________________
२९८
पारस्करगृह्यसूत्रम् ।
[ पञ्चदशी
व्यासादनं च । तत उपयमनादानाद्याज्यभागान्तम् । ततः स्विष्टकृदादि दव शूर्पं प्रक्षाल्य प्रतप्य प्रदानान्तं समानम् । वलिहरणादौ सक्तहोमवद्यथोद्देशं त्यागाः । परिषेचनमन्त्रयोः स्वाहाकार वर्जि - तयोरुच्चारणमिति गर्गपद्धतौ । मार्जनं यजमानपत्न्युल्काधाराणाम् । सक्तूनां स्थापनम् । ततो धानाप्राशनं स्वामित्रह्मोल्काधाराणाम् । ततो वर्हिहोमादिब्राह्मणभोजनान्तम् । ततोऽस्तमिते उल्काधारणादिपरिलेखान्तं पूर्ववत् । यथोक्ता एव त्यागाः । एवं प्रत्यहमाग्रहायणीं यावत् । इति गर्गमते । कारिकायां विशेष: श्रवणाकर्माकरणे -- श्रवणाकर्म लुप्तं चेत्कथं चित्सूतकादिना । आग्रहायणिकं कर्म बलिवर्जमशेषतः । अकृत्वाऽन्यतमं यज्ञं पञ्चानामधिकारतः । उपवासेन शुध्यन्ति पाकसंस्थां तथैव च । पाकसंस्थासु लुप्तासु श्रवणाकर्म आदितः । प्राजापत्यं चरेत्कृच्छ्रं वचनान्तु प्रजापतेः । स्वयं होमाञ्च यावन्तो न कृतात्प्रमादतः । तावतोऽपि बलीश्चायं हरेत्तदहरेव तु । एकैकं परिलेखान्तमेकमेवोदपावकम् । प्रक्षालनं तदन्ते स्याच्छ्रपद्व्योंर्भवेदिति ॥
1
1
I
( विश्व० ) ' अथा कर्म । समयमाह ' श्रावस्यामिति' नान्यदेत्यर्थः । कथं स्यादत आह ' स्थाली''डाशं ' पदार्थक्रमोऽयं । परिसमूहनादि । आज्यस्थालीमासाद्य चरुस्थाली संमाकुशाः उपयमनकुशाः समिधः । सुवः आज्यं यवाः तण्डुलाः पिष्टं कर्षरिका एककपालं बर्हिः दव उल्काधारश्च शूर्प कङ्कतास्त्रयः अश्ञ्जनम् अनुलेपनं स्रजश्च उदकं दृषदुपलं वरश्च स्फ्योपहितमोपधिकरणं तण्डुलानां ग्रहणं विष्णवेश्रवणाय श्रावण्यैपौर्णमास्यैवर्षाभ्यो जुष्टंगृहामि । यवानां ग्रहणम् इंद्राय जुष्ट॑गृह्णामि । पिष्टस्यग्रहणं ध्रुवाय भौमायजुष्टंगृह्णामि । सर्वत्र प्रोक्षणे त्वाशब्दोऽधिकः । चरोरधिश्रयणं कर्परिकैककपालयोश्चाधिश्रयणं कर्मरिकायां यवाः, एककपाले पुरोडाशः | आज्यचरुधानानां युगपदधिश्रयणम् । ततः पर्यनिकरणं सर्वेषाम् । अर्द्धश्रुते स्रुवप्रतपनादि बर्हिस्तरणान्तम् । अन्वयस्तु अक्षतानां यवानां धानाः । अक्षतेषु यवा मुख्या इत्युक्तत्वात् । श्रपयित्वेति काकाक्षिन्यायादन्वितं भवति । चकारस्तु एककपालमित्यत्र श्रयित्वेत्यनुकर्षणार्थ: । ' धाना होति ' ततो घृताक्तानामुद्रासनं धानानां कृत्वा तेषां भूयसीः बह्वीः पिष्ट्रा सक्तत्वमापाद्य ततश्चरुपुरोडाशयोः शृताभिधारणोद्वासने कृत्वोद्वासितानां चरुधानासक्तपुरोडाशानां प्राणदानानंतरं बर्हिपि निधायोपयमनकुशादानाद्याज्यभागाविष्ठा वक्ष्यमाणमन्त्राभ्यां द्वे आज्याहुती जुहोतीत्यर्थः । तदेव सर्पापसर्पकं मन्त्रद्वयमाह 'अप" स्वाहेति इदं श्वेतपदे । इदंश्वेतायवैदर्व्यायेति त्यागः ! ' स्थाली "श्चेति' विष्णवेस्वाहा इत्यादिचतस्र आहुतयः । इदं विष्णव इत्यादि ययादैवतं त्यागाः । विष्ण्वादिदेवताभ्यः स्थालीपाकाऽवयवमादाय जुहोतीत्यर्थः । ' धाना' 'नानां ' धानानामेकामाहुति धानावन्तमिति मन्त्रेण जुहोतीत्यनुषङ्गः । इदमिन्द्रायेति त्यागः । ' घृताक्ता स्त्रीहेति' घृतेन अक्ताः तान् सक्तून् सर्पेभ्यः आग्नेयेत्यादिभिस्त्रिभिमैन्त्रै प्रतिमन्त्रं तिस्र आहुतीजुहोति । इदंपूर्वः स्वाहाशून्यो मन्त्र एव त्यागः । ' सर्व 'स्वाहेति सर्वहुतं यथा स्यात्तथैककपालं जुहोति केन मन्त्रेणेत्यत उक्तं ब्रुवाय भौमायस्वाहेति । इदं ध्रुवाय भौमाय । ततञ्चरुधानासतुभ्यः स्विष्टकृत् । अग्नयेस्विष्टकृतेस्वाहा इदमग्नये स्विष्टकृते । 'प्राशन्युग्य' ततो महान्याहुत्यादिदक्षिणादानान्ते । ' सक्तूनाम् ' इत्युपलक्षणं दव कङ्कताः अञ्जनानुलेपनं सजचेति । सक्तैकदेशश्च वलित्रयपर्याप्तः । शूर्पे शरेपीकावंशान्यतममये न्युप्य स्थाप्येत्यर्थ. । ' उपनि निक्ष्वेति ' उदकं लौकिकामिदीप्तामु तस्याः ग्रहीतारं चाहूयोपनिष्क्रम्योल्कायां त्रियमाणायां मान्तरागमतेत्यन्यान् प्रत्युक्त्वा । अन्तरालं च यजमानावसथ्ययोः । वाग्यतः सर्वानित्यादि निगढ़व्याख्यातम् । अवनेजनं प्राकृसंस्थम् । यथा वलिरिति ' होमबत्त्यागाः । अत्रनिक्तमनतिक्रम्य दुर्व्या प्रादेश