________________
२८६ पारस्करगृह्यसूत्रम्।
[द्वादशी देवाच्छदांसि वेदाश्च ऋषयश्च सनातनाः । तथा-पुराणाचार्यान् गन्धर्वानितराचार्यास्तथैव च । अहोरात्राण्यर्द्धमासा मासा ऋतव एव च । संवत्सरोऽवयवैः सार्द्धमयं पुरश्च पञ्चभिः । मन्त्राभ्यांमूर्द्धति माछन्दस्तित्र एव च । एवं षोडशभिर्मन्त्रैः सप्तऋषय इत्येकया । चतुर्भिस्तर्पयेवंशैरिमावेवेत्यनेन च । सावित्री पाठयेच्छिष्यान् चतुःकृत्वो गुरुः स्वयम् । विरताः स्मेति पठेयुस्ते प्रणवं योजयेत्कविः । सावित्री त्रिः समुच्चार्य अध्यायाँश्च प्रपाठकान् । शतस्थानान्यनुस्मृत्य कण्डिकाश्च तथान्तिमाः । अन्तिमाः फक्किका ब्रूयादग्निमीळे पुरोहितम् । इपे त्वेत्यग्न आयाहि शन्नो देवीरमिष्टयः । सहनोऽस्त्विति मन्त्रं च पश्चादुभाकवीति च इति ।। इति पदार्थक्रमः ॥
(विश्व०)-पूर्वमर्द्धषष्ठानद्धसप्तमान्वा मासानधीत्योसृजेयुरित्युक्तं, सचोत्सर्गः कथमित्यपेक्षायां ससमयं तद्विधिमाह-'पौष "जेयुः। मध्यमाष्टका पौष्यनन्तरकृष्णाष्टमी । अपरे तु पौषीमाथ्युतरकृष्णाष्टम्योरुपादानमाहुः । कथमत आह.-'उद''येयुः । उदकान्तं गत्वेत्यनेन स्नानविधिलक्ष्यते स च वखनिष्पीडनात् प्रागने तर्पणस्य करिष्यमाणत्वात् , ततश्च तर्पणकुशान् ऋषितर्पणाथै संरक्ष्य नित्यतर्पणानन्तरं प्रवरारुन्धतीसहितान्सप्तपीन्संस्थाप्य प्रतिष्ठां कृत्वेमावेवेत्यालभ्य सप्तर्षय इत्युपचारैः पूजयित्वा तत्प्रीत्यर्थ द्विजेभ्योपवीतानि दत्त्वा ऋपिभ्यो नत्वा प्राक्स्थापितान्कुशानादायाद्भिर्देवादीस्तर्पयेयुरित्यन्वयः । तद्यथा । देवास्तृप्यन्तां छन्दासि तृप्यन्ताम् ऋषयः सनातनास्तृप्यन्तां पुराणाचार्यास्तृप्यन्तां गन्धर्वास्तृप्यन्ताम् इतराचार्यास्तृप्यन्तां अहोरात्राणि तृप्यन्ताम् अर्द्धमासास्तृप्यन्तां मासास्तृप्यन्ताम् ऋतवस्तृप्यन्तां संवत्सरः सावयवस्तृप्यतु तत आचार्यपितृन् तर्पयेत् । अमुकसगोत्राः आचार्यपितरः अमुकशर्माणस्तृप्यध्वम् । अपसव्येनाञ्जलित्रयम् । एवं पितामहप्रपितामहयोस्तर्पणमाचार्यस्य । अत्रैकवचनान्त एव तर्पणे प्रयोग इत्याचार्यः । ततोऽमुकगोत्राः पितरः अमुकशर्माणस्तृप्यध्वमिति स्वपितृतर्पणम् एवं पितामहप्रपितामयोः । अत्राप्येकवचनान्त एव प्रयोग इत्याचार्याः । ततो मण्डनकारिकान्ते आवापः । अयं पुरोमुवः ५ । मूर्द्धावयः २ । माछन्दः ३ । एवछन्दः १६ । सप्तऋषयः १। चत्वारोवंशाः । इमावेव गोतमभरद्वाजौ १ । 'सावि 'बयुः' अत्र प्राङ्मुख आचार्यः । प्रत्यड्मुखा इतरे । 'क्षपणं' त्रिरात्रमनध्यायो लोमनखानामकर्तनं चेत्यर्थः । 'प्रवचनं च ' इषेत्वा कृष्णोऽसि व्रतमुपैष्यन् सबै कपालानीत्येवमादि अध्यायशतप्रपाठकांत्यकण्डिकान्त्यफकिकादिकीर्तनम् । कथमत आह ' पूर्ववत् । अध्यायोपाकर्मवत् । अत्रापि प्रथमप्रयोगे मातृश्राद्धम् | उभाकवीत्येषा ऋक् उत्सर्गमन्त्रः । उदकसमीपे उत्सर्गः । त्रिरात्रमुत्सर्गानन्तरं तर्पणमित्यन्ये । ततस्त्रिरात्रानन्तरं शुक्लपक्षेषु वेदाध्ययनं कृष्णपक्षे. ध्वद्वानीति संप्रदायः। पूर्ववदित्यनेनात्रापि त्रिरात्र (सहोज्य विप्रतिष्ठेरनिति॥ द्वादशीकण्डिका||१२
पुण्याहे लाङ्गलयोजन ज्येष्ठया वेन्द्रदैवत्यम् ॥ १ ॥ इन्द्रं पर्जन्यमश्विनौ मरुत उदलाकाश्यप स्वातिकारीसीतामनुमतिं च दक्षा तण्डुलैर्गन्धैरक्षतैरिष्ट्वाऽनडुहो मधुधृते प्राशयेत् ॥ २ ॥ सीरायुञ्जन्तीति योजयेत् ॥ ३ ॥ शुनसुफाला इति कृषेत् फालं वाऽऽलभेत ॥ ४ ॥ नवाऽग्न्युपदेशाद्वपनानुषगाच ॥ ५ ॥ अग्र्यमभिषिच्याकृष्टं तदाकृषेयुः ॥ ६ ॥ स्थालीपाकस्य पूर्ववदेवता यजेदुभयो/हियवयोः प्रवपन्सीतायज्ञे च ॥ ७ ॥ ततो ब्राह्मणभोजनम् ॥ ८ ॥१३॥