________________
२९०
पारस्करगृह्यसूत्रम्
[ चतुर्दशी
चापरेण च । सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहा ॥ ४ ॥ न वै श्वेतस्याभ्याचारेऽहिर्ददर्श कंचन । श्वेताय वैदर्व्याय नमः स्वाहेति ॥ ५ ॥ स्थालीपाकस्य जुहोति विष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति ॥ ६ ॥ धानावन्तमिति धानानाम् ॥ ७ ॥ घृताक्तासक्तन्सर्पेभ्यो जुहोति ॥ ८ ॥ आग्नेयपाण्डुपार्थिवानाथं सर्पाणामधिपतये स्वाहा श्वेतवायवान्तरिक्षाणार्थं सर्पाणामधिपतये स्वाहाऽभिभूः सौर्य दिव्यानार्थं सर्पाणामधिपतये स्वाहेति ॥ ९॥ सर्वहुतमेककपालं ध्रुवाय भौमाय स्वाहेति ॥ १० ॥ प्राशनान्ते सक्तूनामेकदेश- शूर्पे न्युप्योपनिष्क्रम्य बहि:शालायाः स्थण्डिलमुपलिप्योल्कायां प्रियमाणायां मान्तरागमतेत्युक्त्वा वाग्यतः सर्पानवनेजयति ॥ ११ ॥ आग्नेयपाण्डुपार्थिवानाथं सर्पाणामधिपतेऽवनेनिक्ष्व श्वेतवायवान्तरिक्षाणार्थं सर्पाणामधिपतेऽवनेनिक्ष्वाभिभूः सौर्यदिव्यानां सर्पाणामधिपतेऽवनिक्ष्वेति ॥ १२ ॥ यथाऽवनिक्तं दव्यपघात सक्तून्सर्पेभ्यो बलिर्ठ हरति ॥ १३ ॥ आग्नेयपाण्डुपार्थिवानां सर्पाणामधिपत एष ते बलिः श्वेतवायवान्तरिक्षाणां सर्पाणामधिपत एष ते बलिरभिभूः सौर्यदिव्यानार्थं सर्पाणामधिपत एष ते बलिरिति ॥ १४ ॥ अवनेज्य पूर्ववत्कङ्कतैः प्रलिखति ॥ १५ ॥ आग्नेयपाण्डुपार्थिवाना सर्पाणामधिपते प्रलिखस्व श्वेतवायवान्तरिक्षाणार्थं सर्पाणामधिपते प्रलिखवाभिभूः सौर्य दिव्यानार्थं सर्पाणामधिपते प्रलिखस्वेति ॥ १६ ॥ अञ्जनानुलेपन सजवाल स्वानु लिम्पस्व स्रजोऽपि नास्वेति ॥ १७ ॥ सक्तशेषं स्थण्डिले न्युयोदपात्रेण पनि नीयोपतिष्ठते नमोऽस्तु सर्पेग्य इति तिसृभिः ॥ १८ ॥ स यावत्कामयेत न सर्पा अभ्युपेयुरिति तावत्सन्ततयोदधारया निवेशनं त्रिः परिषिञ्चन्परीयादपश्वेतपदा जहीति द्वाभ्याम् ॥ १९ ॥
व शूर्पं प्रक्षाल्य प्रतप्य प्रयच्छति ॥ २० ॥ द्वारदेशे मार्जयन्त आपोहिष्ठेति तिसृभिः ॥ २१ ॥ अनुगुप्तमेत सक्तशेषं निधाय ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्यं दव्यपघात सक्तन्सर्पेभ्यो बलि हरेदाग्रहा यथाः ॥ २२ ॥ तर्क हरन्तं नान्तरेण गच्छेयुः ॥ २३ ॥ दर्याचमनं