________________
२९२
परिस्करगृह्यसूत्रम् ।
[ चतुर्दशी
होमे० । आग्नेयाः अग्निदेवत्याः । पाण्डवः पाण्डुसंज्ञकसर्पजातीयाः । पार्थिवाः पृथिव्यां विहारिणः तेषां सर्पाणामधिपतये शेषाय वासुकये वा स्वाहा सुहुतमस्तु । तथा श्वेताः श्वेतजातीयाः वायवाः वायुदेवत्या इति यावत् अन्तरिक्षाः अन्तरिक्षविहारिणः तेषामधिपतय इति प्राग्वत् ॥ २ ॥ तथा अभिभवन्ति सर्वानित्यभिभुवः । सौर्याः सूर्यदेवत्याः । दिव्याः द्युविहारा: । अत्र सर्वत्र द्वन्द्वसमासः । तेषाम् । अभिभूरित्यत्र विसर्गश्छान्दसः ॥ ३ ॥ अवनेजनबलिहरणप्रत्यवनेजनकङ्कतप्रलेखनाञ्जनानुलेपनस्रजश्चाप्येवमेव व्याख्येयाः । सर्वहुतं चापरिशेषितं सकलमित्यर्थः । तत्र चैकाssहुतिः । सर्वहुतमेककपालं पुरोडाशं ध्रुवाय भौमाय स्वाहेति जुहोति । ततः स्थालीपाकधानासक्तुभ्यः स्विष्टकृद्धोमः । प्राशनान्ते सक्तूनामेकदेशं शूर्पे न्युप्य प्रक्षिप्य ब्रह्मोल्काधाराभ्यां सह शालाया बहिः निष्क्रमणम् उपनिष्क्रम्य बहिः शालायां स्थण्डिलमुपलिप्य स्वयमेव । उल्का च लौकिकाग्निसंभूता अन्तरागमनं च यजमानशा लाग्न्योरेव । माऽन्तरागमतेति प्रैषमुक्त्वा वाग्यतः स्थण्डिले सर्पानवनेजयति आग्नेयादिभिर्मन्त्रैः प्रतिमन्त्रम् | शेषं निगद्व्याख्यातम् । यथाऽवनिक्तमिति यत्र यत्र देशेऽवनेजनं कृतं तत्र तत्र वलिहरणम् । दृव्यपघातं दव्योपहृत्येत्यर्थः । उपपूर्वो हन्तिश्च ग्रहणार्थः । अथ स्रुवेणोपहत्याज्यमिति च । प्रलेखनं च क्रमेण प्रतिमन्त्रम् । वलिकण्डूयनं कङ्कतैस्तानि च वैकङ्कतीयानि प्रादेशमात्राण्येतानि काष्ठानि भवन्ति । अञ्जनादीनि च प्रतिमन्त्रं यथा (लि)ङ्गं प्रतिबलिहरणं ददाति । सक्तशेषं च शूपें उपनीतं स्थण्डिले न्युप्य स्रुवेण क्षिप्त्वा उपनिनीय आप्लाव्य उपस्थानं नमोऽस्तु सर्पेभ्य इति तिसृभिरृग्भिः । तत्र तिसृणां प्रजापतिरनुष्टुप् सर्पस्तदुपरथाने० । स यावत्कामयेत एतावन्तं देशं न सर्पा अभ्युपेयुरिति निवेशनं गृहं प्रति तावन्तं गृहदेशं संततयोदकधारया भूभागं त्रिः परिषिञ्चत् परीयात् परिक्रामेत् । अपश्वेतपदा जहीति द्वाभ्यां पूर्वोक्तमन्त्राभ्याम् । सकृन्मन्त्रेण परिगमनं द्विस्तूष्णीम् । 'दुवच्छति' उल्काधाराय । प्रतपनं चोल्कायामेव संनिधानात् । द्वारदेशे स्थित्वा आत्मानमद्भिः मार्जयन्ते आपोहिष्ठेति तिसृभिरृग्भिः । बहुवचनोपदेशात् [ अनेन ] ब्रह्मयजमानोल्काधाराश्च । एतं प्रकृतम् । 'अनुयण्याः' आग्रहायणीं यावत् । बलिहरणं चावनेजनदानप्रत्यवनेजनैः । 'तर्क'च्छेयुः' अन्तरागमनप्रति - षेधश्व बलिहरणकर्तुरावसथ्यस्य च । दर्व्याचमनं मुखं प्रक्षाल्यनिदधाति प्रत्यहम् । दवग्रहणान्न शूर्पस्य प्रक्षालनम् । 'धानाःस्यूताः ' अनवखण्डयन्त इत्यर्थः । तत एकं ब्राह्मणं कर्मा भोजयेत् ॥ १४ ॥
....डा.
( हरिहर: ) - ' अथा कर्म अथेदानीमावसथ्याग्निसाध्यकर्मणां प्रकृतत्वात् श्रवणाकर्मोंच्यत इति शेषः । ' श्रावस्याम् ' तच्च श्रावणमासस्य शुकुपञ्चदश्यां कर्तव्यम् । ' स्थाली ... शम् ' स्थालीपाकं चरुम् अक्षतधानाः अक्षतानां सतुषाणां यवानां धानाः अक्षतधानाः ताश्व अपयित्वा एककपालमेकस्मिन्कपाले श्रप्यत इत्येककपालं तं पुरोडाशं श्रपयित्वेत्यनुषज्यते अन्यथा तद्भूतोपादानं स्यात् । अतश्च धानापुरोडाशयोः श्रपणोपदेशात् भर्जनकपालयोरपि आसादने प्रोक्षणे भवतः, अर्थवतां प्रोक्षणमविशेषेणोपदिश्यते । 'धानास्वाहेति धानानां भर्जितानां यवानां मध्ये भूयसीः वह्वीः पिष्ट्रा सक्तुत्वमापाद्य आज्यभागौ हुत्वा अपश्वेतपदा जहि नवे श्वेतस्या
याचार इति द्वाभ्यां मन्त्राभ्यां द्वे आज्याहुती जुहोति । ' स्थाली "भ्यश्चेति ' अनन्तरं स्थालीपाकस्य चरोश्वतत्र आहुतीर्जुहोति यथा विष्णवे स्वाहेत्येवमादिभिश्चतुर्भिर्मन्त्रैः । ' धानानाम् ' धानावन्तं करम्भिणमित्यनयच धानानामेकामाहुतिं जुहोति । ' घृता'स्वाहेति ' घृतेन आज्येन अक्ता: अभिघारिताः घृताक्ताः तान् सक्तून् सर्पेभ्य आग्नेयपाण्डुपार्थिवेत्यादिभिर्मन्त्रैः प्रतिमन्त्रमेकामे तिस्र आहुतीर्जुहोति । 'सर्वस्वाहेति ' तन एककपालं पुरोडाशं सर्वहुतं यथा भवति
1 * 11
11 * 11