________________
कण्डिका ] तृतीयकाण्डम् ।
३१७ इति त्यागः । ततो महाव्याहृत्यादि प्राजापत्यहोमान्तं कृत्वा । अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः । भद्रान्नः श्रेयः समनैष्ट देवास्त्वयाऽवशेन समशीमहि त्वा । स नो मयोऽभूः पितो आविशस्व शन्तोकाय तनुवे स्योन इत्यनेन मन्त्रेण संस्रवं प्राभाति । अन्नपतेऽनस्य नो देहीत्यनयर्चा वा प्राश्नाति । यवान्नप्राशने तु एतमुत्यं मधुना संयुतं -यवाः सरस्वत्या अधिवनाय चकृपुः इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इत्यनेन यवसंस्र प्राश्नाति । ततो ब्राह्मणभोजनमिति ।। ॥१॥ ॥* ॥
(विश्व०)-'अना"शनं 'न आहिता अग्नयो गार्हपत्यादयो येनासौ कृतावसथ्यः । तस्य नवस्यासन्नसमयोत्पन्नस्य प्राशनं प्रोच्यत इति सूत्रशेषः । तच्च शरद्धसन्तयोः । यस्मिन्नारयणं कुर्याहतो तदनुसंभवम् । धान्यं तन्नवमित्याहुरवाक्पकं पुरातनम् । प्रावृटकालात्परं (पक्कं?) शरदारयणे नवम् । ऊ वसन्तान्निष्पन्नं वसन्ताग्रयणे नवम् । ब्रीहियागस्य याः काले पक्का ब्रहेण संस्कृताः । शेषा यावेन यागेन यदि यागात्पुरा कचित् । ओषधि भक्षयेत्कांचित्तत्र वैश्वानरः स्मृतः । तथाच ब्रीद्युत्पतिसमानकालोत्पन्नौषधिभक्षणाधिकारो ब्रीह्याग्रयणेन । यवोत्पत्तिसमानसमयोत्पन्नौषधिभक्षणाधिकारो यवाग्रयणेनेति श्रीअनन्तयाज्ञिकाः । तथा--मनुष्यरुपजीव्यानां पशुभिश्च यथायथम् । तृणगुल्मलतापुष्पपत्रादेरप्यभक्षणं याज्ञिकमते । तन्मते प्रियंगुकोद्रवादेरप्यभक्षणम् । एवं चाग्रयणमकृत्वा नवान्नमग्नौ न होतव्यम् । ब्राह्मणेभ्योपि न देयम् । आथर्वणे होमनिषेधात् । तथाहि-अथ योऽहुत्वा नवान्नं प्राश्नीयादग्नौ वा गमयेका तत्र प्रायश्चितिः सोऽग्नये व्रतपतये चरं निर्वपेदिति। ब्राह्मणेभ्यो दाननिषेधः श्राद्धकल्पे-अयं च दम्पत्योः समो निषेधः । केचितु ब्रीहियवयोरेख यागसाधनतया तयोरेव भक्षणं निषिद्धमाहुः । यागो न क्रियते यैस्तु गोधूमैर्माषकोद्रवैः । तेपामिह भवेदेतत्प्राशनं केचिद् वन् । नवशब्दस्य सामर्थ्यात्सामान्येन मतं त्विदम् । वाक्यशेषविरोधाच यदेतन्न मतं मम । आसन्नो यजमानश्व देवानामेष पठ्यते । तस्मादन्नमदन्त्यस्य यवत्रीह्यादिकं मखे । तस्मात्तदेव वज्य स्यादन्यत्कामं तु भक्षयेदिति । अस्यातिक्रमेऽग्नये वैश्वानराय चर्भवति । अत्रापि प्रथमप्रयोगे मातृपूजाभ्युदयिके भवतः । अन्वारम्भणीयादेवताकश्वरुश्च भवति । अनुष्ठानं च ब्रीहेः शरदन्तर्गतपौर्णमास्यमावास्यायां यावस्य तु वसन्तान्तर्गतायामिति । अग्रोत्पन्नयोत्रीहियवयो:महेतुत्वायतनत्वे(?)'याग्रयणपदवाच्यता नास्तीत्येतद्रिक्तं वचः । अनाग्रयणस्य च पर्वाननुष्ठानमेतदपि बाललालनम् । न विपक्षे क्रियाः स्युः समभिव्याहारादित्येतस्य साधारण्यादिति । कथं कुर्यादत आह-'नवर "वैस्वाहेति ' प्रथमप्रयोगे मातृपूजाभ्युदयिके कृत्वा पूर्ववदन्वारम्भणीयेप्टिदेवताकं चरुं हुत्वा पर्वदिने पुण्येऽह्नि वा व्रीहियवयोरन्यतरेण स्थालीपाकं परिभाषोक्तविधिना अपयित्वा पक्त्वाज्यभागानन्तरं शतायुधायेति द्वाभ्यां मन्त्राभ्यां वे आज्याहुती जुहोति । तत्र विशेषः । इन्द्राग्निभ्यां विश्वेभ्योदेवेभ्यो द्यावापृथिवीभ्यां जुष्टमिति ग्रहणे । प्रोक्षणे त्वाशब्दोऽधिकः । इन्दमिंद्रायेत्याद्यायाः । इदं सर्वेभ्योदेवेभ्य इति द्वितीयस्याः। 'स्थाली"युः स्वाहेति ' शतायुधायेत्येतदाहुतिद्वयानन्तरं स्थालीपाकेन आग्रयणस्य देवता इन्द्राग्नी विश्वेदेवा द्यावापृथिव्यः ताभ्यः इद्राग्निभ्यार स्वाहा इदमिन्द्राग्निभ्यां विश्वेभ्योदेवेभ्यः स्वाहा इदंविश्वेभ्योदेवेभ्यः । द्यावाथिवीभ्या५ स्वाहा इदंद्यावापृथिवीभ्याम् । एवं ताभ्यो हुत्वा स्विष्टमग्न इतिमन्त्रेणान्याहुतिं जुहोति । ततः स्थालीपाकात्स्विष्टकृते स्वाहेति हुत्वा त्यक्त्वा पुन:स्विष्टमग्न इति मन्त्रेणाज्याहुति चकाराज्जुहोतीत्यर्थः । स्विष्टकृद्धोमस्योभयत आज्याहुती भवत इत्यर्थः । ' अथप्रा' 'यया वा । ततो महाव्याहृत्यादिप्राजापत्यन्ते नवाहुत्यनन्तरं संस्र प्राश्नात्यग्निः प्रथमः प्राश्नात्विति ऋग्भ्यां मन्त्रेण शतोकायतनुवेस्योन इत्यन्तेन । वा अथवा अन्नपतिशब्दो विद्यते यस्यां सेयमन्नपतीया तया अन्न