाय ऊनं मे पूर्यतां पूर्ण मे माव्यगात्स्वाहेति मन्त्रेणैकामाहुतिं जुहोति इदमग्नये० । ऊनं मे पूर्यतामित्यस्य होमस्य का देवतेत्यत्र संदेहः । देवतात्वं तद्धितचतुर्थीमन्त्रलिङ्गवाक्यप्रकरणैः प्रतीयते । अत्र तु दधिपृषातकमञ्जलिना जुहोतीति होमविधिपरे वाक्ये पृषातकं द्रव्यमात्रं श्रूयते न तद्धितो न चतुर्थी वा । मन्त्रेऽपि न देवताप्रकाशकं लिङ्गमस्ति न च वाक्यम् । ततः प्रकरणमवशिष्यते तच्च ऐन्द्रं पायसमैन्द्रयं श्रपयित्वेति तद्धितात् अस्य यज्ञस्येन्द्रो देवतेति । तर्हि किं प्राकरणिकत्वात् अस्य होमस्य इन्द्रो देवता ततःआज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरिति स्थितिरिति छन्दोगपरिशिष्टपरिभाषातः प्रजापतिः । तत्र वाक्यप्रकरणयोर्वाक्यस्य वलीयस्त्वात्प्रकरणवाधः । तेनेह प्रजापतिरंव