________________
२९५
कण्डिका]
द्वितीयकाण्डम् । बलिहरणप्रयोगः । सत्तुशेष सुगुप्ते भाण्डे स्थापयित्वा ततोऽस्तमिते सूर्ये कृतसायंहोमः शूर्प सक्तुदींकङ्कतत्रयं निधायोदपात्रं गृहीत्वा सोल्काधारः शालाया बहिरुपलेपनादि परिलेखनान्तं बलिहरणमनुदिनं पूर्ववत्कुर्यात् आग्रहायणी यावत् । मान्तरागमतेति प्रैषाभावेऽपि कश्चिदन्तरा न गच्छेत् दीमुखमेव प्रक्षालयेदिति । इत्यहरहर्वलिदानविधिः॥ ॥ * ॥
(गदाधरः)-'अथा' 'कर्म' श्रवणाकर्मेति वक्ष्यमाणस्य कर्मणो नामधेयम् । व्याख्यास्यत इति सूत्रशेषः । 'श्राव ""स्याम् । तत्कर्म श्रावणशुक्लपञ्चदश्यां भवति । अस्य कर्मणो गौणकालो न भवति । तदुक्तं कारिकायाम्-श्रावण्यामेव तत्कार्यमभावाद्गौणकालतः। परिसंख्योक्तितः सूत्रकारस्यान्यस्मृतेर्वलात् । यावज्जीवं पाकयज्ञानुष्ठानं सकृद्वेति तत्रैवोक्तम । वचनात्सूत्रकारस्य सकृदस्य क्रिया भवेत् । एवमेवोत्तरेषां स्यादावृत्तिर्वा स्मृतेर्बलात् । सकृत्करणमिच्छन्ति तत्रावृत्तिः सतां मतात् । तथा~यावजीवं पाकयज्ञैर्यजेत्संवत्सरेण चेति । 'स्थाली' 'शम् ' स्थालीपाकं चरुं अपयित्वा अक्षतानां सतुषयवानां धाना अक्षतधानास्ताश्च अपयित्वा एकस्मिन् कपाले अप्यत इत्येककपालस्तं च पुरोडाशं अपयित्वा । चरुधानापुरोडाशानां सिद्धानामुपादानं माभूदिति श्रपयित्वेति ग्रहणम् । भर्जनककपालयोरप्यासादनप्रोक्षणे भवतः, अर्थवदासाद्यार्थवत्प्रोक्ष्येत्यविशेषोपदेशात् । पुरोडाशस्य अपणमात्रोपदेशात्पेषणानुपदेशाच लौकिकपिष्टानामासादनम् । धाना स्वाहेति ' धानानां मध्ये भूयसीह्वीर्धानाः पिष्ट्वा पेषणेन सत्तुत्वं संपाद्याज्यभागौ हुत्वा आज्येनाहुती द्वे जुहोत्यपश्वेतपदाजहीति द्वाभ्यां मन्त्राभ्याम् । तत्रापश्वेतपदा जहीति प्रथमां, न वै श्वेतस्येति द्वितीयाम् । मन्त्रार्थः-हे श्वेतपद त्वमिमा मदीयाः प्रजाः मम निवासभूमेः पूर्वेण भागेन अपरेण च पश्चाद्भागेन च जहि स्वजातिजनितमालिन्यधर्मात् परित्यज । अस्मात् स्थानाच स्थानान्तरं ब्रज । किभूताः प्रजाः सप्त च सपिण्डसगोत्रसोदकत्वभेदेन सप्तसप्तपुरुपसंबन्धाः सप्त कुलजा वा । तद्यथा पिता माता च भार्या च दुहिता भगिनी तथा । पितृष्वसा मातृष्वसा सात गोत्राण्यमूनि वै इति । वारुणैर्वरुणायत्तैनागैर्मदीयाः प्रजाः परित्यज । सर्वाः सेवकपश्वादिरूपाः राजवान्धवै गैः राजा तक्षको वासुकिः शेषो वा तस्य ये बान्धवास्तैः सह त्यज । एतैः सह सदा तुभ्यं सुहुतमस्तु हविःसंपादनमस्तु ॥ १॥ पूर्वोक्तमेव द्रढयति । वै निश्चयेन । श्वेतस्य नागस्याध्याचारे आधिपत्ये महिः सर्पजातीयः कंचन लोकं प्राणिजातीयं न पश्यतिस्म पापदृष्ट्या । अनेन कर्मणा स्थानत्यागात् तदर्थ श्वेताय शुद्धाय नागाय नमस्कारपूर्वकं सुहुतमस्तु । किंभूताय नागाय वैदव्य विदर्वापत्याय । 'स्थाली' ' 'श्वेति । ततो विष्णवे स्वाहेत्येवमादिभिश्चतुर्मिमन्त्रैः स्थालीपाकस्य चरोश्वतस्त्र आहुतीर्जुहोति । 'धाना' 'नाम् । ततो धानावन्तं करम्भिणमित्यनयर्चा सुवेण धानानामेकाहुति जुहोति । 'घृता''स्वाहेति' घृतेनातान् अभिघारितान् सक्तून् सर्पेभ्यो मन्त्रोक्तेभ्य आग्नेयपाण्डुपार्थिवानामिति त्रिभिर्मन्नस्तित्र आहुतीर्जुहोति । मन्त्रार्थः-आग्नेयाः अग्निदेवत्याः पाण्डवाः पाण्डुजातीयाः पार्थिवा पृथिवीविहारिणः तेषां सर्पाणामधिपतये शेषाय वासुकये वा स्वाहा सुहुतमस्तु ।। १ ।। श्वेताः श्वेतजातीयाः वायवाः वायुदेवत्या इति यावत् । आन्तरिक्षा अन्तरिक्षविहारास्तेषामधिपतय इति प्राग्वत् ।। २ ॥ तथा अभिभवन्ति सर्वानित्यभिभुवः सौर्याः सूर्यदेवत्याः दिव्या दिवि विहारास्तेषाम् । अभिभूरिति विसर्गश्छान्दसः ॥ ३ ॥ 'सर्व 'स्वाहेति' सक्तुहोमोन्तरमेककपालं पुरोडाशं सर्वहुतं संपूर्ण हुतं यथा भवति तथा ध्रुवाय भौमाय स्वाहेत्यनेन मन्त्रेण जुहोति । ततः स्विष्टकृद्धोमः स्थालीपाकधानासक्तुभ्यः । सर्वहुत एककपाल इति परिभाषितत्वादत्रावाच्यं सर्वहुतमेककपालमिति । वाच्यं वा पाकयज्ञेष्ववत्तस्यासर्वहोम इति सूत्रेण संस्रवनिधानं प्राप्त तथदासार्थम् । 'प्राश''"निवेति' संस्रवप्राशनान्ते पूवकृतसक्तनामेकदेशं वलित्रयपर्याप्तं नडर