________________
२९६ पारस्करगृह्यसूत्रम् ।
[चतुर्दशी वेणुशरेपीकान्यतममये शूचे न्युष्य कृत्वा उपनिष्कम्य शालायाः सकाशान्निर्गत्य वहिः प्राङ्गणे स्थण्डिलभूमि गोमयेनोपलिप्योल्कायां ब्रियमाणायां ज्वलत्काष्ठे अन्येन ध्रियमाणे माऽन्तरागमतेत्यभिधाय वाग्यतः आग्नेयपाण्डुपार्थिवानामिति त्रिभिमन्त्रैः सर्पान् प्रासंस्थान् अवनेजयति भूमावुदकप्रक्षेपणावनिक्तान शुचीन् करोति । माऽन्तरागमत आवसथ्यस्य मम चान्तराले मा गच्छतेत्यर्थः । अत्र शूर्पे चर्मतन्तुबद्धमपि ग्राह्यमेव शूर्पस्वरूपस्य तथा प्रसिद्धत्वात् । उल्का च लौकिकाग्निना कार्या । विपये लौकिकमुपयुक्तत्वादिति कात्यायनोक्तेः । ' यथा: "लिरिति । येषु देशेषु अवनेजनं कृतं तदनतिक्रम्य यथाऽवनिक्तं दा प्रसिद्धया उपघातं उपहत्योपहत्य गृहीत्वा आग्नेयेत्यादिभिर्मन्त्रैः प्रतिमन्त्रं सर्पेभ्यो वलिं हरति ददाति । उपपूर्वो हन्तिर्ग्रहणार्थः । अथ सुवेणोपहत्याज्यमितिवत् । अव "खस्वेति । तत आग्नेयेत्यादिमन्त्रैः पूर्वववनेजनं कृत्वा कतैत्रिमिकङ्कतीयैः प्रादेशप्रमाणैरेकतोदन्तैः समुचितैराग्नेयेत्यादित्रिभिर्मन्त्रैर्यथासंख्यं दत्तवलिं प्रलिखति कण्डूयति । 'अञ्ज "ह्यस्वेति' अञ्जनं सौवीराजनं लौकिकदीपज कञ्जलं वा । अनुलेपनं चन्दनादि । खजः पुष्पमालाः । आग्नेयेत्यादिनिमिमन्त्रैरजस्वानुलिम्पस्व स्रजोऽपिनह्यस्वेत्यन्तैः प्रतिमन्त्रं प्रतिवलि यथाक्रममेकैकं ददाति । 'सक्तु''सृभिः' सक्तुशेपं वल्यर्थ यत्पूर्व शूपें कृत्वा आनीतं वलिदानावशिष्टं तत्स्थण्डिले उपलितायां भूमौ रूपेणैव न्युप्य प्रक्षिप्योदपात्रेणोपनिनीय आप्लान्य नमोऽस्तु सर्पेभ्य इति तिसृभित्रग्भिः वलिमुपतिष्ठते । बलिसमीपे तिष्ठन मन्त्रं पठतीत्यर्थः । 'स याद्वाभ्याम् । स यजमानो यावत् यावन्तं देशं सो नाभ्युपेयुनागच्छेयुरिति कामयेत इच्छेत् तावत् तावन्तं देशं भूभागं संततया अनवच्छिन्नया जलधारया निवेशनं गृहमपश्वेतपदा जहीति पूर्वोक्ताभ्यां मन्त्राभ्यां परिपिञ्चन् त्रिः परीयात् । त्रीन्वारान् गृहस्य परितः प्रादक्षिण्येन गच्छेत् । सकृन्मन्त्रेण परिगमनम् । द्विस्तूष्णीम् । तत इतरथावृत्तिः । कर्वन्तरस्यानुपदेशात्स्वयंकर्तृकाणि स्मार्तानि कर्माणि तन्त्र स इत्युच्यमाने तस्यैव प्राप्नुवन्ति । काम्येषु तु पुनर्ग्रहणं नियमार्थम् । काम्यं नियमेन स्वयं कर्तव्यम् । यत्त्वकामसंयुक्त कालनिमित्ते चोद्यते तदागते काले अवश्यं कर्तव्यम् । असंनिहिते च यजमाने अन्येनापि कारयितव्यमिति भर्तृयज्ञाः । 'दीं. "च्छति' यया वलिदानं कृतं तां दीं शूपं च प्रक्षाल्य प्रतप्य संनिधानादुल्लायामेव सकृत्तापयित्वा प्रयच्छति उल्काधाराय संनिधानात् । 'द्वार'सृभिः ' ऋग्भिः वहुवचनाद्ब्रह्मयजमानोल्काधाराः शालाया द्वारे आपोहिष्ठेति तिसृभित्ररम्भिर्जियन्ते अद्भिरात्मानमभिषिञ्चन्ति । 'अनु'''यण्याः। एतं प्रकृतं सतुशेषमनुगुप्तं सुगुप्तं यथा भवति तथा स्थापयित्वा ततस्तेभ्यः सक्तु भ्योऽस्तमितेऽस्तमिते सूर्ये प्रत्यहमक्षतहोमानन्तरं दव्योपघातं दव्योपहत्योपहत्य सक्तून्सपेंभ्यो वलि हरेदाग्रहायणी पौर्णमासी यावत् । 'त..."च्छेयुः' तमावसथ्याग्निं वलिं हरन्तं यजमानं चान्तरा मध्ये न गच्छेयुलोकाः । श्वादयोऽपि निवाः । 'दाः 'धाति । ततो दा आचमनं मुखं प्रक्षाल्य निदधाति प्रतिदिनम् । अत्र न शूर्पप्रक्षालनमनुक्तत्वात् । 'धाना"स्यूताः । श्रावण्यां पौर्णमास्यां संस्थिते श्रवणाकर्मणि धाना अनन्ति दन्तैरचर्वयन्तो ब्रह्मयजमानोल्काधाराः। 'ततो' 'जनम् ।। इति चतुर्दशी कण्डिका ॥ १४ ॥ ॥ॐ॥ ॥* ॥
अथ पदार्थक्रमः । तत्र प्रथमप्रयोगे मातृपूजापूर्वकं नान्दीमुखं श्राद्धं कृत्वा आवसथ्ये कर्म कार्यम् । ब्रह्मोपवेशनादिदक्षिणादानान्ते विशेषः । चरुपात्रानन्तरं भर्जनखर्परस्यासादनम् । तत एककपालम् । तण्डुलानन्तरं यवानामासादनम् । ततः पिष्टानाम् प्रोक्षणं च यथासादितानाम् । उपकल्पनीयानि-दृषदुपले शूर्पमुल्का उदपात्रं दर्वी कङ्कतत्रयमजनमनुलेपनं सजश्चेति । उल्का
HHHHHHHI