________________
फण्डिको द्वितीयकाण्डम् ।
२८७ (कर्कः)-'पुण्या'नम् ' प्रथमं कृषिप्रवृत्तस्यैतद्भवति । पुण्याहग्रहणमापूर्यमाणपक्षोदगयनाद्यनादरार्थम् । लाइलयोजनं हलयोजनमित्यर्थः । ज्येष्ठ""त्यम् । ज्येष्टया वेति हेतौ तृतीया । अपुण्याहेऽपि ज्येष्ठया भवति लाङ्गलयोजनम् । कुत एतत् । इन्द्रदेवत्यं ज्येष्ठानक्षत्रं इन्द्रायत्ता च कृपिरिति । इन्द्रं "रिष्ठा' इन्द्रादिदेवताविशेपान् दध्यादिभिरिष्टवा । इष्टुत्यनेन नमस्कारान्तैरेमिमन्त्रैर्वलिहरणमिन्द्राय नम इत्येवमादिभिः । 'अन' 'भेत' कुन एतत् । लिड्डाच मन्त्रयोः । 'न वा"शात् । न चैतौ मन्त्रौ विनियोक्तव्यौ किंकारणं अग्नौ ह्येतावुपदिष्टौ न चाग्निप्रकरणपठितयोरिहोपदेशो नातिदेशः । किंच 'वप'च' वपनेऽपि तन्मन्त्राणामनुषङ्गः प्राप्नोति न चैतदिप्यते । 'अग्र्य' 'पेयुः । योऽत्र्यो वल्लभो वलीवर्दस्तस्य चाभिपेको घुर्घरमालादिना अनेन प्रकारेणाकृष्णं कृषेयुः । 'स्थाली'"जनम् । ॥ १३ ॥
(जयरामः)-पुण्याहग्रहणं चापूर्यमाणपक्षोदगयनाद्यनादरार्थम् । लाडलं हलं तस्य योजनमनुसंधानम् । तच्च प्रथमकृपिप्रवृत्तस्य भवति । ज्येष्ठया वेति हेतौ तृतीया । अतोऽपुण्याहेऽपि ज्येष्ठया तद्भवति लाजलयोजनम् । कुत एतत् । इन्द्रदेवत्यं हि ज्येष्ठानक्षत्रम् । इन्द्रायत्ता च कृपिरिति । इन्द्रादिदेवताविशेपान्दध्यादिभिरिष्वा । इष्टिश्च नमस्कारान्तैरिन्द्राय नम इत्यादिमन्त्रैवलिहरणम् । ततोऽनडुहो मधुघृते प्राशयेत् । अनडुहश्चतुः प्रभृतीन् । योजनं च लाङ्गले बलीवयोः सीरायुयुञ्जन्तीति मन्त्रेण । तत्र वुधो गायत्री सीरायोजने० । शुनमिति मन्त्रेण भूमि कृपेत् फालं हलं वा लभेतेति विकल्पो मन्त्रलिङ्गात् । तत्र कुमारहरितत्रिष्टुप् सीताकर्षणे० न वा एतौ मन्त्रौ न वा विनियोक्तव्यौ । कुतः अग्न्युपदेशात् । यत एतावग्नावुपदिष्टौ । न चाग्निप्रकरणपठितयोरिहोपदेशो न वातिदेशः । किंच वपनानुपनाच वपनेऽपि च तन्मन्त्राणामनुषड्नः प्राप्नोति । नचैतदिष्यते । अग्र्यस्य श्रेष्ठस्य वलीवर्दस्याभिषेको घर्षरमालादिनाऽलंकारः । एवंप्रकारंणाकृष्टं भूभागं कृपेयुः । तदा एतत्प्रवृत्तिकाले । इदमपरं कर्मान्तरम् । स्थालीपाकस्येत्यवयवलक्षणा पष्ठी पूर्ववल्लाङ्गल्योजनोक्तदेवता इन्द्रमित्याद्या यजेत । किंकुर्वन् ब्रीहियवयोः प्रवपन् पूर्ववत् सीतायज्ञे च वक्ष्यमाणे । अत्र च स्थालीपाकस्य अपणानुपदेशात्सिद्धस्योपादानमिति ॥ १३ ॥
(हरिहरः)-'पुण्या'नम् प्रथमं कृपिप्रवृत्तस्यैतत्कोच्यते । पुण्याहे उद्गयनशुक्लपक्षादिव्युदासेन चन्द्रतारानुकूले दिवसे लाइलस्य हलस्य योजनं प्रवर्तनम् । ' ज्येष्ट''त्यम् । पक्षान्तरमाह । यद्वा अपुण्याहेऽपि ज्येष्ठया नक्षत्रेण युते लाडलयोजनम् । कुतः । इन्द्रदैवत्या ज्येष्टा यतः इन्द्रायत्ता च कृपिरिति । एतच्च मातृपूजाभ्युदायिकश्राद्धपूर्वकम् । ' इन्द्र..येत् । तत्र इन्द्रादीननुमत्यन्तान् अष्टौ देवताविशेपान् दन्ना तण्डुलैर्गन्धैरक्षतैश्च अक्षताः यवाः इष्ट्वा नमोन्तै ममन्त्रैर्वेलिहरणेन संपूज्य अनडुहो वृषभान् मधुघृते मिलिते प्राशयेत् । तद्यथा । दधितण्डुलगन्धाक्षतान् पाने कृत्वा शुचिराचान्तः प्राङ्मुख उपविश्य कृषिक्षेत्रैकदेशे गोमयोपलिते हस्तेन गृहीत्वा । इन्द्राय नमः पर्जन्याय नमः अश्विभ्यां नमः मरुभ्यो नमः उदलाकाश्यपाय नमः स्वातिकाय नमः सीतायै नमः अनुमत्यै नमः । यथामन्त्रं त्यागाः इदमादिका नमोरहिताः । इत्यष्टौ वलीन् प्रासंस्थान् दत्वा ततो वलीवन मधुघृते पात्रे कृत्वा तूष्णीं प्रत्येकं प्राशयेत् लेहयेत् । 'सीरा"भेत' सीरायुक्षन्तीत्यनयर्चा वृपभौ हले योजयेद्दक्षिणोत्तरक्रमेण शुनः सुफाला इत्यनचर्या भूमि कृपेत् । यद्वा शुनधः सुफाला इति फालमभिमृशेत् । उभयलिङ्गवान्मन्त्रस्य । 'न वा "शात् । न वा एतौ योजने कपणे च मन्त्री भवतः । कुतः अग्नौ अग्निचयने एतयोरुपदेशात् । न च अग्निप्रकरणे आनातयोस्त्रोपदेशः न वाऽतिदेशः । वपनानुषझाच ' इतोऽपि मन्त्रौ न भवतः । अग्निप्रकरणे वीजपने ये मन्त्रा या ओषधीरित्याद्या विनियुक्तास्तेषामप्यत्रानुषङ्गः स्यात् । यदि लिङ्गमात्रेणोपदेशातिदेशा