________________
२९७
कण्डिका]
द्वितीयकाण्डम् । धारकः मार्जनीयोदकं धानाः प्राशनार्था लौकिका इति त्रयमधिकमुपकल्पनीयमिति रेणुकः । ततः पवित्रकरणादिप्रोक्षणीनिधानान्ते चरुदेशस्योत्तरतो भर्जनखर्पराधिश्रयणम् । अत्र सन्याशून्येऽङ्गारकरणमिति रेणुकः । भर्जनस्योत्तरत एककपालोपधानमाज्यनिर्वापश्चरुपात्रे तण्डुलप्रक्षेपः प्रणीतोदकेन पिष्टसंयवनं ब्रह्मण आज्याधिश्रयणं तदुत्तरतश्वरोरधिश्रयणं यजमानस्य, चरोरुत्तरतः खपरे यवाधिश्रयणमुल्काधारस्य, कपाले पुरोडाशमधिश्रित्यैककपालं प्रथयेदितरः, सर्वेषां पर्यनिकरणं, स्रुवसंस्कारः, तत आज्यादीनामुद्रासनमुदक्संस्थमाज्योत्पवनमवेक्षणं प्रोक्षण्युत्पवनं, धानानां भूयसी: पिष्ठा अल्पानां स्थापनम , आज्येन सक्तूनामजनम् । तत उपयमनकुशादानाद्याज्यभागान्ते आल्याहुतिद्वयं कुर्यात् । तत्र अपश्वेतपदेति प्रथमाम् । इदं श्वेतपदे० । नवै श्वेतस्येति द्वितीयाम् इदं श्वेतपदाय वैदाय० । ततःस्थालीपाकेनाहुतिचतुष्टयम् । विष्णवे स्वाहा० । श्रवणाय स्वाहा । श्रावण्यै पौर्णमास्यै० । वर्षाभ्यः० । इदं विष्णवे नममेत्यादित्यागः ॥ धानावन्तमित्यूचा धानानामेकाऽऽहुतिः । इन्द्रायस्वाहा इदमिन्द्रायन० । ततः सक्तूनामाहुतित्रयं जुहुयात् | आग्नेयपाण्डुपार्थिवानामिति प्रथमाम् । श्वेतवायवान्तरिक्षाणामिति द्वितीयाम् । अमिभूरिति तृतीयाम् । यथा (देवतं) मन्त्रान्ते त्यागाः स्वाहाकारवर्जिता इदंशब्दादयः । ततो ध्रुवाय भौमाय स्वाहेति पुरोडाशं सकलं जुहोति । इदं ध्रुवाय भौमाय० । ततश्वरुधानासक्तुभ्य उत्तरतः स्विष्टकृत् । ततो नवाहुतयः । संसवप्राशनादिदक्षिणादानान्तम् । सत्तुशेषैकदेशस्य शूचे प्रक्षेपः । शालाया बहिनिष्क्रमणम् । वहिरेव स्थण्डिलोपलेपनम् । तत उल्काधारणम् । माऽन्तरागमतेति प्रेषः । वाग्यतः स्थण्डिले सर्पानवनेजयति आग्नेयपाण्डुपार्थिवाना; सर्पाणामधिपतेऽवनेनिक्ष्वेति त्रिभिमन्तैः प्रतिमन्त्रम् । ततोऽवनेजनस्थानेध्ववनेजनक्रमेणैतैरेव मन्त्रैरेप ते वलिरित्यन्तैत्रिभिः प्रतिमन्नं बलिं हरति । अत्र यथादैवतं त्यागा इति गर्गः । नेत्यपरे । नाचनादौ त्याग इति रेणुकः । ततः पूर्ववत्पुनरवनेजनम् । एतैरेव मन्त्रैः प्रलिखस्वेत्यन्तैः कङ्कतत्रयेण प्रतिवलि प्रतिमन्त्रं प्रलिखति । ततोऽञ्जस्वेत्यन्तैरुक्तमन्त्रैः प्रतिवलि प्रतिमन्त्रमञ्जनं ददाति । तथैवानुलिम्पस्वेत्यनुलेपनदानम् । खजोऽपिनह्यस्वेत्यन्तैः पुष्पमालादानम् । ततः सत्तुशेपं स्थण्डिले न्युप्योदपात्रनिनयनं सक्तुशेपस्योपरि । नमोऽस्तु सर्पेभ्य इति तिसृभिरुपस्थानम् । स यावन्तं कामयेत एतावन्तं देशं न सर्पा अभ्युपेयुरिति तावन्तं गृहदेशमुधारया सन्ततया त्रिः परिषिञ्चन्परीयादपश्वेतपदा जहीति द्वाभ्याम् । अत्र स्वाहाकारो नेति गर्गरेणुको । सकन्मन्त्रेण परिगमनम् । द्विस्तूष्णीम् । तत इतरथावृत्तिरिति रेणुकः । दुर्वी शूपै च प्रक्षाल्योल्कायां प्रतप्योक्लाधाराय प्रयच्छति । ततो जलेन मार्जनं द्वारदेशे आपोहिष्ठेति तिसृभिब्रह्मयजमानोल्काधाराणाम् । ततो धानानां प्राशनं तेषामेव । ततो ब्राह्मणभोजनम् । सक्तुशेषस्थापनं सुगुप्ते भाण्डे । ततोऽस्तमिते अक्षतहोमानन्तरमुल्काधारणादिवलिहरणकङ्कतपरिलेखान्तं पूर्ववत् । माऽन्तरागमतेति प्रैषाभावेऽपि नान्तरागमनम् । दर्वीमुखप्रक्षालनम् । शूर्पदयोः प्रक्षालनमिति वासुदेवरेणुकौ । एवमन्वहं बलिहरणमाग्रहायणी यावत् । इति पदार्थक्रमः ।। ।। अथ गर्गमते विशेषः । पात्रासादनेचरस्थाली आज्यानन्तरं यवाः तण्डुलाः पिष्टं कर्परिका कपालं वर्हिः दर्वी उल्का उल्काधारश्च शूर्प कङ्कतास्त्रयः अञ्जनमनुलेपनं सजश्च उदकं दृषदुपले वरश्च । ततः स्फ्योपहितमोषधिकरणम् । ततो ग्रहणम् । विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यो जुहोति । तण्डुलानां ग्रहणम् । इन्द्राय जुष्टं गृहामीति यवानाम् ध्रुवाय भौमाय जु० पिष्टस्य ग्रहणम् । प्रोक्षणे त्वाधिकः । प्रोक्षणीनिधानान्ते भर्जनाधिश्रयणादिपर्यग्निकरणान्ते सुवप्रतपनादिवर्हिस्तरणान्तम् । धाना उदास्याल्पानां पंषणं कृत्वा चर्वादीनामुद्वासनमिति गर्गमतमिति तत्पद्धतौ । स्तरणान्ते आज्योद्वासनादिधानोद्वासनान्तम् । अल्पाना धानानां पृथक्करणम् । भूयिष्ठानां पेषणम् । ततः सर्वेषामभिधारणम् । बहि
३८