________________
२९३
कण्डिका ]
द्वितीयकाण्डम् |
4
तथा ध्रुवाय भौमाय स्वाहेत्यनेन मन्त्रेण जुहोति । ततः स्थालीपाकधानासक्तुभ्यः स्विष्टकृद्धोमः । प्राश" "येति ' प्राशनान्ते संस्रवप्राशनानन्तरं सक्तूनामेकदेशं वलित्रयपर्याप्तं शूर्पे शरेपिका वंशान्यतममये इच्छापरिमाणे न्युप्य कृत्वा उपनिष्क्रम्य शालायाः सकाशान्निर्गत्य वहिरङ्गणे स्थण्डिलं भूमिं स्वयमेव गोमयेनोपलिप्य । अत्र सर्पानवनेजयतीत्यस्याः क्रियाया उपलेपनक्रियायाश्चैककर्तृकत्वेन पूर्वकालीनस्योपलेपनस्य ल्यवन्तत्वम् । समानकर्तृकयोः पूर्वकाले इति पाणिनिना ल्यपः स्मरणात् । तेनात्र स्थण्डिलस्य स्वयं पूर्वमुपलेपनम् । उल्कायां श्रियमाणायां ज्वलति काष्ठेऽन्येन प्रियमाणे माऽन्तरागमत आवसध्यस्य मम चान्तराले मागच्छत इत्युक्त्वा अभिधाय वाग्यतो मौनी सर्पान् आग्नेय श्वेत अभिभूरित्या दिभिस्त्रिभिर्मन्त्रैरवनेनिक्ष्वेत्येतदन्तैः प्राक्संस्थानवनेजयति अवनिक्तान् शुचीन् करोति । 'यथा लिरिति ' यथाऽवनिक्तं येषु देशेषु अवनेजनं कृतं यथाऽवनिक्तं अवनिक्तमनतिक्रम्येत्यर्थः । दर्ज्या प्रादेशमात्रया व्यङ्कष्ठपर्वविस्तीर्णया पलाशाद्यन्यतमयज्ञियवृक्षोनवया उपघातमुपहत्योपहत्य गृहीत्वा आग्नेयेत्यादिभिस्त्रिभिर्मन्त्रैरेष ते वलिरित्येतदन्तैः प्रतिमन्त्रं सर्पेभ्यो बलिं हरति ददाति । उपघातमिति णमुल्प्रत्ययान्तः उपपूर्वो हन्तिर्ब्रहणार्थः । अथ स्रुवेणोपहत्याज्यमितिवत् । ' अवखस्व' इत्यन्तम् । अवनेज्य अवनेजनं दत्वा कथं पूर्ववत्कङ्कतै प्रादेशमात्रैस्त्रिभिरेकतोदन्तैः समुचितैराग्नेयेत्यादिभिस्त्रिभिर्मन्त्रैः प्रलिखस्वेत्यन्तैर्यथासङ्ख्यं प्रतिवलिं प्रलिखति कण्डूयति । ६ 'अञ्ज 'स्वेति ' अञ्जनं कज्जलं लौकिकदीपजं चैककुदं सौवीरमिति प्रसिद्धं वा । अनुलेपनं सुरभिचन्दनादि स्रजः पुष्पमाला: आग्नेयेत्यादिभिस्त्रिभिर्मन्त्रैरञ्जस्व अनुलिम्पस्व स्रजोऽपिनह्यस्वेत्यन्तैः प्रतिमन्त्रं प्रतिबलिहरणमेकैकं यथाक्रमं द्वाति । ' सक्तु "सृभिः सक्तुशेषं यच्छ्रर्षे न्युप्यानीतं बल्यर्थं बलिदानायोपलिप्तैकदेशे न्युप्य शूर्पेणैव क्षिप्त्वा उदपान्त्रेण जलपात्रेण उपनिनीय प्रवाह्य नमोऽस्तु सर्पेभ्य इति तिसृभिरृग्भिः सर्पानुपतिष्ठते । वल्यभिमुखस्तिष्ठन् प्राङ्मुखस्तिष्ठन् सर्पानुपतिष्ठते स्तौति । 'स या द्वाभ्यां ' स गृहपतिः यावत् यावन्तं देशं सर्पाः नागाः नाभ्युपेयुर्न संचरेयुरिति कामयेत इच्छेत् तावत् तावन्तं देशं सन्ततया अनवच्छिन्नया उदधारया सलिलधारया निवेशनं गृहं परिषिञ्चन् त्रिः परीयात् त्रीन्वारान् गृहस्य समन्तात्प्रादक्षिण्येन परिक्रम्य गच्छेत् कथम् अपश्वेतपदा जहीति द्वाभ्यां मन्त्राभ्याम् | 'वीं "च्छति' दर्वी पूर्वोक्ता शूर्प च प्रक्षाल्य क्षालयित्वा प्रतप्य सकृत्तापयित्वा संनिधानादुल्कायामेव प्रयच्छति ददाति उल्काधाराय सन्निधानादेव । ' द्वार'सृभिः ' द्वारदेशे शालायाः द्वारे आपोहिष्ठेति तिसृभिऋग्भिः मार्जयन्ते । बहुवचनोपदेशात् ब्रह्मयजमानोल्काधाराः मार्जयन्ते अद्भिरात्मानमभिषिञ्चन्ति । ' अनुयण्याः ' एतं प्रकृतं सक्तशेषं होमावशिष्टान् सक्तून् अनुगुप्तं सुरक्षितं यथ भवति तथा निधाय स्थापयित्वा ततस्तस्मात् श्रवणाकर्मकालात् प्रभृति अस्तमिते सूर्ये प्रतिदिन - मग्निमावसथ्यं परिचर्य सायंहोमेन आराध्य दर्योपघातं शूर्ते न्युप्तान् सक्तून्सर्पेभ्य उक्तप्रकारेजैव बलि हरति किमवधि आऽऽग्रहायण्याः आग्रहायणी पौर्णमासीं यावत् । अथवा आग्रहायण शब्देन तत्कालावधिकमाग्रहायणीकर्म लक्ष्यते तत्र हि वलीनामुत्सर्गस्य वक्ष्यमाणत्वात् । भाष्ट कारस्तु तत इति तेभ्यः सक्तुभ्यः दव्योपहत्योपहत्यास्तमितेऽस्तमिते अग्निपरिचरणं कृत्वा f हरेदाग्रहायणीं यावदित्याह स्म । वलिहरणं च अवनेजनदानप्रत्यवनेजनैः कङ्कतविलेखना रेव । ' तच्छेयुः तं गृहपतिं वलीन् हरन्तं आवसध्याग्निं अन्तरेण मध्ये न गच्छे प्राणिनः ततः श्वादयोऽपि निवार्या: । दुर्व्याधाति दर्ज्या आचमनं मुखं प्रक्षाल निदधाति स्थापयति प्रत्यहं दर्वी मुखप्रक्षालनोपदेशाच्छुर्पप्रक्षालनाभावः । [ धाना" स्यूताः धाना भर्जितान् यवान् प्राश्नन्ति भक्षयन्ति बहुवचनोपदेशात् ब्रह्मयजमानोल्काधाराः । कथं भूत
s