________________
२९४ पारस्करगृह्यसूत्रम्।
[ चतुर्दशी धानाः असत्यूताः दन्तैरलग्ना अचर्वयन्त इत्यर्थः । ततो"नम् । इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र श्रावण्यां पूर्णिमायां श्रवणाकर्म । तस्य प्रथमप्रयोगे मातृपूजापूर्वकमाभ्युदयिक विधायावसथ्याग्नौ कर्म कुर्यात् । तद्यथा ब्रह्मोपवेशनादिप्राशनान्ते अयं विशेष:-चरस्थाल्यनन्तरं भर्जनकपरं तत एक कपालं तथा तण्डुलानन्तरं यवान् ततस्तण्डुलपिष्टान्यासादयेत् । प्रोक्षणकाले यथासादितं प्रोक्षेत् उपकल्पितं च दृषदुपले शूर्पोल्के उदपात्रदव्यौँ कङ्कतत्रयमचनमनुलेपनं सजश्चेति ततः पवित्रकरणादिप्रोक्षणीनिधानान्ते चरदेशस्योत्तरतो भर्जनमधिश्रित्य तदुत्तरतः कपालमुपधाय आज्यं निरुप्य चरुपाने प्रणीतोदकासेचनपूर्वकं तण्डुलप्रक्षेपं कृत्वा प्रणीतोदकेन पिष्टं संयूय पुरोडाशं कृत्वा ब्रह्मद्वारा आज्यमधिश्रित्य स्वयं चरुमन्येन भर्जने यवान् अपरेणैककपाले पुरोडाशमधिश्रित्य पुरोडार्श प्रथयित्वा यावत्कपालं, सर्वेषां पर्यग्निकरणं कुर्यात् । ततः सुवं संस्कृत्याज्यमुद्रास्य चरं चोद्वास्याज्यस्योत्तरतः स्थापयित्वा धाना उदास्य चरोरुत्तरतो निधाय पुरोडाशमुद्रास्य धानानामुत्तरतः स्थापयेत् । तत आज्योत्पवनावेक्षणप्रोक्षण्युत्पवनानि कृत्वा धानानां भूयसीर्घाना दृषदुपलाभ्यां पिष्टा अल्पाः पृथक् स्थापयित्वा घृतेन सक्तून् अक्त्वा उपयमनकुशादानाद्याज्यभागान्तं कर्म कुर्यात् । तत आज्येन अपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहेति इदं श्वेतपदे इति त्यागं विधाय, नवै श्वेतस्याद्धयाचारेऽहिर्ददर्श कंचन श्वेताय वैदाय नमः स्वाहेति मन्त्रेण द्वितीयामाहुति हुत्वा इदं श्वेताय वैदायेति त्यक्त्वा स्थालीपाकेन चतस्र आहुतीर्जुहोति । तद्यथा विष्णवे स्वाहा इदं विष्णवे. श्रवणाय स्वाहा इदं श्रवणाय० श्रावण्यै पौर्णमास्यै स्वाहा इदं श्रावण्य पौर्णमास्यै० वर्षाभ्यः स्वाहा इदं वर्षाभ्यो० इति । अथ धानावन्तं करम्भिणमित्यूचा धानानामेकाहुति हुत्वा इदमिन्द्रायेति त्यक्त्वा सत्तूनामाहुतित्रितयं जुहुयात् । तद्यथा आग्नेयपाण्डुपार्थिवानाथं सर्पाणामधिपतये स्वाहा । इदंशब्दयुक्तः स्वाहाकाररहितो मन्त्र एव त्यागः । एवं त्रिषु । श्वेतवायवान्तरिक्षाणार्थ सर्पाणामधिपतये स्वाहा । अभिभूः सौर्यदिव्याना; सर्पाणामधिपतये स्वाहा । ततो ध्रुवाय भौमाय स्वाहेति सवै पुरोडाशं सुवे कृत्वा जुहुयात् । इदं ध्रुवाय भौमायेति त्यक्त्वा चरुधानासक्तुभ्य उत्तरतः किंचित्किंचिदादाय स्विष्टकृतं विधाय महाव्याहृतिहोम संस्रवप्राशनं ब्रह्मणे दक्षिणादानान्तं कुर्यात् । अथ हुतशेषसक्तूनामेकदेश शू प्रक्षिप्योदपात्रं दींकङ्कतत्रयाजनानुलेपनत्रजश्च । शालाया बहिनिष्क्रम्य ब्रह्मणा उल्कावारेण च सह स्वाङ्गणे हस्तमात्रं स्थण्डिलं स्वयमुपलिप्य लौकिकाग्न्युल्कायां ब्रियमाणायां माऽन्तरागमतेति प्रैषमुच्चार्यवाग्यतः स्थण्डिले उदपात्रमादायामय इत्यादिना अधिपतेऽवनेनिक्ष्वेत्यन्तेन मन्त्रेण एकत्रावनेजनार्थं जलं दत्वा श्वेतवायवेत्यादिना अधिपते ऽवनेनिक्ष्वेत्यन्तेन द्वितीयम् , अभिभूःसौर्येत्यादिना तथैव तृतीय, सोनवनेजयति । ततोऽवनेजनस्थानेषु अवनेजनक्रमेण एतैरेव मन्त्रैरेपते वलिरित्यन्तैत्रिभिः प्रतिमन्त्रं बलि हरति । ततः पूर्वववनेज्य कङ्कत्तत्रयेण प्रलिखस्वेत्यन्तरेतैरेव मन्त्रैः प्रतिबलिं प्रतिमन्त्रं प्रलिखति । ततोऽजस्वेत्यन्तैरुक्तमन्त्रैः प्रतिवलिं प्रतिमन्त्रमञ्जनं ददाति तथैवानुलिम्पस्वेत्यनुलेपनम् । एवमेव स्रजोऽपिनह्यस्वेति पुष्पमालां दत्वा सक्तुशेष स्थण्डिले क्षित्वा उदपात्रजलेन प्रसंप्लाव्य नमोऽस्तु सर्पेभ्य इत्यादिभिस्तिसृमिनम्भिस्तिष्ठन् सर्पानुपतिष्ठते । ततः स गृहपतिरेतावन्तं देशं सर्प न प्रविशेयुरिति यावन्तं कामयेत तावन्तं देशं संततोदकधारया नि:परिषिञ्चन् गृहं परीयात् अपश्वेतपदाजहीति पूर्वोक्तमन्त्राभ्यां सकृत् द्विस्तूष्णीम् । ततो देवीं शूर्प च प्रक्षाल्योल्कायां सकृत्प्रतप्योल्काधाराय प्रयच्छति । अथ शालाद्वारि आपोहिप्ठेति तृचेन ब्रह्मयजमानोल्काधारा मार्जयन्ते जलेनात्मानम् । ततो धानाः प्रानन्ति ब्रह्मयजमानोल्काधारा अनवखण्डयन्तः । ततो ग्राह्मणभोजनम् । एतावच्छ्रवणाकर्म ॥ ॥ अथ प्रत्यहं