________________
कण्डिका द्वितीयकाण्डम् ।
२८९ कर्षणम् । ततो ब्राह्मणभोजनम् । अथ ब्रीहियवयोर्वपनकाले मातृपूजापूर्वकमाभ्युदयिकं कृत्वाऽऽवसध्येऽग्नौ कर्म भवति । तत्र ब्रह्मोपवेशनादिप्राशनान्ते विशेषः । तण्डुलस्थाने सिद्धस्य चरोरासादनं प्रोक्षणं च । आज्यभागान्ते स्थालीपाकेन लाङ्गलयोजनदेवताभ्यो होमः । इन्द्राय स्वाहा पर्जन्याय स्वाहा अश्विभ्यां स्वाहा मरुद्भ्यः स्वाहा उदलाकाश्यपाय स्वाहा स्वातिकाय स्वाहा सीतायै स्वाहा अनुमत्यै स्वाहा । यथादैवतं त्यागाः । ततश्चरुणा स्विष्टकृत् । ततो भूरादिनवाहुतयः । संस्रवप्राशनम् । मार्जनम् । पवित्रप्रतिपत्तिः । दक्षिणादानम् । प्रणीताविमोकः ॥ १३॥
(विश्व०)-पुण्या.."जनं पुण्याहपदं शुक्लपक्षाद्यनादरार्थ तच न संभवति गौण्या मुख्यया वा तस्य तत्रावृत्तेः । लाङ्गलं हलं ज्योतिःशास्त्रादिपरिगृहीते उत्तमेऽह्नि हलयोजनं कुर्यादिति शेषः । पक्षान्तरमाह-ज्येष्ठ 'वत्यं' हेतुत्वं तृतीयार्थः । यतः ज्येष्ठानक्षत्रमिन्द्रदेवताकं कृषेश्वेन्द्राधीनत्वात्तेन ज्येष्टायां लाडलयोजने न तथा पुण्याहापेक्षा । प्रथमलाइलयोजनप्रवृत्तस्य भवति । अत्रापि मातृपूजाभ्युदयिक भवतः ।' इन्द्र"येत् । इन्द्रादीननुमत्यन्तान् । दना तण्डुलैगेन्धैरक्षतैरेकीकृतैरिष्ट्वा बलिदानेनेति शेपः । बलिदानं प्राक्संस्थमुदग्वा । प्रायुदञ्चीति परिभाषितत्वात् । बलिदानं चोपलिमायां क्षेत्रसंनिहितभुवि । ततो दधितण्डुलगन्धाक्षतान् दक्षिणहस्तेनादाय इन्द्राय नमः पर्जन्याय नमः अश्विभ्यां नमः मरुद्भ्यो नमः उदलाकाश्यपाय नमः स्वातिकाय नमः सीतायै नमः अनुमत्यै नमः अष्टौ बलीन् दद्यात् । ततो मधुघृते पात्रे कृत्वा वलीवाभ्यां प्राशयेत् । लेहयेदित्यर्थः । 'सीरा''येत् । लाङ्गल इति शेषः । 'शुन"मेत ' फालः कर्षणसाधनं लौहं कर्षणस्पर्शयोर्विकल्पार्थों वाशब्दः । इदानी मन्त्रयोनिषेधमाह-'नवा "गाच' वाशब्दः पूर्वपक्षव्यावृत्तौ । एतौ मन्त्रौ न भवतः किंतु तूष्णीमेव योजनकर्षणादि भवेत् । तत्र हेतुमाह-अग्न्युपदेशात् । अग्निः चयनं तत्र मन्त्रयोरुपदेशात्प्रकृते न भक्तः । न च वाच्यमतिदेशः, अन्येपामपि धान्यादिवपनमन्त्राणां चयनोपदिष्टानां या ओषधीरित्यादीनामतिदेशापत्तेरित्याह वपनानुपड्डाचेति । अग्य "पेयुः । अत्र्यं श्रेष्ठवलीवर्दमभिषिच्य घण्टादिनाऽलंकृत्य अकृष्टमविलिखितं भूभाग तदा कृषेयुः विलिखेयुः । लाङ्गलयोजनेन भूमिं वपनयोग्यां संपादयेन् । इदानी वपनकर्तव्यतामाह-'स्थाली 'पन् । मातृपूजाभ्युदयिके विधाय परिसमूहनाद्युपयमनप्रक्षेपान्ते विशेषः । ग्रहणे इन्द्राय पर्जन्यायाश्विभ्यां मरुय उदलाकाश्यपाय स्वातिकाय सीतायै अनुमत्यै जुष्टं गृह्णामि । प्रोक्षणे त्वाशब्दोऽधिकः । आज्यभागानन्तरं स्थालीपाकस्य चरोः पूर्ववत् लाङ्गलयोजनोक्तदेवताः इन्द्रादिकाः यजेत् । किं कुर्वन् । प्रवपन् उप्तिं कुर्वन् । कयोः ब्रीहियवयोरित्यन्वयः । इन्द्राय स्वाहेत्यादि अनुमत्यन्तं विष्टकद्धोमादि ब्राह्मणभोजनान्तं तदनन्तरं वैश्वदेवः । सीतायज्ञे च' सिद्धेषु त्रीहिषु यथेषु च सीतायज्ञो भवति । स च वक्ष्यते । तत्रापीन्द्रादयोऽनुमत्यन्ता लागलयोजनदेवताः होमकर्मणा बलिदानेन च यष्टव्या इत्यतिदिश्यत इत्यर्थः । ततो "जनं । दश पञ्च वा परिशिष्टात् । एतच्च प्रवपनं ब्रीह्यादीनां लौकिकाग्नौ भवतीत्यवसीयते । अन्ये तु निरमेरेव लौकिकाग्नौ कृतावसथ्यस्यावसथ्ये भवतीत्याहुः । इति त्रयोदशी कण्डिका ।। १३ ॥ ॥ॐ॥
अथातः श्रवणाकर्म ॥ १ ॥ श्रावण्यां पौर्णमास्याम् ॥ २ ॥ स्थाली. पाक श्रपयित्वाऽक्षतधानाश्चैककपालं पुरोडाशं धानानां भूयसीः पिष्टवाऽऽज्यभागाविष्ट्वाऽऽज्याहुती जुहोति ॥ ३ ॥ अपश्वेतपदाजहि पूर्वेण