________________
२८५
hosar ]
द्वितीयकाण्डम् |
मनात् स्नानं लक्ष्यते । ननु मासद्वयं श्रावणादि सर्वा नद्यो रजस्वलाः । तासु स्नानं न कुर्वीत वर्ज - fear समुद्रगा इति छन्दोगपरिशिष्टे नदीस्नानस्य निषेधात् कथं नद्याद्युच्यते । सत्यम् । उपाकमणि चोत्सर्गे प्रेतस्ना तथैव च । चन्द्रसूर्योपरागे च रजोदोषो न विद्यत इत्यपवादवचनान्न दोपः । ततो यथाविधि स्नात्वा माध्याह्निकं कर्म देवागातु विद इत्येतत्प्राक् निर्वर्त्य सप्तर्षि पूजावंशानुपठनानन्तरं देवास्तृप्यन्तां छन्दांसि तृप्यन्तामित्येवमाचार्यान्तान् यज्ञोपवीतिनस्तर्पयेयुः आचार्यसहिताः शिष्याः ततः प्राचीनावीतिनो दक्षिणामुखा नामगोत्रोचारणपूर्वकं स्वांश्च पितृपितामहप्रपितामहान् तर्पयेयुः अनन्तरं स्नानवस्त्रं निष्पीड्याचम्य देवागातु विद इत्यनयच समापयेयुः । 'सावि' 'ब्रूयुः ' ततः सावित्री तत्सवितुरित्यादिकां चतुः कृत्वोऽनुद्रुत्य पठित्वा विरताः स्म इत्याचार्यप्रमुखा शिष्याः सर्वेऽनुब्रूयुः । ' क्षपवत् ' क्षपणं अनध्ययनं लोमनखानामनिकृन्तनं च प्रवचनं अध्यायादीनां पठनं पूर्ववत् उपाकरणकालवत् । ततखिरात्रानन्तरं शुक्लपक्षेषु छन्दांस्यधीयीरन कृष्णपक्षेष्वङ्गानि । ततः पुनरर्द्धसप्तमासान्वाऽधीत्य एवमेवोत्सर्ग विधाय उभाकवी युवत्यादिकां ऋचं जपित्वा त्रिरात्रमेकरात्रं वाऽवस्थाय यथेष्टं विप्रतिष्ठेरन् पृथक् पृथक् गच्छेयुः । ततः पुनरुपाकरणकाले उत्सृष्टान् वेदानुपाकृत्य अध्ययनं यावदुत्सर्गमिति सूत्रार्थः ॥ १२ ॥
1
( गदाधरः ) - पौरन् ' पौषमासस्य रोहिण्यां रोहिणीनक्षत्रे । मध्यमायामष्टकायाम् । पौष्या ऊर्ध्वमष्टभ्यां वा अध्यायान् वेदान् उत्सृजेरन् पूर्वमुपाकृतान् पुनरुपाकरणं यावन्नाधीयीरन् । उत्सर्गप्रकारमाह । 'उदयेयुः । नद्याद्युदकान्तं उदकसमीपं गत्वा तत्र स्नात्वाऽद्भिर्देवादींस्तर्पयेयुराचार्यसहिताः शिष्याः । उदकान्तगमनेन च स्नानं लक्ष्यते । अत्र नदीरजोदोषो न भवति । तदुक्तम् — उपाकर्मणि चोत्सर्गे प्रेतस्त्राने तथैव च । चन्द्रसूर्योपरागे च रजोदोषो न विद्यत इति । 'सावि ब्रूयुः ' तर्पणस्यान्ते आचार्यसहिताः सर्वे शिष्याः सावित्रीं तत्सवितुरित्यृचं चतुः कृत्वोऽनुद्रुत्य पठित्वा विरताः स्म इति मत्रं ब्रूयुः । 'क्षपवत् ' ततः क्षपणं अनध्ययनं लोमनखानामनिकृन्तनं च प्रवचनं चाध्यायादीनां पठनं पूर्ववत् उपाकर्मकालवत् । ततस्त्रिरात्रानन्तरं शुक्लपक्षेपु छन्दांस्यधीयीरन कृष्णपक्षेष्वङ्गानि । ततोऽर्द्धषष्टान्मासानर्द्धसप्तमान्वा मासानेवमेवाश्रीत्य सर्वत उत्सृज्य उपाकृत्य चाधीयीतेति सिद्धम् ॥ इति द्वादशी कण्डिका ॥ १२ ॥
अथ पदार्थक्रमः । पौषस्य रोहिण्यां मध्यमाष्टकायां वा पौषस्यैवाध्यायोत्सर्गः । तत्र मातृपूजापूर्वकमाभ्युदयिकं श्राद्धम् । उदकान्तगमनम् । स्नात्वाऽद्भिर्देवादितर्पणम् । देवास्तृप्यन्तु छन्दांसि तृप्यन्तु वेदास्तृप्यन्तु ऋषयस्तृप्यन्तु पुराणाचार्यास्तृप्यन्तु गन्धर्वास्तृप्यन्तु इतराचार्यास्तृप्यन्तु संवत्सरः सावयवस्तृप्यतु पितरस्तृप्यन्तु आचार्यास्तृप्यन्तु । नामगोत्रोचारणपूर्वकं स्वॉच पित्रादींस्तर्पयेयुः । जीवपितृकाणां तु पितामहादितर्पणम् । ततस्तत्सवितुरित्यस्याः सावित्र्याञ्चतुरनुद्रवणम् । विरताः स्म इति सकृत् ब्रूयुः । उपाकर्मवद्ध्यायादीनां पठनम् । त्रिरात्रमनध्यायः । लोमनखानामनिकृन्तनं च त्रिरात्रम् | ततस्त्रिरात्रादूर्ध्व शुकपक्षेषु छन्दांसि अधीयीरन् कृष्णपक्षेष्वङ्गानि । ततः पुनरर्द्धषष्ठमासानधीत्यार्द्धसप्तमासान्वाऽधीत्य एवमेवोत्सर्गे विधाय उभाकवीत्यादिकामृचं जपित्वा त्रिरात्रमेकत्रावस्थाय पश्चाद्यथेष्टं पृथक् गच्छेयुः । ततः पुनरुपाकरणकाले उत्सृष्टान् वेदानुपाकृत्याध्ययनं यावदुत्सर्गम् । वृद्धाचारका रिकायां विशेषः - पौषस्य रोहिण्यामृक्षे वाऽष्टकां प्राप्य मध्यमाम् । उदकान्तं समासाद्य वेदस्योत्सर्जनं बहिः । स्नातव्यं विधिवत्तत्र स्थापयेदृष्यरुन्धती । प्रवरांच ततो धीमान् कुर्यात्तेषां प्रतिष्ठितिम् । इमावेवेति यजुषा नामान्येषां विनिर्दिशेत् | अद्भिस्तान् स्थापयेत्तत्र सप्तऋपय इत्यृचा । अर्धस्तेभ्यः प्रदातव्यः पूजनं चन्दनादिभिः । नैवेद्यैर्विविधैः पूज्या वेदस्य हितमिच्छता । ऋषीणां प्रीतये दद्यादुपवीतान्यनेकशः । प्रणम्य च मुनीन् भक्त्या पश्चात्तर्पणमाचरेत् ।
1