________________
२८८ पारस्करगृह्यसूत्रम।
[त्रयोदशी भावेऽपि विनियुज्यते तदा वपनमन्त्रा अपि तल्लिङ्गत्वाद्विनियोजनीया भवेयुः । न चैतदिष्यते । 'अग्र्य' 'पेयुः । अयं श्रेष्टं वलीवर्द अभिपिच्य गन्धमाल्यादिभिर्भूपयित्वा अकृष्टमविलिखितं यत्तक्षेत्रमाकृषेयुः विलिखेयुः । 'ततो"नम्' इति लाडलयोजनम् । इति सूत्रार्थः । अथ साग्निकस्य कृषिकर्मणि विशेषमाह 'स्थाली' 'शे च ' स्थालीपाकस्य चरोः पूर्ववल्लाङ्गलयोजनोक्तदेवता इन्द्रादिकाः यजेत किंकुर्वन् प्रवपन् सीरामुप्तिं कुर्वन् कयोः ब्रीहियवयोः ब्रीहियवयोर्वपनकाले । अत्र स्थालीपाकस्य अपणोपदेशाभावात् सिद्धस्योपादानम् । इति सूत्रार्थः ॥ ॥ अथ प्रयोगः । तत्र प्रथमप्रयोगे मातृपूजाभ्युदयिकानन्तरमावसथ्याग्नौ ब्रह्मोपवेशनादिप्राशनान्ते तण्डुलस्थाने पूर्वसिद्धं स्थालीपाकमासाद्य प्रोक्षणकाले प्रोक्षेत । तत आज्यभागानन्तरं स्थालीपाकेन लाजलयोजनदेवताभ्यो जुहुयात् । तद्यथा इन्द्राय स्वाहा इदमिन्द्रायः । तथा पर्जन्याय स्वाहा इदं पर्जन्याय० अश्विभ्याई स्वाहा इदमश्विभ्यां० मरुद्भ्यः स्वाहा इदं मरुन्यो । उदलाकाश्यपाय स्वाहा इदमुदलाकाश्यपाय० । स्वातिकायै स्वाहा इदं स्वातिकाय० । सीतायै स्वाहा इदं सीतायैः । अनुमत्यै वाहा इदमनुमत्यैः । ततोऽग्नये स्विष्टकृते स्वाहेति हुत्वा आज्येन नवाहुतीश्च हुत्वा प्राशनब्रह्मणे. दाक्षिणादानब्राह्मणभोजनादि कुर्यात् । इति व्रीहियववपनकर्म । सीतायझे च एता एव देवताः स्थालीपाकेन यजेदित्यतिदेशः ।।
(गदाधरः)-'पुण्या''जनम् ' यस्य कृषिकर्मण्यधिकारस्तस्येदमुच्यते । पुण्याहे उदगयने शुक्लपक्षे चन्द्राद्यनुकूलदिने लाडलस्य हलस्य योजनं प्रवर्तनं भवति । प्रथमकपिप्रवृत्तस्यैतत्कर्म भवति । उदगयने आपूर्यमाणपक्षे पुण्याह इत्यनेनैव प्राप्तत्वादत्र पुण्याहग्रहणमग्रिमसूत्रे अपुण्याहत्वद्योतनार्थम् । पक्षान्तरमाह 'ज्येष्ठ त्यम् । अथवा अपुण्याहेऽपि ज्येष्ठया नक्षत्रेण युते दिने लाङ्गलयोजनं भवति । प्रथमकृपिप्रवृत्तस्यैतत्कर्म भवति । उद्गयन इन्द्रदेवत्यं ज्येष्ठानक्षत्रं यतः इन्द्राधीनं च कृपिकर्म वृष्टिनिमित्तत्वात् । ज्येष्टया वेति हेतौ तृतीया । ज्येष्ठायामिन्द्रदेवत्यं वेति भर्तृयज्ञपाठः । 'इन्द्रं 'येत् ' यागशब्देन देवतोद्देशेन वल्युपहार उच्यते । इन्द्रादिदेवताविशेपान्दना तण्डुलैगन्धैरक्षतैर्यवैश्चेष्ट्वा नमोऽन्तैर्नाममन्त्रैर्वलिहरणेन संपूज्य अनडुहो वलीवन्मिधुघृते पाने कृत्वा तूष्णी प्रत्येकं प्राशयेत् । 'सीरा"भेत ' यागानन्तरं सीरायुचन्तीत्यनेन मन्त्रेण वृपभो हले योजयेद्दक्षिणोत्तरक्रमेण । ततः शुन: सुफाला इति भूमि कृपेत् । अथवा शुनह सुफाला इति फालं हलमुखमायसमभिमृशेत् । उभयलिहत्वान्मन्त्रस्य । 'नवा''शात् । न चैतौ मन्त्रौ विनियोक्तव्यौ । किंकारणम् । अग्निचयन एतावुपदिष्टौ । न चाग्निप्रकरणपठितयोरिहोपदेशो नातिदेशः । किंच 'वन' ' 'च' अग्निचयनप्रकरणे अन्नवपने ये मन्त्रा या ओपधीरित्यादयो विनियुक्तास्तेपामप्यनुपङ्गः प्राप्नोति । यदि लिङ्गमात्रेण विनियोगः स्यात् । न चैतदिष्यते । 'अत्र्य"पेयुः । अत्र्यं वल्लभं वलीवर्दमभिपिच्य घुर्घरमालादिना भूपयित्वा अकृष्टमविलिखितं यक्षेत्रं तत्कृपयुः । 'स्थाली “जनम्' इदमपरं कर्मान्तरम् । स्थालीपाकस्य अपणानुपदेशादत्र सिद्धस्यैव ग्रहणम् । म्यालीपाकस्य चरोः पूर्ववल्लागलयोजनोक्ता देवता इन्द्रादिका यजेत् । किंकुर्वन् प्रवपन् उप्तिं कुर्वन् । कयोः बीहियवयोपनकाले । ततो ब्राह्मणस्य भोजनं कार्यम् ॥ इति त्रयोवशी कण्डिका ॥ १३ ॥
अथ पदार्यक्रमः । पुण्याहे लागलयोजनम् । उद्गयनाद्यभावेऽपि ज्येप्टानक्षत्रे वा मातृपूजापूर्वकमाभ्युदयिकश्राद्धम् । ततो ध्याद्यादाय लालयोजनदेश गमनम् तत्र स्थण्डिलानुलेपनम् । नत्र, दधितण्डुलगन्धाक्षतमिश्रितैरिन्द्रादिभ्यो वलिहरणम् । हन्तेनैव । इन्द्राय नमः पर्जन्याय नम अश्विभ्यां नमः मरुभ्यो नमः उद्लाकाग्यपाय नमः स्वातिकाय नमः सीतायै नमः अनुमत्यै नमः । यथा देवतं त्यागाः । अनहो मधुघृतं प्रागयेत् । नतः प्रथमवलीबईस्य मण्डनम् । ततोऽष्टे दंग